अक्षर आकार:

कालीशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्

Kalishatanamastotra from Brihannilatantra

कालीशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्

श्रीदेव्युवाच । पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् । नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो ॥ २३-१॥ श्रीभैरव उवाच । साधु पृष्टं महादेवि अकथ्यं कथयामि ते । न प्रकाश्यं वरारोहे स्वयोनिरिव सुन्दरि ॥ २३-२॥ प्राणाधिकप्रियतरा भवती मम मोहिनी । क्षणमात्रं न जीवामि त्वां बिना परमेश्वरि ॥ २३-३॥ यथादर्शेऽमले बिम्बं घृतं दध्यादिसंयुतम् । तथाहं जगतामाद्ये त्वयि सर्वत्र गोचरः ॥ २३-४॥ श‍ृणु देवि प्रवक्ष्यामि जपात् सार्वज्ञदायकम् । सदाशिव ऋषिः प्रोक्तोऽनुष्टुप् छन्दश्च ईरितः ॥ २३-५॥ देवता भैरवो देवि पुरुषार्थचतुष्टये । विनियोगः प्रयोक्तव्यः सर्वकर्मफलप्रदः ॥ २३-६॥ महाकाली जगद्धात्री जगन्माता जगन्मयी । जगदम्बा गजत्सारा जगदानन्दकारिणी ॥ २३-७॥ जगद्विध्वंसिनी गौरी दुःखदारिद्र्यनाशिनी । भैरवभाविनी भावानन्ता सारस्वतप्रदा ॥ २३-८॥ चतुर्वर्गप्रदा साध्वी सर्वमङ्गलमङ्गला । भद्रकाली विशालाक्षी कामदात्री कलात्मिका ॥ २३-९॥ नीलवाणी महागौरसर्वाङ्गा सुन्दरी परा । सर्वसम्पत्प्रदा भीमनादिनी वरवर्णिनी ॥ २३-१०॥ वरारोहा शिवरुहा महिषासुरघातिनी । शिवपूज्या शिवप्रीता दानवेन्द्रप्रपूजिता ॥ २३-११॥ सर्वविद्यामयी शर्वसर्वाभीष्टफलप्रदा । कोमलाङ्गी विधात्री च विधातृवरदायिनी ॥ २३-१२॥ पूर्णेन्दुवदना नीलमेघवर्णा कपालिनी । कुरुकुल्ला विप्रचित्ता कान्तचित्ता मदोन्मदा ॥ २३-१३॥ मत्ताङ्गी मदनप्रीता मदाघूर्णितलोचना । मदोत्तीर्णा खर्परासिनरमुण्डविलासिनी ॥ २३-१४॥ नरमुण्डस्रजा देवी खड्गहस्ता भयानका । अट्टहासयुता पद्मा पद्मरागोपशोभिता ॥ २३-१५॥ वराभयप्रदा काली कालरात्रिस्वरूपिणी । स्वधा स्वाहा वषट्कारा शरदिन्दुसमप्रभा ॥ २३-१६॥ शरत्ज्योत्स्ना च संह्लादा विपरीतरतातुरा । मुक्तकेशी छिन्नजटा जटाजूटविलासिनी ॥ २३-१७॥ सर्पराजयुताभीमा सर्पराजोपरि स्थिता । श्मशानस्था महानन्दिस्तुता संदीप्तलोचना ॥ २३-१८॥ शवासनरता नन्दा सिद्धचारणसेविता । बलिदानप्रिया गर्भा भूर्भुवःस्वःस्वरूपिणी ॥ २३-१९॥ गायत्री चैव सावित्री महानीलसरस्वती । लक्ष्मीर्लक्षणसंयुक्ता सर्वलक्षणलक्षिता ॥ २३-२०॥ व्याघ्रचर्मावृता मेध्या त्रिवलीवलयाञ्चिता । गन्धर्वैः संस्तुता सा हि तथा चेन्दा महापरा ॥ २३-२१॥ पवित्रा परमा माया महामाया महोदया । इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २३-२२॥ यः पठेत् प्रातरुत्थाय स तु विद्यानिधिर्भवेत् । इह लोके सुखं भुक्त्वा देवीसायुज्यमाप्नुयात् ॥ २३-२३॥ तस्य वश्या भवन्त्येते सिद्धौघाः सचराचराः । खेचरा भूचराश्चैव तथा स्वर्गचराश्च ये ॥ २३-२४॥ ते सर्वे वशमायान्ति साधकस्य हि नान्यथा । नाम्नां वरं महेशानि परित्यज्य सहस्रकम् ॥ २३-२५॥ पठितव्यं शतं देवि चतुर्वर्गफलप्रदम् । अज्ञात्वा परमेशानि नाम्नां शतं महेश्वरि ॥ २३-२६॥ भजते यो महकालीं सिद्धिर्नास्ति कलौ युगे । प्रपठेत् प्रयतो भक्त्या तस्य पुण्यफलं श‍ृणु ॥ २३-२७॥ लक्षवर्षसहस्रस्य कालीपूजाफलं भवेत् । बहुना किमिहोक्तेन वाञ्छितार्थी भविष्यति ॥ २३-२८॥ इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे कालीशतनामनिरूपणं त्रयोविंशः पटलः ॥ २३॥