अक्षर आकार:

श्रीकामाक्षीपञ्चशती

shrIkAmAkShIpanchashatI

श्रीकामाक्षीपञ्चशती

ॐ कामाक्ष्यै नमः । ॐ करुणामूर्त्यै नमः । ॐ कल्याणगिरिमन्दिरायै नमः । ॐ चिदग्निजातायै नमः । ॐ चिद्रूपायै नमः । ॐ श्रितसंरक्षणोद्यतायै नमः । ॐ बालार्ककोटिरुचिरवपुस्सन्नद्धयौवनायै नमः । ॐ आघृष्टपद्मरागाश्मनिष्पन्नमकुटोज्ज्वलायै नमः । ॐ स्फुरच्चन्द्रकलाक्लृप्तचूडापीडविराजितायै नमः । ॐ सीमन्तरेखारचितसिन्दूरश्रेणिमञ्जुलायै नमः । १० ॐ स्फुरत्कस्तूरितिलककन्दलन्नीलकुन्तलायै नमः । ॐ कदम्बमञ्जरिलसत्कर्णपूरमनोहरायै नमः । ॐ भ्रूवल्लीस्मरकोदण्डसायकीभूतलोचनायै नमः । ॐ मार्ताण्डमण्डलाकाररत्नकुण्डलमण्डितायै नमः । ॐ विशङ्कटारालकेशकर्णिकाकोशनासिकायै नमः । ॐ लसन्मुक्तामणिभ्राजन्नासाभरणभासुरायै नमः । ॐ कस्तूरीक्लृप्तमकरिकादि राजत्कपोलभुवे नमः । ॐ लाक्षालक्ष्मीनिर्व्यपेक्षपाटलोष्ठपुटाञ्चितायै नमः । ॐ कुन्दकोरकसश्रीकदन्तपङ्क्तिविराजितायै नमः । ॐ अतर्क्यौपम्यचुबुकायै नमः । २० ॐ मुग्धस्मेरमुखाम्बुजायै नमः । ॐ नितम्बलम्बमानत्रिवेणीचूलात्तछालिकायै नमः । ॐ शिरीषकोमलभुजविभ्राजत्कनकाङ्गदायै नमः । ॐ लम्बवामकराम्भोजायै नमः । ॐ दक्षहस्तलसच्छुकायै नमः । ॐ नानामणीगणलसत्सुवर्णकृतकङ्कणायै नमः । ॐ पाशाङ्कुशधनुर्बाणलसत्पाणितलोज्ज्वलायै नमः । ॐ रत्नाङ्गुलीयसन्दोहरमणीयकराङ्गुल्यै नमः । ॐ लोलचिन्ताकपदकमुक्तावलिलसद्गलायै नमः । ॐ गन्धकस्तूरिकर्पूरकुङ्कुमालङ्कृतस्तनायै नमः । ३० ॐ स्तनभूधरसन्नद्धसोपानत्रिवलीयुतायै नमः । ॐ नवीनरोमलतिकाजितकादम्बिनीद्युत्यै नमः । ॐ अर्धोरुकग्रन्थिलसद्रत्नकाञ्चीगुणान्वितायै नमः । ॐ सौन्दर्यपूरविलसदावर्तायितनाभिकायै नमः । ॐ जपाकुसुमसच्छायपट्टांशुकपरीवृतायै नमः । ॐ जघनाभोगसुभगपृथुश्रोणीभरालसायै नमः । ॐ एकाम्रनायकोत्सङ्गकाम्योरुमहिमोच्छ्रयायै नमः । ॐ करीन्द्रकुम्भकठिनजानुद्वयविराजितायै नमः । ॐ स्मरकाण्डीरतूणीरसम्प्रदायकजङ्घिकायै नमः । ॐ स्फुरन्माणिक्यमञ्जीररञ्जिताङ्घ्रिसरोरुहायै नमः । ४० ॐ कमठीकर्परतटीकठोरप्रपदान्वितायै नमः । ॐ यावकश्रीनिर्व्यपेक्षपादलौहित्यवाहिन्यै नमः । ॐ हरीन्द्रमुखकोटीरतटीघटितपादुकायै नमः । ॐ सौन्दर्यलहरीसीमसर्वावयवपाटलायै नमः । ॐ मरालीलालितगत्यै नमः । ॐ रामणीयकशेवध्यै नमः । ॐ सर्वश‍ृङ्गारवेषाढ्यायै नमः । ॐ सर्वावगुणवर्जितायै नमः । ॐ मोहिताशेषजगत्यै नमः । ॐ मोहिनीरूपधारिण्यै नमः । ५० ॐ महामाय्यै नमः । ॐ पराशक्त्यै नमः । ॐ मदिरारुणलोचनायै नमः । ॐ सम्पत्करीमहासेनासमृद्धायै नमः । ॐ सम्पदुन्नतायै नमः । ॐ अनेककोटिदैत्येन्द्रगर्वनिर्वापणोल्बणायै नमः । ॐ चक्रराजरथारूढचक्रिणीचक्रनायिकायै नमः । ॐ मन्त्रिणीसेवितपदायै नमः । ॐ मन्त्रतन्त्राधिदेवतायै नमः । ॐ अश्वारूढासमाराध्यायै नमः । ६० ॐ विश्वातीतायै नमः । ॐ विरागिण्यै नमः । ॐ बालासमेतायै नमः । ॐ त्रिपुरायै नमः । ॐ कालातीतायै नमः । ॐ कलावत्यै नमः । ॐ दण्डनाथसमासेव्यायै नमः । ॐ भण्डासुरवधोद्यतायै नमः । ॐ कामराजप्रियायै नमः । ॐ कामसञ्जीवनमहौषध्यै नमः । ७० ॐ ब्रह्मादि दैवताराध्यायै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ बृहत्तनवे नमः । ॐ चापिन्यै नमः । ॐ चन्दनालिप्तायै नमः । ॐ चन्द्रविद्यायै नमः । ॐ पराङ्कुशायै नमः । ॐ मनुविद्यायै नमः । ॐ महाराज्ञ्यै नमः । ॐ महाविद्यायै नमः । ८० ॐ महीयस्यै नमः । ॐ सिंहासनेश्यै नमः । ॐ सिन्दूररुच्यै नमः । ॐ सूर्याभिवन्दितायै नमः । ॐ सुन्दर्यै नमः । ॐ सुदत्यै नमः । ॐ सुभ्रुवे नमः । ॐ वन्दारुजनवत्सलायै नमः । ॐ समानाधिकशून्यार्घायै नमः । ॐ सकलार्थप्रदायिन्यै नमः । ९० ॐ सम्राज्ञ्यै नमः । ॐ सान्द्रकरुणायै नमः । ॐ सनकादि मुनिस्तुतायै नमः । ॐ महादेव्यै नमः । ॐ महेशान्यै नमः । ॐ महेश्वरपतिव्रतायै नमः । ॐ लोपामुद्रागस्त्यनुतायै नमः । ॐ लोभघ्न्यै नमः । ॐ लोभवर्जितायै नमः । ॐ पावन्यै नमः । १०० ॐ पशुपाशघ्न्यै नमः । ॐ पश्यन्त्यै नमः । ॐ परमेश्वर्यै नमः । ॐ कदम्बकलिकोत्तंसायै नमः । ॐ कामेश्यै नमः । ॐ कामपूजितायै नमः । ॐ नन्दिविद्यायै नमः । ॐ आनन्दमय्यै नमः । ॐ नीलस्निग्धाब्जलोचनायै नमः । ॐ कल्याण्यै नमः । ११० ॐ कामरहितायै नमः । ॐ कामदायै नमः । ॐ कामकोटिकायै नमः । ॐ चराचरजगद्धात्र्यै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्रवर्तिन्यै नमः । ॐ शिरीषसुकुमाराङ्ग्यै नमः । ॐ शितिकण्ठप्रियायै नमः । ॐ शिवायै नमः । ॐ अनङ्गवल्लभायै नमः । १२० ॐ अनङ्गशास्त्रसिद्धान्तमञ्जर्यै नमः । ॐ कुबेरविद्यायै नमः । ॐ कुलजायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कुलेश्वर्यै नमः । ॐ कुलाङ्गनायै नमः । ॐ त्रिकूटस्थायै नमः । ॐ कुरङ्गाङ्ककलाधरायै नमः । ॐ दुर्वासःपूजितायै नमः । ॐ दुःखहन्त्र्यै नमः । १३० ॐ दुर्मतिदूरगायै नमः । ॐ आम्नायनाथायै नमः । ॐ नाथेश्यै नमः । ॐ सर्वाम्नायनिवासिन्यै नमः । ॐ सर्वारुणायै नमः । ॐ सङ्गहीनायै नमः । ॐ सावित्र्यै नमः । ॐ सर्वतोमुख्यै नमः । ॐ ब्रह्मगीतायै नमः । ॐ ब्रह्ममय्यै नमः । १४० ॐ ब्रह्मानन्दरसात्मिकायै नमः । ॐ निरामयायै नमः । ॐ निरानन्दायै नमः । ॐ निर्द्वन्द्वायै नमः । ॐ निरहङ्कृत्यै नमः । ॐ निगमादृष्टचरणायै नमः । ॐ निराधारायै नमः । ॐ निरीश्वर्यै नमः । ॐ नियन्त्र्यै नमः । ॐ नियत्यै नमः । १५० ॐ नित्यायै नमः । ॐ निराशायै नमः । ॐ निरपायिन्यै नमः । ॐ अखण्डानन्दभरितायै नमः । ॐ खण्डत्रयपरिष्कृतायै नमः । ॐ काञ्चीक्षेत्रगतायै नमः । ॐ कामपीठस्थायै नमः । ॐ कामपूजितायै नमः । ॐ महाश्मशाननिलयायै नमः । ॐ गायत्रीमण्टपेश्वर्यै नमः । १६० ॐ कैलासनाथदयितायै नमः । ॐ कम्पातीरविहारिण्यै नमः । ॐ अविच्छिन्नानन्दमूर्त्यै नमः । ॐ अप्रमेयायै नमः । ॐ अपराजितायै नमः । ॐ अगम्यायै नमः । ॐ गगनाकारायै नमः । ॐ प्रकृतिप्रत्ययात्मिकायै नमः । ॐ अवेद्यायै नमः । ॐ वेद्यविज्ञात्र्यै नमः । १७० ॐ पञ्चकृत्यपरायणायै नमः । ॐ सृष्टिस्थितिक्षयतिरोधानानुग्रहकारिण्यै नमः । ॐ ब्रह्मगोविन्दादि पञ्चप्रेतमञ्चाधिवासिन्यै नमः । ॐ तमोऽतीतायै नमः । ॐ तमोहन्त्र्यै नमः । ॐ तत्त्वातत्त्वविवेचिन्यै नमः । ॐ सर्वतत्त्वमय्यै नमः । ॐ सर्वभूतिदायै नमः । ॐ समयप्रियायै नमः । ॐ जिताखिलेन्द्रियग्राममानसाम्बुजहंसिकायै नमः । १८० ॐ सुरासुरगणाराध्यायै नमः । ॐ सदसद्रूपिण्यै नमः । ॐ सत्यै नमः । ॐ चण्डिकायै नमः । ॐ चारुवदनायै नमः । ॐ खण्डितारातिमण्डलायै नमः । ॐ अगस्त्यविद्यासंसेव्यायै नमः । ॐ नन्दिताशेषविष्टपायै नमः । ॐ संविदे नमः । ॐ सत्यमय्यै नमः । १९० ॐ सौम्यायै नमः । ॐ दुर्निरीक्ष्यायै नमः । ॐ दुरत्ययायै नमः । ॐ त्रिकालस्थायै नमः । ॐ त्रिकोणस्थायै नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिगुणास्पदायै नमः । ॐ यज्ञरूपायै नमः । ॐ यज्ञभोक्त्र्यै नमः । ॐ कार्याकार्यविचक्षणायै नमः । ॐ नामरूपादि रहितायै नमः । ॐ वामदक्षाध्वपूजितायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ विश्ववन्द्यायै नमः । ॐ विद्येश्यै नमः । ॐ वेदरूपिण्यै नमः । ॐ आदिमध्यान्तरहितायै नमः । ॐ सर्वशक्तिस्वरूपिण्यै नमः । ॐ अतर्क्यमूर्तये नमः । ॐ अजितायै नमः । २१० ॐ प्रधानायै नमः । ॐ अतर्क्यवैभवायै नमः । ॐ चिदूर्मिमालायै नमः । ॐ सञ्चिन्त्यायै नमः । ॐ चिन्तितार्थप्रदायिन्यै नमः । ॐ चिन्तामणिगृहान्तस्थायै नमः । ॐ चित्रकर्मायै नमः । ॐ चिरन्तन्यै नमः । ॐ मोहहन्त्र्यै नमः । ॐ मोक्षदात्र्यै नमः । २२० ॐ मुग्धचन्द्रावतंसिन्यै नमः । मुद्रेशीन्यस्तराज्यश्रिये ॐ मृदुमुग्धस्मिताननायै नमः । ॐ क्रोडीकृताशेषघृणायै नमः । ॐ कोमलाङ्ग्यै नमः । ॐ कुटुम्बिन्यै नमः । ॐ षडङ्गदेवतासेव्यायै नमः । ॐ षडानननमस्कृतायै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवमय्यै नमः । २३० ॐ शिवमायायै नमः । ॐ शिवाङ्कगायै नमः । ॐ षडूर्मिहन्त्र्यै नमः । ॐ तरुण्यै नमः । ॐ वन्द्यायै नमः । ॐ षट्चक्रनायिकायै नमः । ॐ माधव्यै नमः । ॐ माधवाराध्यायै नमः । ॐ माधवीकुसुमप्रियायै नमः । ॐ ब्रह्मविष्ण्वादिजनन्यै नमः । २४० ॐ बृहत्यै नमः । ॐ ब्रह्मवादिन्यै नमः । ॐ सङ्गीतरसिकायै नमः । ॐ रामायै नमः । ॐ वीणागानविनोदिन्यै नमः । ॐ ज्योतिर्मय्यै नमः । ॐ जगद्वन्द्यायै नमः । ॐ जयिनीजयदायिन्यै नमः । ॐ भक्तिनम्रजनाधीनायै नमः । ॐ भक्तानुग्रहकारिण्यै नमः । २५० ॐ जामदग्न्यार्चितायै नमः । ॐ धौम्यपूजितायै नमः । ॐ मूकसन्नुतायै नमः । ॐ भक्तिगेयायै नमः । ॐ भक्तिगतायै नमः । ॐ भक्तक्लेशविनाशिन्यै नमः । ॐ भुक्तिमुक्तिकर्यै नमः । ॐ सिद्धविद्यायै नमः । ॐ सिद्धगणार्चितायै नमः । ॐ रागद्वेषादिरहितायै नमः । २६० ॐ रागिण्यै नमः । ॐ रागवर्धन्यै नमः । ॐ साम्राज्यदाननिरतायै नमः । ॐ रत्यै नमः । ॐ सुरतलम्पटायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ धीरायै नमः । ॐ नासीरमुखभासुरायै नमः । ॐ क्षेत्रेश्वर्यै नमः । ॐ क्षेत्ररूपायै नमः । २७० ॐ क्षेत्रज्ञायै नमः । ॐ क्षयवर्जितायै नमः । ॐ क्षराक्षरमय्यै नमः । ॐ रक्षायै नमः । ॐ दक्षिणामूर्तिरूपिण्यै नमः । ॐ मदिरास्वादरसिकायै नमः । ॐ मतङ्गकुलनायिकायै नमः । ॐ मन्दारकुसुमापीडायै नमः । ॐ मातङ्ग्यै नमः । ॐ मदहारिण्यै नमः । २८० ॐ कल्पान्तसाक्षिण्यै नमः । ॐ कामायै नमः । ॐ कल्पनाकल्पनक्षमायै नमः । ॐ सङ्कल्पनिर्मिताशेषभुवनायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ भव्यायै नमः । ॐ भवार्णवतर्यै नमः । ॐ भावारूढायै नमः । ॐ भयापहायै नमः । ॐ रहस्ययोगिनीपूज्यायै नमः । २९० ॐ रहोगम्यायै नमः । ॐ रमार्चितायै नमः । ॐ अन्तर्वदनसन्दृश्यायै नमः । ॐ सन्ततध्यानदीपितायै नमः । ॐ कन्दलत्प्रीतिहृदयायै नमः । ॐ कमलायै नमः । ॐ कर्मसाक्षिण्यै नमः । ॐ कान्तार्धदेहायै नमः । ॐ दीप्यन्त्यै नमः । ॐ कान्तिधूतजपाछव्यै नमः । ३०० ॐ हृदयाकाशतरण्यै नमः । ॐ ह्रींकार्यै नमः । ॐ हृष्टमानसायै नमः । ॐ ह्रीमत्यै नमः । ॐ हृदयाकाशज्योत्स्नायै नमः । ॐ हार्दतमोऽपहायै नमः । ॐ परापररहस्याख्यसर्वानन्दमयेश्वर्यै नमः । ॐ सर्वसिद्धिप्रदायै आरूढातिरहस्याधिदेवतायै नमः । ॐ रहस्ययोगिनीक्षेत्रसर्वरोगहराधिपायै नमः । ॐ निगर्भयोगिन्यावाससर्वरक्षाकरेश्वर्यै नमः । ३१० ॐ सर्वार्थसाधकभ्राजत्कुलोत्तीर्णाभिवन्दितायै नमः । ॐ सौभाग्यसत्सम्प्रदाययोगिनीपरिपूजितायै नमः । ॐ क्षोभणोद्यद्गततरयोगिनीगणसेवितायै नमः । ॐ आशापरीपूरकात्तगुप्तयोगिन्यभिष्टुतायै नमः । ॐ त्रैलोक्यमोहनस्थप्रकटयोगिन्युपासितायै नमः । ॐ कलातिथिनिधीष्विन्दुवर्णमन्त्रस्वरूपिण्यै नमः । ॐ गुणरेखाग्निवृत्तान्तर्नृपनागदलालयायै नमः । ॐ मुनिदिक्पङ्क्तिवसुभूकोणान्तर्बिन्दुवासिन्यै नमः । ॐ वेदर्तुदिक्सूर्यकलादस्रपत्राब्जचक्रगायै नमः । ॐ मृणालतन्तुसदृश्यै नमः । ३२० ॐ सुषमावासिन्यै नमः । ॐ वसवे नमः । ॐ सदाऽऽराध्यायै नमः । ॐ सदा ध्येयायै नमः । ॐ सत्सङ्गत्यै नमः । ॐ अनुत्तमायै नमः । ॐ पीयूषरससंस्रावसन्तर्पितजगत्त्रय्यै नमः । ॐ सन्तत्यै नमः । ॐ सन्ततिच्छेदहारिण्यै नमः । ॐ धारणायै नमः । ३३० ॐ धरायै नमः । ॐ स्वाहाकारायै नमः । ॐ हविर्भोक्त्र्यै नमः । ॐ यजमानाकृत्यै नमः । ॐ कृत्यै नमः । ॐ पितृप्रसूप्रसुवे नमः । ॐ पद्मायै नमः । ॐ स्वयम्भुवे नमः । ॐ आत्मभुवे नमः । ॐ अभुवे नमः । ३४० ॐ त्र्यक्षर्यै नमः । ॐ त्रिगुणातीतायै नमः । ॐ क्लीङ्कार्यै नमः । ॐ क्लमहारिण्यै नमः । ॐ प्रसादरूपायै नमः । ॐ पदव्यै नमः । ॐ पराप्रासादरूपिण्यै नमः । ॐ शर्वाण्यै नमः । ॐ शर्मदायै नमः । ॐ धात्र्यै नमः । ३५० ॐ धर्मरूपायै नमः । ॐ परागत्यै नमः । ॐ मुञ्जकेश्यै नमः । ॐ मुक्तसङ्गायै नमः । ॐ पञ्चयज्ञपराकृत्यै नमः । ॐ षट्त्र्येककर्मनिरतजनरक्षणदीक्षितायै नमः । ॐ स्वीकृतानुग्रहकलायै नमः । ॐ दूरस्थापितनिग्रहायै नमः । ॐ निरन्तरसुखायै नमः । ॐ गौर्यै नमः । ३६० ॐ नीपारण्यनिवासिन्यै नमः । ॐ मोक्षदेशानमहिष्यै नमः । ॐ लक्ष्यालक्ष्यस्वरूपिण्यै नमः । ॐ राजस्यै नमः । ॐ कमलावासायै नमः । ॐ ब्राह्म्यै नमः । ॐ सृष्टिविधायिन्यै नमः । ॐ सत्वाढ्यायै नमः । ॐ वैष्णव्यै नमः । ॐ पात्र्यै नमः । ३७० ॐ तामस्यै नमः । ॐ रुद्ररूपिण्यै नमः । ॐ हन्त्र्यै नमः । ॐ ईश्वर्यै नमः । ॐ तिरोधानकारिण्यै नमः । ॐ बहुरूपिण्यै नमः । ॐ सदाशिवायै नमः । ॐ अनुग्रहदायै नमः । ॐ सदाशिवमय्यै नमः । ॐ मत्यै नमः । ३८० अखण्डैकरसानन्दतन्वै ॐ पीयूषरूपिण्यै नमः । ॐ ऐङ्कारस्यन्दितत्त्वाख्यविश्वेन्द्रियफलप्रदायै नमः । ॐ आनन्दाज्याहुतिप्रीतायै नमः । ॐ भक्तिज्ञानप्रदायिन्यै नमः । ॐ त्रिमुद्रिण्यै नमः । ॐ भगाराध्यायै नमः । ॐ परनिर्वाणरूपिण्यै नमः । ॐ सर्वभूतहितायै नमः । ॐ वाण्यै नमः । ३९० ॐ ब्रह्मरन्ध्रनिवासिन्यै नमः । ॐ तटित्कोटिसमच्छायायै नमः । ॐ सर्वविद्यास्वरूपिण्यै नमः । ॐ महापद्माटवीसंस्थायै नमः । ॐ कारणानन्दविग्रहायै नमः । ॐ सिद्धलक्ष्म्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ राज्यलक्ष्म्यै नमः । ॐ पराङ्कुशायै नमः । ॐ छन्दोमय्यै नमः । ४०० ॐ चतुष्षष्टिकलाकाव्यार्थदर्शिन्यै नमः । ॐ ऐङ्कारिण्यै नमः । ॐ कालरूपायै नमः । ॐ अणिमादिकफलप्रदायै नमः । ॐ महोरूपायै नमः । ॐ महायोगिन्यै अमलायै नमः । ॐ भूतिदायै नमः । ॐ कलायै नमः । ॐ कूटत्रयमय्यै नमः । ॐ मूलमन्त्ररूपायै नमः । ४१० ॐ मनोन्मन्यै नमः । ॐ बन्धकासुरसंहर्त्र्यै नमः । ॐ कन्यकारूपधारिण्यै नमः । ॐ महाबिलगुहालीनायै नमः । ॐ महामुनिमनोनट्यै नमः । ॐ श‍ृङ्गारमूर्त्यै नमः । ॐ सम्राज्ञ्यै नमः । ॐ श‍ृङ्गाररसनायिकायै नमः । ॐ भद्राकृत्यै नमः । ॐ कान्तिमय्यै नमः । ४२० ॐ भद्रदायै नमः । ॐ भक्तवत्सलायै नमः । ॐ महाबलायै नमः । ॐ महानन्दायै नमः । ॐ महाभैरवमोहिन्यै नमः । ॐ सौभाग्यदायिन्यै नमः । ॐ स्वामिन्यै नमः । ॐ उदग्रायै नमः । ॐ सम्प्रदायिन्यै नमः । ॐ गोमत्यै नमः । ४३० ॐ गुह्यनिलयायै नमः । ॐ गुह्यमूर्तये नमः । ॐ गुणास्पदायै नमः । ॐ विवेकदायिन्यै नमः । ॐ शिष्टायै नमः । ॐ शिष्टचेतोनिवासिन्यै नमः । ॐ कात्यायन्यै नमः । ॐ कामकोटये नमः । ॐ अन्नपूर्णायै नमः । ॐ अभयङ्कर्यै नमः । ४४० ॐ शाकिन्यै नमः । ॐ शाम्भव्यै नमः । ॐ भद्रायै नमः । ॐ भैरव्यै नमः । ॐ भारतीमय्यै नमः । ॐ अभ्याससाध्यायै नमः । ॐ जयदायै नमः । ॐ विजयायै नमः । ॐ भगमालिन्यै नमः । ॐ रुक्मिण्यै नमः । ४५० ॐ रुक्मसच्छायरोचनातिलकोज्ज्वलायै नमः । ॐ वेदान्तमृग्यचरणायै नमः । ॐ जरामृत्युभयापहायै नमः । ॐ कान्त्यै नमः । ॐ कामकलायै नमः । ॐ कान्तायै नमः । ॐ विधुमण्डलवासिन्यै नमः । ॐ शम्भुलोचनपीयूषवर्त्यै नमः । ॐ आर्तिनिवारिण्यै नमः । ॐ विघ्नकादम्बिनीवात्यायै नमः । ॐ सर्वप्राणिमय्यै नमः । ॐ स्मृत्यै नमः । ॐ लोकहन्त्र्यै नमः । ॐ लोकभर्त्र्यै नमः । ॐ भोगकर्त्र्यै नमः । ॐ परात्परायै नमः । ॐ वीरप्रियायै नमः । ॐ वीतरागायै नमः । ॐ नाशिताशेषवैकृत्यै नमः । ॐ नमज्जनाह्लादकर्यै नमः । ४७० ॐ नादब्रह्मस्वरूपिण्यै नमः । ॐ विप्राधीनायै नमः । ॐ विप्ररूपायै नमः । ॐ विप्रजिह्वाविहारिण्यै नमः । ॐ विप्राराध्यायै नमः । ॐ विप्रगणपूजातुष्टायै नमः । ॐ वियन्मय्यै नमः । ॐ अव्याहताज्ञायै नमः । ॐ जनन्यै नमः । ॐ जयिन्यै नमः । ४८० ॐ प्रणवात्मिकायै नमः । ॐ कामरूपायै नमः । ॐ कलालापायै नमः । ॐ भार्गव्यै नमः । ॐ जगदीश्वर्यै नमः । ॐ विमानस्थायै नमः । ॐ मानवत्यै नमः । ॐ नित्यतृप्तजनप्रियायै नमः । ॐ परस्यै विभूत्यै नमः । ॐ सर्वज्ञायै नमः । ४९० ॐ अनादिबोधायै नमः । ॐ दयानिधये नमः । ॐ अनन्तशक्त्यै नमः । ॐ अचलायै नमः । ॐ प्रणतप्रियबान्धवायै नमः । ॐ अनादये नमः । ॐ अखिलाधारायै नमः । ॐ सच्चिदानन्दरूपिण्यै नमः । ॐ सर्वोपनिषदुद्घुष्टवैभवायै नमः । ॐ सर्वमङ्गलायै नमः । ५०० इति श्रीकामाक्षीपञ्चशती सम्पूर्णा ॥