अक्षर आकार:

कावेरीलहरी

Kaveri Lahari

कावेरीलहरी

महीभृत्तुङ्गस्ते जगति विदितो भाति जनको महीयान् हि प्रेयान् भवति भुवि रत्नाकर इति । अपि स्वर्णस्थानान्यतिशतमुदञ्चन्ति तटयोः श्रियं ते कावेरि प्रथयितुमलं कः कविरपि ॥ १॥ अयि त्वां तुष्टूषोर्जितसुरसरित्पूरविभवे । तनूजे सह्याद्रेः सततमपि गीतां बुधवरैः । सुधाहृयां भूभृत्कुलवरशिरोलालितरसां विधेहि त्वत्तुल्यां जननि मम वाचं कविनुताम् ॥ २॥ त्वमङ्के सह्याद्रेर्भवसि ननु बालेव विमले क्रमाद् वृद्धिं भूयो भजसि भुवनस्यास्य भृतये । परं चोलान् बालानिव जननि संवर्ध्य पयसा तनूभूता वार्धिं प्रविशसि विनीतेव वनिता ॥ ३॥ भवानी संसक्ता विलसति भवत्या गिरिसुता तव श्रीरङ्गेऽसौ वसति विमले श्रीपतिरपि । भजन्ते वेणीं ते स्फुटतरमशेषाः सुमनसो विशुद्धिस्ते वाचामपि सरणिमाचामतितराम् ॥ ४॥ पतिं पारावारं परमभिसरन्त्या गिरिवरात् सुमस्फायद्वेण्याः स्फुटकमलमुख्या मृदुगतेः । वहन् गङ्गां तुङ्गामपि हि सुषमां द्रष्टुमसमां गिरीनुच्चैरेष श्रयति गिरिशस्ते तटगतान् ॥ ५॥ सुता शैलस्य त्वं भजसि भुवि सारस्यमसमं प्रपन्ना देवि त्वं लवणजलधिं चासि मधुरा । वहन्ती निम्ने स्वान्नमयसि च लोकानुपरिगान् । महीयान् मातस्ते मनसि न हि मे माति महिमा ॥ ६॥ महत्तन्मायूरं महितमपि मध्यार्जुनपुरं महीशूरं मातर्मिलितघनसारं भुवि परम् । तटं ते संप्राप्तं वरमपि परं तत्त्रिशिरसः सुतुङ्गं श्रीरङ्गं गजवनमभूत् पावनमपि ॥ ७॥ श्रुतिः सा वक्ति त्वां सह जननि गङ्गादिभिरपि प्रशंसन्ति त्वां च प्रतनवचनान्येव बहुधा । भवत्वेतन्नूनं कचिदपि निलीनं सुविदिता न ते किं नुत्यर्हा बहुजनपदानामुपकृतिः ॥ ८॥ खनन् कश्चित् कूपं कटुसलिलमल्पं यदि मरौ कियत्तं श्लाघन्ते भुबि स च कियन्माद्यति हृदि । विशालान् यद्देशानमृततुलितैरम्ब सलिलेः चिरात् पुष्णासि त्वं कथयितुमिदं कः कमलजः ॥ ९॥ कियन्तः प्रासादा जलधरपथश्रान्तशिखरा विचित्रास्ते कूले विदधति नरान् विस्मिततरान् । कियत्यो देवार्चास्तव सलिलसङ्गातिशुचयो न भूमा ते सीमां भजति मनसो मे न च गिराम् ॥ १०॥ स्वतः स्वच्छच्छायातटतरुसुमस्तोमसुभगा । कचिन्नीलाम्भोजच्युतदलसमाश्लिष्टसलिला । कचिदिव्यस्त्रैणातुलघुसृणपङ्कारुणजला नदीनां तासां त्वं भजसि तिसृणामम्ब सुषमाम् ॥ ११॥ प्रहृष्यत्पाथोजं मधुरतरगुनन्मधुकरं परं पूतं शीतं जननि तव पीयूषतुलितम् । अपामेतं पूरं कलिमलहरं ते कलयतः प्रहृष्यन्त्यक्षाणि प्रसभमपि तप्तस्य सपदि ॥ १२॥ तरङ्गाश्लेषार्दस्तटतरुसुमामोदसुभगो मरुत्पोतः पूतस्तव पथिकलोकस्य तटयोः । पुरः स्वेदं स्वेदं हृदि जननि सादं च वपुषः समग्रं सन्तापं प्रतनमथ पापं च हरति ॥ १३॥ स्रवन्तीरत्यल्पा अनतिविदिता याः कलुषिताः अशक्ता गन्तुं ता निजपदमिताः काननभवाः । समृद्धस्वर्णश्रीकलितनिजसाम्या विमलिताः विधायादायैता गमयसि च रत्नाकरमहो ॥ १४॥ अमी चूताः पूता मृदुपवनधूतास्तव तटे विराजन्ते शाखाविधृतफलभारा नततराः । श्रिताग्रा कञ्चालैः पिककुलवरैर्ये कलरवैः समर्चन्तो भक्त्या शरणगमिवाम्बाध्वगकुलम् ॥ १५॥ चिराद्ग्ण्येरन् वा कुशलमतिना तेऽम्ब सिकताः परं नैताः कूले तव सुकृतशालाः सुविपुलाः । वसन्तो यत्रैते पथिकयतिवर्णिप्रभृतयो भजन्तीष्टानर्थानविदितबुभुक्षापरिभवाः ॥ १६॥ शतं नद्यः सन्ति त्रिचतुरदिनोद्वेलसलिलाः विशुष्यन्त्योऽनीशाः सपदि चटकस्यापि हि मुदे । न ताः स्वादुस्फीतस्वसलिलभरप्रीतभुवनाः सदा नाव्या भाव्या सकलविबुधैः संह्यगिरिजा ॥ १७॥ परं यन्माधुर्यं जगति पयसस्तेऽतिविदितं फलानां भूयस्तद्विलसति तरूणां तटभुवाम् । अनीदृग्वाचां तद्भवति च कवीनां मधुमुचां महन्मन्ये मौग्ध्यं जननि महिलानां च सुदृशाम् ॥ १८॥ सुदूरादायातं सपदि मनुजं प्रागविदितं विनिश्चिन्वन् कान्त्या वदनगतया ते तटमुवम् । वसन् देशेऽन्यस्मिन्नपि मितमतीनामचरमो जनः स्तौति क्षिप्रं यदिदमपि ते किं न महिमा ॥ १९॥ श्रुतं मा भूत्तेन श्रुतमपि न वेदोऽपि विदितो न चानीचा वाचा विलसतु न चाचारसरणिः । विदेशे विद्वद्भिर्विहितविनयैर्वल्गुवचनैः परं विप्रः पूज्यो भवति तव तीरागत इति ॥ २०॥ शरत्ताराकारस्फुटमणिमहाहाररुचिराः प्रतीरे ते बालाः कनकमयचेला यदमलाः । चलन्ते बाष्पानः प्रवरमधिरूढा मदकला- स्तदम्ब स्वद्वारिप्रसृतिभवभाग्यैककणिका ॥ २१॥ पितुः प्राप्तैरर्थैः पथि पथि सखीभ्योऽप्यधिगतै रशेषैः पुष्यन्ती भुवनमविशेषेण जननि । प्रसन्नैवाजस्रं यदि कमितुरग्रेऽप्यमुखरा न वैरस्यं यासि क्व भवति सुदृक्ते ननु समा ॥ २२॥ अभूदेवग्रामं भवति न हि तीरं क्वचन ते न च ग्रामो विद्वद्वरविरहितो देवविकलः । न दीना विद्वांसो जननि विबुधा नाल्पशरणा नदीनामन्यासां भवति किमु भाग्यं तव समम् ॥ २३॥ पतन्तः सह्याग्रात् पटुतरशिलाघातमुखराः शरज्ज्योत्स्नाशुभ्रास्तुलितपृथुमुक्तामाणिसराः । रयानीतस्फीतातुलरुचिमिलद्रन्ननिकरा भवन्ति त्वत्पूरा विदलितमहापातकिनराः ॥ २४॥ महीध्राः सन्त्यन्ये फणिबहुलवल्मीकवलिताः फलं किं तैः स्फीतैरपि कपिशिवामात्रशरणैः । चिरं जीयात् सह्यः सलिलभृतसर्वावनितलः शरण्यारण्याप्तामलमुनिवराधीतिमुखरः ॥ २५॥ वहन् गङ्गां मौलौ दधदथ सुधांशुं पुरहर- स्तुषाराद्रेर्बालामपि वपुषि नेत्राग्निजनितम् । स हर्तुं सन्तापं निजमभिनवैनूनममृतैः भजन् बह्वीर्मुर्तीस्तव जननि तीरे निवसति ॥ २६॥ गतास्तुङ्गं श‍ृङ्गं तव जननि तातस्य विबुधाः पिबन्तस्तत्पुण्यं जनिमृतिहरं नव्यममृतम् । परं सेवायातामरवरवधूकेलिमुदिता भजन्ते सत्यं ते सपदि ननु सौम्यं दिविषदाम् ॥ २७॥ वरं भृङ्गास्तुङ्गास्तव वितततीरद्रुमगताः पिकाः काका घूका अपि शकुनयोऽमी सुजनयः । अनासाद्याम्ब त्वाममृततुलितामल्पसुकृता वरं प्रासादाग्रे जननि निवसन्तोऽपि न नृपाः ॥ २८॥ अनल्पावर्तं ते सलिलमपि वीक्ष्यामलतरं नरा नावर्तन्ते जननि भुवि भूयो भववने । निबध्नन्तः सेवाञ्जलिमपि हि ते साधुमहिते न तिष्ठन्ते दीना धरणिपतये दूनवदनाः ॥ २९॥ पिबन् पानीयं ते पुलिनतलशायी पथि गतः समाजिघ्रन् मातः स्फुटजलजजातं परिमलम् । कलं कुर्वन् कर्णे पिकवरवधूटीकलकलं रसालद्रोर्मूले रसयति रसं कञ्चन जनः ॥ ३०॥ वसन्तः सन्तो ये महति किल दूरेऽपि विषये स्मरन्तस्त्वां स्नात्वा द्रुतमुषसि कुत्रापि पयसि । पठन्त्येते भक्त्या चरितमविगीतं तव परं धुनीनां धन्यानां भवति हि धुरीणाम्ब भवती ॥ ३१॥ स्वया संसक्तानामपि तटगताः स्वल्पसरितां मुदा संस्तुत्यर्हा महितचरितानामपि सताम् । निरीक्ष्यन्ते नैके नृपवदपि लोके यदि धनैः कथङ्कारं गच्छेत्तव महिमपारं मम मतिः ॥ ३२॥ तनोश्चेदुद्भूतैस्तनुभिरपि जात्वेव जननी पयोभिः पुष्यन्ती स्वसुतमपि शंसन्ति निगमाः । पयोभूयाजस्त्रं प्रचुरतरदेशावनपरा न जाने केषां वा जननि वचसा त्वं नुतिपदम् ॥ ३३॥ नगो नागो वाहं तटभुवि भवेयं तव परं मृगो वाप्यन्यस्मिन् जनुषि जडधीरम्ब विहगः । भवेयं भिक्षुर्वा परमकृपणो भूमिवलये न दूरे ते देशे धनदतुलितो भूपतिरपि ॥ ३४॥ समभ्येति त्वां सा सुरसरिदपि स्वाघधुतये स्वयम्भूसन्दिष्टा प्रतिसममिति स्कन्दिविनुतिम् । अजानद्भिर्मन्ये मुनिकुलभवैस्त्वां कतिपयैः परं पञ्चस्वेकां जननि भुवि गङ्गासु गणिताम् ॥ ३५॥ बहुस्रोताख्याते चुलकितमहाब्धेरपि मुनेः परं मान्येऽम्ब श्रीधरशुचिशिरस्तः समुदिते । श्रुता त्रिस्रोता या भयमधिगता जन्हुमुनितोऽ- प्यलं गङ्गा किं श्रीधरपदभवा त्वां तुलयितुम् ॥ ३६॥ विशालास्त्वत्तोऽपि प्रचुरतरनाव्याम्बुविदिता विशन्त्यब्धिं नघः परमुरुतरग्राहमकराः । गिरीन्द्रादा वार्धेरुभयतटकेदारमिलना- दमोघाशेषाम्बुस्त्वमिव ननु नालोकि तटिनी ॥ ३७॥ गिरीशोत्तंसार्हा परमहिमशैलाद् भुवमिता तटीदीव्यद्रम्भामिषदनिमिषाल्हादिसलिला । समा मन्दाकिन्या सुरभिकुमुदाक्षा विजयसे परं न त्वं मातस्तपनतनयासङ्गकलुषा ॥ ३८॥ परं कुम्भादन्ते विलसति तटे कोणनगरं स कुम्भेशो यस्मिन् जयति च शिवा मङ्गलपदा । सुखं शेते शार्ङ्गीं जहदपि परं क्षीरजलधिं विहातुं स्वीयं द्रागिव दशजनिक्लेशमवशः ॥ ३९॥ गताः पारं श्रुत्याः पदजलधिपारीणधिषणा विनीता न्याये वा मतिमथितमीमांसकमताः । परं शिष्टा वैद्यागमगतिविदो वाङ्मुखकृतो यतीशा यज्वानो जगति विदिता यत्पुरगताः ॥ ४०॥ कृतं वाराणस्यामपि चिरमघं हर्तुममितं निवासं यत्राहुः समुचितमुपायं स्मृतिविदः । परं कन्यातीर्थं विलसति च धन्याम्बुविदितं त्वयासीत् पूतं तत्पुरमुभयपार्श्वप्रसृतया ॥ ४१॥ जनिं भूयो यायां यदि भुवि भवेयं तव जले कुलीरः कूर्मो वा तिमिरपि वकोटश्च करटः । तृणं मन्वे देवि त्रिदिवमपि पद्मासनभुवं मतां मुक्तिं शुक्तिं तनुमिव न मे सक्तिरयते ॥ ४२॥ प्रकृत्यैवाल्पीयो यदपि विरसं भाति कलुषं वचो मेऽनास्वाद्यं ननु भुवि कवीनां रसविदाम् । इदं ते संस्तुत्या तदपि विमलीभूय महतां सतां वन्यस्रोतःपय इव भजेतैव हृदयम् ॥ ४३॥ पयोभिः पुष्टानां कनकतटिनि त्वं तटभुवां बहूनां बालानामिह समधिकैरम्ब कनकैः । सदा पूर्णान् कोशानपि विदधती वत्सलतरा महीं कर्तुं रत्नैर्भजसि किमु रत्नाकरमपि ॥ ४४॥ पदा प्राप्तं पङ्कं प्रतनमपि पङ्कं हरति ते भ्रमोऽयं चेद्भूयान् भ्रममपि हरत्यम्ब स परम् । अयं जाड्यं नृणां जरयति जलस्यापि जडिमा स्वयं चैते भङ्गा बत कलुषभङ्गं विदधति ॥ ४५॥ गिरीशस्याभूस्त्वं जननि शिरसः सा हरिपदात् युवा नाम्ना गङ्गे ननु विबुधलोकैकविदिते । न मुञ्चत्युत्सङ्गं तव यदि परं श्रीपतिरसौ ततस्ते दाक्षिण्यं प्रथितमिह हेतुत्वमयते ॥ ४६॥ तवोत्सङ्गे रङ्गे विलसति किल श्रीपतिरसौ वहन्निद्रामुद्रां शिशुरिव जनन्याः प्रथमजः । भजन् वातं शीतं तटयुगतरूणामविरतं कलं गीतं श‍ृण्वन्नपि पिकवधूनां श्रुतिहितम् ॥ ४७॥ प्रशस्यान् स्वावासानविरतनदीमातृकतया समीकृत्याहुयैरपि सपदि देशान्तरभुवः । भजन्ते चोलास्तेऽखिलधरणिपालादरधृताः त्वदीयैः स्रोतोभिः श्रियमनुपमां भारततले ॥ ४८॥ मता मायामेया विबुधनिवहैस्त्वं मुररिपोः पुरा सा राजर्षेरपि भुवि कवेरस्य दुहिता । अदीनां कुर्वाणा भुवमथ नदीनामपि वरा पयोधिं संप्राप्ता परमतिपवित्रा विजयसे ॥ ४९॥ परं लोपामुद्रा ननु परमभद्राकृतिरभूत् समासाद्यासीद्यां कलशजनिरल्पोऽपि स मुनिः । क्षितौ दक्षो भक्षीकृतमनुजरक्षोनिगरणे समुद्राचामे वा शिखरिवरमुद्रावितरणे ॥ ५०॥ प्रकुप्यद्भिः स्तोत्रे स्वरविकृतितो द्रागपि शठैः विनिघ्नद्धिः स्वार्थानपि भुवि मखात् किं मम बुधैः । अभक्तानां नृणामपि तटभुवां दूषणकृतां गतिर्मे, कावेरि त्वमिह दधतीं वित्तमतुलम् ॥ ५१॥ न मन्ये मान्यानां गुणलवविहीनं मम वचः चमत्कारं चित्ते रचयितुमलं स्यादिदमिति । मतं मे पूताया निरुपधिदयानिघ्नमनसो जनन्या बालस्याबिलमिव परं ते मुदमिति ॥ ५२॥ लसत्स्वर्णाभिख्यां रमणमथ रत्नाकरमिता वहन्तीमुत्सङ्गे शयितमपि पुंसां प्रथमजम् । सुदूरे द्रष्टुं त्यामचलकुलवृद्धस्तनुभवां शिरः श्रीमानुच्चैर्वहति भृतबाष्पः किमु मुदा ॥ ५३॥ नृणामन्यत्राहुर्भुवि निवसतां यत्तटयुगाद् विशुद्धिं कृच्छ्रायः स्मृतिसमुदितां ये बहुविदः । प्रथां याः पञ्चाप्ता जगति महतीनां च सरितां श्रुता तास्वेका त्वं ननु जननि गङ्गासु जयसि ॥ ५४॥ इति नारायणकविविरचिता कावेरीलहरी समाप्ता ।