अक्षर आकार:

श्रीकालीशतनामस्तोत्रम्

shrIkAlIshatanAmastotram

श्रीकालीशतनामस्तोत्रम्

भैरव उवाच - शतनाम प्रवक्ष्यामि कालिकाया वरानने । यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ १॥ काली कपालिनी कान्ता कामदा कामसुन्दरी । कालरात्रिः कालिका च कालभैरवपूजिता ॥ २॥ कुरुकुल्ला कामिनी च कमनीयस्वभाविनी । कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ ३॥ कस्तूरीरसनीला च काम्या कामस्वरूपिणी । ककारवर्णनिलया कामधेनुः करालिका ॥ ४॥ कुलकान्ता करालास्या कामार्ता च कलावती । कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ ५॥ कुलजा कुलकन्या च कुलहा कुलपूजिता । कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥ ६॥ कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी । कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥ ७॥ काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा । क्रींरूपा कुलगम्या च कमला कृष्णपूजिता ॥ ८॥ कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी । कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥ ९॥ कुलस्त्री कीर्त्तिका कृत्या कीर्तिश्च कुलपालिका । कामदेवकला कल्पलता कामाङ्गवर्धिनी ॥ १०॥ कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका । कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥ ११॥ कुमारीपूजनरता कुमारीगणशोभिता । कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥ १२॥ कङ्काली कमनीया च कामशास्त्रविशारदा । कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥ १३॥ कोटरी कोटराक्षी च काशी कैलासवासिनी । कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ १४॥ कामाकर्षणरूपा च कामपीठनिवासिनी । कङ्किनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ १५॥ कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी । कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ १६॥ कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा । इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ १७॥ प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् । त्रिषु लोकेषु देवेशि तस्यासाध्यं न विद्यते ॥ १८॥ प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि । यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ १९॥ कालिका तस्य गेहे च संस्थानं कुरुते सदा । शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ॥ २०॥ वह्निमध्ये च सङ्ग्रामे तथा प्राणस्य संशये । शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम् ॥ २१॥ कालीं संस्थाप्य विधिवत् स्तुत्वा नामशताष्टकैः । साधकस्सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥ २२॥ इति श्रीकालीशतनामस्तोत्रं सम्पूर्णम् ॥