अक्षर आकार:

श्रीकालीध्यानम्

shrIkAlIdhyAnam

श्रीकालीध्यानम्

सद्यश्छिन्नशिरःकृपाणमभयं हस्तैर्वरं बिभ्रतीं घोरास्यां शिरसां स्रजा सुरुचिरामुन्मुक्तकेशावलीम् । सृक्कासृत्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं श्यामाङ्गीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥ १॥ शिवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम् । चतुर्भुजां खड्गमुण्डवराभयकरांशिवाम् ॥ २॥ मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बराम् । सदा सञ्चिन्तये कालीं श्मशानालयवासिनीम् ॥ ३॥ नमामि दक्षिणामूर्तिं कालिकां परभैरवीम् । भिन्नाञ्जनचयप्रख्यां प्रवीरशवसंस्थिताम् ॥ ४॥ गलच्छोणितधाराभिः स्मेराननसरोरुहाम् । पीनोन्नतकुचद्वन्द्वां पीनवक्षोनितम्बिनीम् ॥ ५॥ दक्षिणां मुक्तकेशालीं दिगम्बरविनोदिनीम् । महाकालशवाविष्टां स्मेराम्बरपरिस्थिताम् ॥ ६॥ मुखसान्द्रस्मितामोदमोदिनीं मदविह्वलाम् । आरक्तमुखसान्द्राभिः नेत्रालीभिर्विराजिताम् ॥ ७॥ शवद्वयकृतोत्तंसांसिन्दूरतिलकोज्ज्वलाम् । पञ्चाशन्मुण्डघटितमालाशोणितलोहिताम् ॥ ८॥ नानामणिविशोभाढ्यनानालङ्कारशोभिताम् । शवास्थिकृतकेयूरशङ्खकङ्कणमण्डिताम् ॥ ९॥ शववक्षःसमारूढां लेलिहानां शवं क्वचित् । शवमांसकृतग्रासां साट्टहासं मुहुर्मुहुः ॥ १०॥ खङ्गमुण्डधरां वामे सव्येऽभयवरप्रदाम् । दन्तुरां च महारौद्रीं चण्डनादातिभीषणाम् ॥ ११॥ शिवाभिर्घोररूपाभिर्वेष्टितां भयनाशिनीम् । ``माभैर्माभैः'' स्वभक्तेषु जल्पन्तीं घोरनिःस्वनैः ॥ १२॥ यूयं किमिच्छत ब्रूत ददामीति प्रभाषिणीम् । ध्यायामि तां महाकालीं सर्वोपद्रववारिणीम् ॥ १३॥ इति श्रीकालीध्यानं सपूर्णम् ॥