अक्षर आकार:

कावेरी अथवा सह्यजानवरत्नमालिका

kAverI athavA sahyajAnavaratnamAlikA

कावेरी अथवा सह्यजानवरत्नमालिका

श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । ॥ श्रीः ॥ अथ सह्यजानवरत्नमालिका । यत्पाथःकणवाहि मारुतलव स्पृष्टेषु दुष्टेष्वपि प्रध्वंसम्प्रबलैनसां विदुरिह प्राज्ञाभवाज्ञाजुषः । सिष्णासां त्वयिबिभ्रतो ममचिरात् कृष्णाधिके सह्यजे निष्णातासि न किं विगाहनकृतः पङ्कौघसङ्क्षालने ॥ १॥ कावेरित्वत्कवारि प्रवहति सरितां सार्वभौमीहभूमौ यत्रायम्पुण्यदेशः सतुकिमुत वृषाकप्यभीष्टस्थलञ्चेत । काश्या तुल्यानि यानित्वगणिषत षडप्यार्षगीषुस्थलानि श्वेतारण्यं च तेष्वादिममिहवसतां कोयमस्तस्यकेऽमी ॥ २॥ कावेरि त्वद्वारि पुरोदरेऽस्मिन् स्नायं स्नायं धूतपापोऽस्ततापः । आसञ्जीर्णः पूर्णकामस्तदित्थं विज्ञाप्यस्ते वल्लभ सिन्धुराजः ॥ ३॥ राज्ञःसेवादुष्करासर्वनॄणां कान्तोभीमैर्भीमरूपस्स यस्मात् । प्राप्तायेतद्वल्लभायाः प्रसादं सिद्धंसर्वाभीष्टमेषां ह्ययत्नात् ॥ ४॥ महारावारवारौघैः भीषणैः श्रोत्रभीर्तिदैः । कथन्नुमादृशां शक्यो राजापामुपसेवितुम् ॥ ५॥ अम्भोनिधेरनुगुणं भवतीकलत्रं लोकान् विलोकनत एव युवां पुनीथः । पानावगाहन मुखोपकृति प्रकर्षात् देवित्वमेनमतिशय्य विभासिमातः ॥ ६॥ कालं पतीक्ष्यैव सजातु सेव्यः त्वत्तोऽधिकङ्किन्नु फलन्ददाति । तस्मान्नदीराजमहिष्यलंमे त्वत्संश्रयो यत्फलमम्बसूते ॥ ७॥ असह्यपापवारिणि त्वदीयपुण्यवारिणि क्वसह्यजे निमज्जतामघौघ साध्वसंनृणाम् । विधूतपातका हि ते विनैवकृच्छ्रजश्रमं प्रयान्ति शम्भुमन्दिरं प्रकृष्टपुण्यभासुराः ॥ ८॥ सह्याद्रेःपितुरन्तिकात् पतिगृहं गन्तुम्प्रवृत्तासती कावेरी कृतचोलमण्डल परिष्काराभ्युदञ्चद्रसा । स्वर्णस्तोमयुता सती प्रियतमं सन्तोष्यरत्नाकरं श्वेतारण्यपतेः प्रसादमयते द्वेधास्थिता पार्श्वयोः ॥ ९॥ कावेरि त्वत्स्तोत्रमेतत् पठन्ति श्रद्धाशुद्धा भक्तियुक्ता भवत्याम् । स्नातापुंसां वारिपूरेत्वदीये यावत्पुण्यं तावदेते लभन्ताम् ॥ १०॥ सह्यजास्तवन रत्नमालिका त्यागराजमखिनो मुखोद्गता । गृह्यतां परगुणैकशंसिभिः शङ्कराङ्घ्रि कमले समर्पिता ॥ ११॥ कदावा कावेरि त्वयि वृषभतीर्थेऽच्छसलिले तुलामासे दर्शेसति गगनमध्येसवितरि । समस्ताभिर्गङ्गा प्रभृतितटिनीभिस्समुदिते विगाहिष्ये विप्रैर्निगमनिरतैः पूरिततटे ॥ १२॥ इति त्यागराजमखिवर्यकृतिषु कावेरीनवरत्नमालिकास्तोत्रं सम्पूर्णम् ॥