अक्षर आकार:

श्रीकालभैरवस्तोत्रम्

Shri Kalabhairava Stotram

श्रीकालभैरवस्तोत्रम्

श्रीगणेशायनमः । देवाः उचुः । नमो भैरवदेवाय नित्ययानन्दमूर्तये । विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थदर्शिने ॥ १॥ दिगम्बराय कालाय नमः खट्वाङ्गधारिणे । विभूतिविलसद्भालनेत्रायार्धेन्दुमालने ॥ २॥ कुमारप्रभवे तुभ्यं बटुकायमहात्मने । नमोऽचिन्त्यप्रभावाय त्रिशूलायुधधारिणे ॥ ३॥ नमः खड्गमहाधारहृत त्रैलोक्यभीतये । पूरितविश्वविश्वाय विश्वपालाय ते नमः ॥ ४॥ भूतावासाय भूताय भूतानां पतये नम । अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ॥ ५॥ कं कालायातिघोराय क्षेत्रपालाय कामिने । कलाकाष्टादिरूपाय कालाय क्षेत्रवासिने ॥ ६॥ नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालने । विद्यानां गुरवे तुभ्यं विधिनां पतये नमः ॥ ७॥ नमः प्रपञ्चदोर्दण्ड दैत्यदर्पविनाशने । निजभक्त जनोद्दाम हर्षप्रवरदायिने ॥ ८॥ नमो जम्भारिमुख्याय नामैश्वर्याष्टदायिने । अनन्तदुःखसंसारपारावारान्तदर्शिने ॥ ९॥ नमो जम्भाय मोहाय द्वेषायोच्याटकारिणे । वशङ्कराय राजन्यमौलन्यस्त निजान्ध्रये ॥ १०॥ नमो भक्तापदां हन्त्रे स्मृतिमात्रार्थदर्शिने । आनन्दमूर्तये तुभ्यं श्मशाननिलयाय ते ॥ ११॥ वेतालभूतकूष्माण्ड ग्रहसेवाविलासिने । दिगम्बराय महते पिशाचाकृतिशालने ॥ १२॥ नमोब्रह्मादिभर्वन्द्य पदरेणुवरायुषे । ब्रह्मादिग्रासदक्षाय निःफलाय नमो नमः ॥ १३॥ नमः काशीनिवासाय नमो दण्डकवासिने । नमोऽनन्त प्रबोधाय भैरवाय नमोनमः ॥ १४॥ इति श्रीकालभैरवस्तोत्रं सम्पूर्णम् ।