अक्षर आकार:

श्रीकामाक्षीस्तोत्रम् २

Shri Kamakshi Stotram 2

श्रीकामाक्षीस्तोत्रम् २

कामारिकामां कमलासनस्थां काम्यप्रदां कङ्कणचूडहस्तां । काञ्चीनिवासां कनकप्रभासां कामाक्षिदेवीं कलयामि चित्ते ॥ काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् । कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १॥ कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां कन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाङ्कुराम् । कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २॥ कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् । कल्याणाचलकार्मुकप्रियतमां कादम्बमालाश्रियं कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३॥ गन्धर्वामरसिद्धचारणवधूध्येयां पताकाञ्चितां गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् । गम्भीरस्मितविभ्रमाङ्कितमुखीं गङ्गाधरालिङ्गितां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ४॥ विष्णुब्रह्ममुखामरेन्द्रविलसत्कोटीरपीठस्थलां लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् । वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरावृतां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ५॥ माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने दिव्यां दीपितहेमकान्तिनिवहां वस्त्रावृतां तां शुभाम् । दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदार्पितां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ६॥ आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमां आकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् । योगीन्द्रैरपि योगिनीशतगणैराराधितामम्बिकां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ७॥ ह्रीङ्कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं ऐं क्लीं सौं रुचि मन्त्रमूर्तिनिवहाकारामशेषात्मिकाम् । ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियंवादिनीं कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ८॥ सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिनीं मायाविश्वविमोहिनीं मधुमतीं ध्यायेत् शुभां ब्राह्मणीम् । ध्येयां किन्नरसिद्धचारणवधू ध्येयां सदा योगिभिः कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ९॥ कामारिकामां कमलासनस्थां काम्यप्रदां कङ्कणचूडहस्तां । काञ्चीनिवासां कनकप्रभासां कामाक्षिदेवीं कलयामि चित्ते ॥ १०॥ इति श्री कामाक्षीस्तोत्रं सम्पूर्णम् ।