अक्षर आकार:

नल्लूर् श्रीकालिका श्रुतिसुधा

nallUr shrIkAlikA shrutisudhA

नल्लूर् श्रीकालिका श्रुतिसुधा

श्रीमत्सुन्दरपूर्विहाररसिकां कारुण्य-सिन्धुं शिवां डक्का-शूल-कपाल-वह्नि-छुरिका-घण्टाऽर्धखेटोज्ज्वलाम् । किंचित्कुञ्चित-दक्षपाद-कमलां भूस्पृष्ट-वामाङ्घ्रिकां आसीनां कुलदेवतां हृदि भजे श्रीकालिकामातरम् ॥ १॥ कावेरीकृत-सस्यवृद्धिमहिते ग्रामे द्विजैराधिते कुन्ती-पुण्यद-सप्तसागरतटे संशोभमानां शुभाम् । कल्याणप्रद-सुन्दरेश-सदने संस्थापितां सौख्यदां नारीकेल-वनावृतां हृदि भजे श्रीकालिकामम्बिकाम् ॥ २॥ सा त्वं दक्षिण-कर्णभूषणमहो कृत्वाऽसुरं भीषणं शूलेनाऽसुरमन्यमुग्रमवनौ संच्छेद्य क्रुद्धाऽप्यलम् । श्रीमातः कुलदेवते तव शिशोर्मे सुप्रसन्नाऽभयं दत्वा सर्वमभीप्सितं च दयया नित्यन्नु संरक्षसि ॥ ३॥ यद्यप्यत्र विभासि कोपकृतिभिर्नानायुधालङ्कृता सेवन्ते कति गर्भिणीयुवतयः त्वामम्बिके निर्भयम् । डोलाभिश्च विचित्र-कङ्कण-गणैस्ते सन्निधिं भूषितं कृत्वाऽऽराधनपूर्वकं शुभगुणान्नूनं लभन्ते सुतान् ॥ ४॥ एवं स्तोतुमनर्गलां सुकविताशक्तिं प्रदेह्यम्बिके ज्ञानं सर्वसरस्वतीषु विमलं वाक्पाटवं चोत्तमम् । सद्भुद्धिं सुमनोऽपि देहि सुदृढं गात्रं च कीर्तिं श्रियं सोढ्वा त्वत्पदभक्तिमेव नितरां सर्वापराधांश्च मे ॥ ५॥ ॥ ॐ तत्सत्॥ This stotra is on Sri Kalika Devi at Nallur, a village on the banks of a branch of the Cauvery river, in Tanjore District, Tamil Nadu State.