अक्षर आकार:

कावेरीभुजङ्गस्तोत्रम्

KAveri Bhujangastotram

कावेरीभुजङ्गस्तोत्रम्

कथं सह्यजन्ये सुरामे सजन्ये प्रसन्ने वदान्याः भवेयुर्वदान्ये सपापस्य मन्ये गतिमम्ब मान्ये कवेरस्य धन्ये कवेरस्य कन्ये ॥ १॥ कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे जलाक्रान्तरङ्गे जवोद्योतरङ्गे नभश्चुम्बिवन्येभसम्पद्विमान्ये नमस्ते वदान्ये कवेरस्य कन्ये ॥ २॥ समा ते न लोके नदी ह्यत्र लोके हताशेषशोके लसत्तट्यशोके पिबन्तोऽम्बु ते के रमन्ते न नाके नमस्ते वदान्ये कवेरस्य कन्ये ॥ ३॥ महापापिलोकानपि स्नानमात्रान् महापुण्यकृद्भिर्महत्कृत्यसद्भिः करोष्यम्ब सर्वान्सुराणां समानान् नमस्ते वदान्ये कवेरस्य कन्ये ॥ ४॥ अविद्यान्तकर्त्री विशुद्धप्रदात्री सस्यस्यवृद्धिं तथाऽऽचारशीलम् । ददास्यम्ब मुक्तिं विधूय प्रसकित्म् नमस्ते वदान्ये कवेरस्य अकन्ये ॥ ५॥ ॥ इति कावेरीभुजङ्गस्तोत्रम् सम्पूर्णम् ॥ This is not the complete stotra but is as given in the Kaverirahasya.