अक्षर आकार:

श्रीकालीताण्डवस्तोत्रम्

Shri Kali Tandava Stotram

श्रीकालीताण्डवस्तोत्रम्

हुंहुंकारे शवारूढे नीलनीरजलोचने । त्रैलोक्यैकमुखे दिव्ये कालिकायै नमोऽस्तुते ॥ १॥ प्रत्यालीढपदे घोरे मुण्डमालाप्रलम्बिते । खर्वे लम्बोदरे भीमे कालिकायै नमोऽस्तुते ॥ २॥ नवयौवनसम्पन्ने गजकुम्भोपमस्तनी । वागीश्वरी शिवे शान्ते कालिकायै नमोऽस्तुते ॥ ३॥ लोलजिह्वे दुरारोहे नेत्रत्रयविभूषिते । var लोलजिह्वे हरालोके घोरहास्यत्करे देवी कालिकायै नमोऽस्तुते ॥ ४॥ var घोरहास्यत्कटा कारे व्याघ्रचर्म्माम्बरधरे खड्गकर्त्तृकरे धरे । कपालेन्दीवरे वामे कालिकायै नमोऽस्तुते ॥ ५॥ नीलोत्पलजटाभारे सिन्दुरेन्दुमुखोदरे । स्फुरद्वक्त्रोष्टदशने कालिकायै नमोऽस्तुते ॥ ६॥ प्रलयानलधूम्राभे चन्द्रसूर्याग्निलोचने । शैलवासे शुभे मातः कालिकायै नमोऽस्तुते ॥ ७॥ ब्रह्मशम्भुजलौघे च शवमध्ये प्रसंस्थिते । प्रेतकोटिसमायुक्ते कालिकायै नमोऽस्तुते ॥ ८॥ कृपामयि हरे मातः सर्वाशापरिपुरिते । वरदे भोगदे मोक्षे कालिकायै नमोऽस्तुते ॥ ९॥ इत्युत्तरतन्त्रार्गतमं श्रीकालीताण्डवस्तोत्रं सम्पूर्णम् ॥