अक्षर आकार:

कालीस्तवनम्

Kalistavanam

कालीस्तवनम्

अथ द्विसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच महाकाल शिवानन्द परमानन्दनिर्भर । त्रैलोक्यसिद्धिद प्राणवल्लभ श्रूयतां स्तवः ॥ ७२-१॥ शाकिनी हृदये भाति सा देवी जननी शिवा । कालीति जगति ख्याता सा देवी हृदयस्थिता ॥ ७२-२॥ निरञ्जना निराकारा नीलाञ्जनविकासिनी । आद्या देवी कालिकाख्या केवला निष्कला शिवा ॥ ७२-३॥ अनन्ताऽनन्तरूपस्था शाकिनी हृदयस्थिता । तामसी तारिणी तारा महोग्रा नीलविग्रहा ॥ ७२-४॥ कपाला मुण्डमालाढ्या शववाहनवाहना । ललज्जिह्वा सरोजाक्षी चन्द्रकोटिसमोदया ॥ ७२-५॥ वाय्वग्निभूजलान्तस्था भवानी शून्यवासिनी । तस्मात् स्तोत्रमप्रकाश्यं कृष्णकाल्याः कुलोदयम् ॥ ७२-६॥ श्रीकृष्णभगवत्याश्च नीलदेव्या कुलार्णवम् । गोपनीयं प्रयत्नेन सावधानोऽवधारय ॥ ७२-७॥ महाभैरवी उवाच श्रीकालीचरणं चराचरगुणं सौदामिनीस्तम्भनं गुञ्जद्गर्वगुरुप्रभानखमुखाह्लादैककृष्णासनम् । प्रेतारण्यासननिर्मितामलकजा नन्दोपरिश्वासनं श्रीमन्नाथ करारविन्दमिलनं नेत्राञ्जनं राजते ॥ ७२-८॥ दीप्तिः प्राप्तिः समाप्तिः प्रियमतिसुगतिः सङ्गतिः शीतनीतौ मिथ्यामिथ्यासुरथ्या नतिररतिसती जातिवृत्तिर्गुणोक्तिः । व्यापारार्थी क्षुधार्थी वसति रतिपतिर्ज्योतिराकाशगङ्गा श्रीदुर्गाशम्भुकालीचरणकमलकं सर्वदा भाति सूक्ष्मम् ॥ ७२-९॥ देवेन्द्राः पञ्चभूता रविशशिमुकुटाः क्रोधवेतालकोलाः कैलासस्थाः प्रशस्ताः स्तवनमपि तत्प्रत्यहं सम्पठन्ति । आत्मानं श्रीदकालीकुलचरणतलं हृत्कुलानन्दपद्मे ध्यात्वा ध्यात्वा प्रवीरा अहमनुबहुधीः स्तौमि किं ध्याननिष्ठः ॥ ७२-१०॥ श्रुत्वा स्तोत्रगुणं तवैव चरणाम्भोजस्य वाञ्छाफलं प्रेच्छामीहयति प्रियाय कुरुते मोक्षाय तत्त्वार्थतः । मातर्मोहिनिदानमानतरुणी कातीति मन्यामहे योग्यश्रीचरणाम्बुजे त्रिजगतामानन्दपुञ्जे सुखम् ॥ ७२-११॥ पुत्रौ श्रीदेवपूज्यौ प्रकुरुत इतिहासादिगूढार्थगुप्तिं श्यामे मातः प्रसन्ना भव वरदकरी कारणं देहि नित्यम् । योगानन्दं शिवान्तः सुरतरुफलदं सर्ववेदान्तभाष्यं सत्सङ्गं सद्विवेकं कुरु कुरु कवितापञ्चभूतप्रकाशम् ॥ ७२-१२॥ आह्लादोद्रेककारी परमपदविदां प्रोल्बणार्थप्रकाशः प्रेष्यः पारार्थचिन्तामणिगुण सरलः पारणः प्रेमगानः । सारात्मा श्रीस्तवोऽयं जयसुरवसतां शुक्रसंस्कारगन्ता मन्ता मोहादिकानां सुरगणतरुणी कोटिभिर्ध्येय इन्द्रैः ॥ ७२-१३॥ नामग्रहणविमलपावनपुण्यजलनिधिमन्थनेन । निर्मलचित्तगसुरगुणपारग सुखसुधाकरस्थितहास्येन । योगधराधरनरवर कुञ्जरभुजयुगदीर्घपद्ममृणालेन ॥ ७२-१४॥ हरिविधिहर अपरपरसरभावकपाल सेवनेन । सुन्दरी काली चरणेन ॥ ७२-१५॥ भास्वत्कोटिप्रचण्डानलगुणललिताभाविता सिद्धकाली प्रोक्तं यद्योगगीतावचनसुरचनामङ्गलं योगिनाद्या । श्यामानन्दद्रुमाख्ये भजनयजनगङ्गाङ्गतीरप्रकाशं सर्वानन्दोत्सवत्वं वरदसुरवदासम्भवे मय्यभावे ॥ ७२-१६॥ एतत्प्रथमे कुलं गुरुकुलं लावण्यलीलाकुलं प्राणानन्दकुलं कुलाकुलकुलं कालीकुलं सङ्कुलम् । मातः कालियुगादि कौलिनि शिवे सर्वन्तराङ्गस्थितं नित्यं तत्र नियोजय श्रुतिगिरा श्रीधर्मपुत्रं भवे ॥ ७२-१७॥ हेरम्बादि कुलेशयोगजननि त्वं योगतत्त्वप्रिया यद्येवं कुरुते पदाम्बुजरजो योगं तवानन्ददम् । सः स्यात्सङ्कटपाटलारिसदनं जित्वा स्वयं मन्मथं श्रीमान्मन्मथमन्मथः प्रचयति ह्यष्टाङ्गयोगं परम् ॥ ७२-१८॥ योगी याति परं पदं सुखपदं वाञ्छास्पदं सम्पदं त्रैलोक्यं परमेश्वरं यदि पुनः पारं भवाम्भोनिधेः । भावं भूधरराजराजदुहिते ज्ञातं विचारं तव श्रीपादाम्बुजपूजनं प्रकुरुते ते नीरदप्रोज्ज्वले ॥ ७२-१९॥ आदावष्टाङ्गयोगं वदति भवसुखं भक्तिसिद्धान्तमेकं भूलोके पावनाख्यं पवनगमनगं श्रीनगेन्द्राङ्गजायाः । सिद्धीनामष्टसिद्धिं यमनियमवशादासनप्राणयोगात् प्रत्याहारं विभोर्ध्वारुणगुणवसनं ध्यानमेवं समाधिम् ॥ ७२-२०॥ मातः शान्तिगुणावलम्बिनि शिवे शान्तिप्रदे योगिनां दारे देवगुणे विधेहि सकलं शान्तिक्रियामङ्गलम् । यज्ञानामुदयं प्रयाति सहसा यस्याः प्रसादाद् भुवं तां सर्वां प्रवदामि कामदहनस्तम्भाय मोहक्षयात् ॥ ७२-२१॥ एको जीवति योगिराडतिसुखी जीवन्ति न श्रीसुताः सर्वं योगभवं भवे विभवगाः पश्यन् स्वकीयायुषम् । इत्येवं परिभाव्य सर्वविषयं शान्तिं समालम्ब्यकौ मूले वेददलोज्ज्वले कुलपथे श्रीकुण्डलीं भावय ॥ ७२-२२॥ शान्तिभ्रान्तिनिकृन्तनी स्वरमणी प्रेमोद्गता भक्तिदा लावण्याम्बुधिरत्नकोटिकिरणाह्लादैकमूर्तिप्रभा । एकाकारपराक्रमादपय मा क्रोधक्रमक्षोभिणी या मूलामलपङ्कजे रचयति श्रीमाधुरी तां भजे ॥ ७२-२३॥ रे रे पामर दुर्भग प्रतिदिनं किं कर्म वा राधसे व्यापारं विषयाश्रयं प्रकुरुषे न ध्यायसे श्रीपदम् । मिथ्यैतत्क्षणभङ्गुरं त्यज मुदा संसारभावं विषं श्रीकालीं कुलपण्डितां गुणवतीं शान्तिं समाराधय ॥ ७२-२४॥ शिवस्त्री या शान्तिः परमसुखदा भावजनिका विवेकः सञ्जातो वहसि च तया भाति नियतम् । विवेकोऽसौ त्यागी जनयति सुधासिन्धुसुन्दर- मदो ब्रह्मज्ञानं परमममले योगिनिं परे ॥ ७२-२५॥ द्वयं ब्रह्मज्ञानं परमममले चागममयं विवेकोद्भूतं स्यादमलपरमं शब्दमपरम् । द्वयोर्मूलीभूता हृदि सपदि शान्तिः प्रियतमा प्रभा कालीपादाम्बुजयुगलभक्तिप्रलयदा ॥ ७२-२६॥ कुलश्रीकुण्डल्याः परमरसभावं नवमयं पदं मातुः काल्याः प्रथमरविकान्त्याः सुखमयम् । वदामि प्रोत्साहे वशषसशुभे हाटकनिभे विधिः श्रीडाकिन्याऽमरपतिधरित्रीति च भजेत् ॥ ७२-२७॥ त्रयं स्थानं नित्यं रविशशिकलावह्निघटितं महातीर्थं सम्यक् पवनगगनस्थं भवकरम् । विभिन्नं सङ्कृत्य द्वयमपि कुलग्रन्थिसहितं सुषुम्नाश्रीतीर्थे महति गगने पूर्णलयवान् ॥ ७२-२८॥ त्रयं संशोध्यादौ परमपदवीं गच्छति महान् सुदृष्टाङ्गैर्योगैः परिभवति शुद्धं मम तनुम् । अतो योगाष्टाङ्गं कलुषसुखमुक्तं वितनुते क्रियादौ सङ्कुर्याद्यमनियमकार्यं यतिवरः ॥ ७२-२९॥ अहिंसासत्यार्थी प्रचयति सुयोगं तव पदं धनस्ते यद्योगी शुचिधृतिदयादाननिपुणः । क्षमालध्वाहारी समगुणपरानन्दनिपुणः स्वयं सिद्धः सद्ब्राह्मणकुलपताकी सुखमयी ॥ ७२-३०॥ तपः सन्तोषाढ्यो हरयजन आस्तिक्यमतिमान् यतीनां सिद्धान्तश्रवणहृदयप्राणविलयः । जयानन्दामग्नो हवनमनलेपः प्रकुरुते महाभक्तः श्रीह्रीर्मतिरतिकुलीनस्तव पदः ॥ ७२-३१॥ सुषुम्नामुखाम्भोरुहाग्रे च पद्मं दलं चेदहेमाक्षरं मूलदेशे । स्थिरापृष्ठवंशस्य मध्ये सुषुम्ना-- न्तरे वज्रिणी चित्रिणीभासिपद्मैः ॥ ७२-३२॥ सुषुम्नादिनाड्या युगात् कर्णमूला- त्प्रकाशप्रकाशा बहिर्युग्मनाडी । इडा पिङ्गला वामभागे च दक्षे सुधांशूरवी राजसे तत्र नित्यम् ॥ ७२-३३॥ विसर्गं बिन्द्वन्तं स्वगुणनिलयं त्वं जनयसि त्वमेका कल्याणी गिरिशजननी कालिकलया । परानन्दं कृत्वा यदि परिजपन्ति प्रियतमाः परिक्षाल्य ज्ञानैरिह परिजयन्ति प्रियपदम् ॥ ७२-३४॥ अष्टादशाङ्गुलगतं ऋजुदन्तकाष्ठं स्वीयाङ्गुलार्धघटितं प्रशरं शनैर्यः । संयोज्य तालुरसनागलरन्ध्रमध्ये दन्तीक्रियामुपचरेत् तव भावनाय ॥ ७२-३५॥ नाडीक्षालनमाकरोति यतिराड् दण्डे त्रयं धारयन् युष्मच्छ्रीचरणार्पणो नवमदण्डस्यानिलस्तम्भनात् । प्राणायामफलं यतिः प्रतिदिनं संवर्धते सुश्रमा- दानन्दाम्बुधिमज्जनं कुलरसैर्मुक्तो भवेत् तत्क्षणात् ॥ ७२-३६॥ वदामि परमश्रिये पदपद्मयोगं शुभं हिताय जगतां मम प्रियगणस्य भागश्रिये । सदा हि कुरुते नरः सकलयोगसिद्धिं मुदा तदैव तव सेवको जननि मातरेकाक्षरम् ॥ ७२-३७॥ करुणासागरे मग्नः सदा निर्मलतेजसा । तवाङ्घ्रिकोमलाम्भोजं ध्यात्वा योगीश्वरो भवेत् ॥ ७२-३८॥ करुणासागरे मग्नो येन योगेन निर्मलः तद्योगं तव पादाब्जं को मूर्खः कः सुपण्डितः ॥ ७२-३९॥ यमनियमसुकाले नेउलीयोगशिक्षा प्रभवति कफनाशा नाशरन्ध्रे त्रिसूत्री । हृदयकफविनाशा धोतिका योगशिक्षा गलविलगलवस्त्रं षष्टिहस्तं वहन्ती ॥ ७२-४०॥ सुसूक्ष्मरसनस्य च स्वभुजषष्टिहस्तं गल प्रमाणमिति सन्ततप्रसरपञ्चयुग्माङ्गुलम् । पवित्रशुचिधोतिकारं भवसि सर्वपीडापहा स्वकण्ठकमलोदयाममलभीतदामा भजे ॥ ७२-४१॥ भजति यदि कुमारीं नेउली योगदृष्ट्या स भवति परवेत्ता मोहजालं छिनत्ति । स्मितमुखि भवति त्वां मूढ एवातिजीवो भ्रमितमुदवधूर्ना कारसिद्धिं ददासि ॥ ७२-४२॥ शनैर्दन्ती योगं स्वपदयुगपद्मे वितनुते शिवे योगी मासादपि भवति वायुं स्थगयति । असौ मन्त्री चाम्रातकदलं सुदण्डं गलविले नियोज्यादौ ध्यात्वा तव चरणपङ्केरुहतलम् ॥ ७२-४३॥ कुलाकुलचेतता परिकरोषि विल्वच्छदी सुशान्तिगुणदा जया परमभक्तिनिर्गुण्डिका । मुकुन्दतुलसी प्रिया गुणिनि मुक्तिदा योगिनी ददास्यमरसम्पदं दलवियोगमूर्ध्वोदरीम् ॥ ७२-४४॥ पञ्चामरासाधनयोगकर्त्री पञ्चामरानाम महौषधिः स्थिता । त्वमेव सर्वेश्वररूपधारिणी यैः पूज्यते सोऽहिकपारमेष्ठी ॥ ७२-४५॥ पठति यदि भवान्याः शाकिनीदेहदेव्याः स्तवनमरुणवर्णामार्कलक्ष्म्याः प्रकाशम् । व्रजति परमराज्यं देवपूज्यः प्रतिष्ठो मनुजपनसुशीलो लीलया शम्भुरूपम् ॥ ७२-४६॥ प्रातर्मध्याह्नकाले च सायाह्ने च त्रिसप्तके । शतं पठित्वा मोक्षः स्यात् पुरश्चर्याफलं लभेत् ॥ ७२-४७॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीकृत कालीस्तवनं नाम द्विसप्ततितमः पटलः ॥ ७२॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.