अक्षर आकार:

कावेर्यष्टोत्तरशतनामानि

kAveryaShTottarashatanAmAni

कावेर्यष्टोत्तरशतनामानि

ॐ अनन्त-गुण-गम्भीरायै नमः । ॐ अर्कपुष्कर-सेवितायै नमः । ॐ अमृतस्वादु-सलिलायै नमः । ॐ अगस्त्यमुनि-नायक्यै नमः । ॐ आशान्त-कीर्ति-तिलकायै नमः । ५। ॐ आशुगागम-वर्द्धिन्यै नमः । ॐ इतिहास-पुराणोक्तायै नमः । ॐ ईतिबाधा-निवारिण्यै नमः । ॐ उन्मत्तजन-दूरस्थायै नमः । ॐ ऊर्जितानन्द-दायिन्यै नमः । १०। ॐ ऋषिसङ्घ-सुसंवीतायै नमः । ॐ ऋणत्रय-विमोचनायै नमः । ॐ लुप्त-धर्म-जनोद्धारायै ल् ॐ लूनभाव-विवर्जितायै नमः । ॐ एदिताखिल-लोकश्रियै नमः । १५। ॐ ऐहिकामुष्मिक-प्रदायै नमः । ॐ ओङ्कारनाद-निनदायै नमः । ॐ ओषधीकृत-जीवनायै नमः । ॐ औदार्यगुण-निर्दिष्टायै नमः । ॐ औदासीन्य-निवारिण्यै नमः । २०। ॐ अन्तःकरण-संसेव्यायै नमः । ॐ अच्छ-स्वच्छ-जलाश्रयायै नमः । ॐ कपिलाख्य-नदी-स्निग्धायै नमः । ॐ करुणा-पूर्ण-मानसायै नमः । ॐ कावेरी-नाम-विख्यातायै नमः । २५। ॐ कामितार्थ-फल-प्रदायै नमः । ॐ कुम्बकोण-क्षेत्र-नाथायै नमः । ॐ कौतुकप्रथम-प्रभायै नमः । ॐ खगराज-रथोत्साह-रङ्गस्थल-सुशोभितायै नमः । ॐ खगावळि-समाक्रान्त-कल्लोलावळि-मण्डितायै नमः । ३०। ॐ गजारण्य-सुविस्तीर्ण-प्रवाह-जनमोहिन्यै नमः । ॐ गायत्र्याख्य-शिला-मद्ध्यायै नमः । ॐ गरुडासन-भक्तिदायै नमः । ॐ घन-गम्भीर-निनद-निर्जरप्राप्त-निर्झरायै नमः । ॐ चन्द्रपुष्कर-मध्यस्थायै नमः । ३५। ॐ चतुरानन-पुत्रिकायै नमः । ॐ चोलदेस-जनोद्धार-ग्रीष्मकाल-प्रवाहिन्यै नमः । ॐ चुञ्चक्षेत्र-समानीतायै नमः । ॐ छद्मदोष-निवारिण्यै नमः । ॐ जम्बूद्वीप-सरिच्छ्रेष्ठ-नदी-नद-गरीयस्यै नमः । ४०। ॐ झङ्कारनाद-संस्पृष्ट-षट्पदाळि-समाकुलायै नमः । ॐ ज्ञानैक-साधन-परयै नमः । ॐ ञप्तिमात्रर्ति-हारिण्यै नमः । ॐ टिट्टिभारावस-व्याज-दिविज-स्तुति-पात्रिण्यै नमः । ॐ ठङ्कारनाद-सम्भेद-झर्झरीकृत-पर्वतायै नमः । ४५। ॐ डाकिनी-शाकिनी-सङ्घनी-वारण-सरित्तटायैनमः । ॐ ढक्का-निनाद-वारीण-पार्वतीश-समाश्रितायै नमः । ॐ णान्तवाच्य-द्विजाष्टाङ्गयोग-साधन-तत्परायै नमः । ॐ तरङ्गावलि-संविद्ध-मृदु-वालुक-शोभितायै नमः । ॐ तपस्विजन-सत्कार-निवेशित-शिलासनायै नमः । ५०। ॐ तापत्रय-तरून्मूल-गङ्गादिभिरभिष्टुतायै नमः । ॐ धान्त-प्रमथ-संसेव्य-साम्भ-सान्निध्य-कारिण्यै नमः । ॐ दया-दाक्षिण्य-सत्कारशील-लोक-सुभावितायै नमः । ॐ दाक्षिणात्य-जनोद्धार-निर्विचार-दयान्वितायै नमः । ॐ धन-मान-मदान्धादि-मर्त्य-निर्वर्तन-प्रियायै नमः । ५५। ॐ नमज्जनोद्धार-शीलायै नमः । ॐ निमज्जज्जन-पावनायै नमः । ॐ नागारिकेतु-निलयायै नमः । ॐ नाना-तीर्थाधि-देवतायै नमः । ॐ नारीजन-मनोल्लासायै नमः । ६०। ॐ नानारूप-फल-प्रदायै नमः । ॐ नारायण-कृपा-रूपायै नमः । ॐ नादब्रह्म-स्वरूपिण्यै नमः । ॐ पराभूत-समस्ताघायै नमः । ॐ पशु-पक्ष्यादि-जीवनायै नमः । ६५। ॐ पापतूलाग्नि-सदृशायै नमः । ॐ पापिष्ठजन-पावनायै नमः । ॐ फणीन्द्र-कीर्तित-कलायै नमः । ॐ फलदान-परायणायै नमः । ॐ बहुजन्म-तपो-योग-फलसंप्राप्त-दर्शनायै नमः । ७०। ॐ बाहुरूप-द्विपार्श्वस्थ-स्वमातृक-जलार्थिनां\ कलमक्षेत्र-शाल्यन्न-दान-निर्जित-वित्तपायै नमः । ॐ भगवत्कृत-संतोषायै नमः । ॐ भास्करक्षेत्र-गामिन्यै नमः । ॐ भागीरती-समाक्रन्त-तुलामास-जलाश्रयायै नमः । ॐ मज्जद्दुर्जन-प्राग्जन्म-दुर्जयांहः प्रमार्जन्यै नमः । ७५। ॐ माघ-वैशाकादि-मास-स्नान-स्मरण-सौख्यदायै नमः । ॐ यज्ञ-दान-तपः-कर्मकोटि-पुण्य-फल-प्रदायै नमः । ॐ यक्ष-गन्धर्व-सिद्धाद्यैरभिष्टुत-पदद्वयायै नमः । ॐ रघुनाथ-पदद्वन्द्व-विराजित-शिलातलायै नमः । ॐ रामनाथपुरक्षेत्र-कामधेनु-समाश्रितायै नमः । ८०। ॐ लवोदक-स्पर्शमात्र-निर्वण-पद-दायिन्यै नमः । ॐ लक्ष्मी-निवास-सदनायै नमः । ॐ ललना-रत्न-रूपिण्यै नमः । ॐ लघूकृत-स्वर्ग-भोगायै नमः । ॐ लावण्य-गुण-सागरायै नमः । ८५। ॐ वह्निपुष्कर-सान्निद्ध्यायै नमः । ॐ वन्दिताखिल-लोकपायै नमः । ॐ व्याघ्रपाद-क्षेत्र-परायै नमः । ॐ व्योमयान-समावृतायै नमः । ॐ षट्काल-वन्द्य-चरणायै नमः । ९०। ॐ षट्कर्म-निरत-प्रियायै नमः । ॐ षडास्य-मातृ-संसेव्यायै नमः । ॐ षडूर्मि-जित-सोर्मिकायै नमः । ॐ सकृत्स्मरण-संशुद्ध-तापत्रय-जनाश्रितायै नमः । ॐ सज्जनोद्धार-सन्धानसमर्थ-स्व-प्रवाहिन्यै नमः । ९५। ॐ सरस्वत्यादि-देवीभिरभिवन्दित-निर्झरायै नमः । ॐ सह्यशैल-समुद्भूतायै नमः । ॐ सह्यासह्य-जन-प्रियायै नमः । ॐ सङ्गमक्षेत्र-सामीप्यायै नमः । ॐ स्ववशार्थ-चतुष्टयायै नमः । १००। ॐ सौभरिक्षेत्र-निलयायै नमः । ॐ सौभाग्य-फल-दायिन्यै नमः । ॐ संशयाविष्ट-दूरस्थायै नमः । ॐ साङ्गोपाङ्ग-फलोदयायै नमः । ॐ हरि-ब्रह्मेश-लोकेश\-सिद्धबृन्दार-वन्दितायै नमः । १०५। ॐ क्षेत्र-तीर्थादि-सीमान्तायै नमः । ॐ क्षपानाथ-सुशीतलायै नमः । ॐ क्षमातलाखिलानन्द-क्षेम-श्री-विजयावहायै नमः । १०८। ॥ इति कावेर्यष्टोत्तरशत नामावलिः ॥