अक्षर आकार:

श्रीकाकिनीस्तोत्रम्

Shri Kakini Stotram

श्रीकाकिनीस्तोत्रम्

अथैकोनषष्टितमः पटलः श्रीआनन्दभैरवी उवाच ज्ञानेश्वरी शुभकरी परिभावनीया योगेश्वरैर्हरिहरैर्गुरुभिर्महेन्द्रैः । तां काकिनीं परशिवां परमेशपत्नीं संस्तौमि चारुहृदयाम्बुजपीठमध्ये ॥ ५९-१॥ एकाकिनी त्रिजगतामतिनाशकाले त्वां काकिनीं समरकार्णा(ण्ड) ककाकपत्नीम् । त्वं साक्षिणी भुवनभङ्गविधौ सकास्ते भूषण्डकाकमहिषीव वयं भजामः ॥ ५९-२॥ एकाकिनीं सकलधारणकालयोगे आधार्य देहसमये सति काकिनीं त्वाम् । वाय्वासने मनस आशु विकारनाशे काकेन्द्रचञ्चुचलितामहमेवमीडे ॥ ५९-३॥ भावोदये प्रणयिनीमगतौ च भावा आह्लादयोगविभवे भुवनेश्वरीं त्वाम् । मन्दारहाररुचिरे परमेश्वरि त्वं रक्षां कुरु प्रथमतो मतिमाश्रयामि ॥ ५९-४॥ चन्द्रोदये सुखमयी द्युतिकोटिदीप्ता गोप्यागमे सुमतिभिः स्वमनांसि शुद्धा । सा त्वं सुखात्त्वं भव भावविपूजनीये रक्षां कुरु प्रथमभास्करमङ्घ्रिमीडे ॥ ५९-५॥ ते पादपङ्कजमजस्रमहं भजामि सानन्दबिन्दु विमलासनभावपुञ्जे । गुञ्जावटीविमलमाल्यसुशोभिताङ्गे स्यामेव मे चरमभावसमूहदात्री ॥ ५९-६॥ पञ्चानने दशभुजे सकलास्त्रयुक्ते विद्ये भये नरहरे नरहारभूषे । प्रेतासने त्रिनयने जननी त्वमेव रक्षे शुभे चरणपङ्कजमाश्रयामि ॥ ५९-७॥ श्री सुन्दरि प्रणतरक्षिणि वेदमात- स्तारेश्वरी त्वमपि रक्ष विनाशकाले । यद्येकभक्त इतिहासपुराणवक्ता नित्यानुरक्तहरपादसरोजमीडे ॥ ५९-८॥ ते श्रीपदं भुवनसारमनन्तसेव्यं योगास्पदं कृतिभिराश्रयमेकयोगम् । सर्वे भजन्ति निजमोक्षफलाय नित्यं दीनोऽहमम्ब भुवनेशि मुदा भजामि ॥ ५९-९॥ त्रैलोक्यपूजितपदं हृदयाम्बुजस्थं चित्तप्रकाशकमले स्वसुखानुभूतम् । मायाश्रयं सकलसिद्धिनिदानरूपं मञ्जीरहारविनतं वरमाश्रयामि ॥ ५९-१०॥ कौटीरहारकमलप्रियमाल्यशोभे शोभाकरे स्थिरतरा भव मे हृदब्जे । भूमण्डले हि बलवान्कृतकृत्य एव त्वामीश्वरीं हृदि मुदा सुखमाश्रयामि ॥ ५९-११॥ नित्ये पुरा भजति योगसुसिद्धयेऽसौ शम्भुर्गिरीश इति चेश्वरपार्श्वगामि । सायुज्यनाथपदवीं गत ईशकान्ते एकाकिनी कुलवताङ्घ्रियुगं किमन्यैः ॥ ५९-१२॥ ध्यायन्ति योगिन इहाघसमूहशैलं संहार हेतुकसदाघविनाशनाय । चित्तोत्सवाय विभवाय जयाय भूमेः दीनोऽहमाशु विभजामि पदं श्रिये ते ॥ ५९-१३॥ कृष्णे सिते विमलपीतनिभे सुरक्ते वर्णाश्रये त्वमव मामतिदीनमेकम् । पुत्रं तवैव चरणाम्बुजमेव कान्तं नीलाम्बुजे स्थिरतरं कुरु कामदात्रि ॥ ५९-१४॥ सर्वेश्वरी प्रियकरि भवभावहन्त्रि नाना ध्वनिप्रणतकामदुघे विचित्रे । रत्नाम्बरे सुखपदं यदि देहि दास्यं त्वं चारुवर्णगलिते पदमाश्रयामि ॥ ५९-१५॥ रत्नाकरे सकरुणेऽरुणकोटिवर्णे स्वर्णादिनिर्मितसृजापविशोभिताङ्गी । त्वं काकिनी यदि कटाक्षनिपातमेकं सर्वं कुरुष्व सुखमोक्षपथप्रमोदी ॥ ५९-१६॥ आद्ये प्रवालविमलेऽमलमाल्यशोभे सूक्ष्मेऽतिसूक्ष्मनिकरे करुणानिधाने । (क ) बाले वले प्रचले चपले प्रलापे योगेशि पादकमलं कुलमाश्रयामि ॥ ५९-१७॥ (ख ) त्वं षोडशी खरतरा खरखड्गहस्ते खड्गेश्वरी प्रखरवाक्यमथाढ्यवक्त्रे । खर्जूरहाररुचिरे खलहन्त्रि तुभ्यं नित्यं नमो नम उपेन्द्रगिरीन्द्रसेव्ये ॥ ५९-१८॥ (ग ) गीतानते तरुतरे प्रणमामि नित्यं गात्रेश्वरी गतिहरे गणनाथसेव्ये । गायन्ति ते चरणपङ्कजसारगीतं रक्षाप्रचण्डकलुषादनुपेक्षणीयम् ॥ ५९-१९॥ (घ ) दीर्घस्वरे घनवरे घनघोरनादे घोरानने नवघने घटनाघनानाम् । घोरास्पदे घटगते घटशून्यकर्त्रि त्वं काकिनी समवतु क्षितिदोषजालात् ॥ ५९-२०॥ (ङ ) आनुस्वरे स्मरहरे ननु रूपविद्ये संयोगिनीप्रबलशत्रुविनाशभूते । रक्षेऽतिरक्ष करुणां कुरु देहि मोक्षं (च ) चण्डि प्रचण्डनयने चरणं भजे ते ॥ ५९-२१॥ (छ ) छत्रप्रदे छलहरे छदवासिनी त्वम् । छद्मस्थिते हृदयपङ्कजदक्षयोगे । (ज ) त्वां पूजये जयधरे यदुनाथजन्यो । जाये जयं यदिह देहि पदं भजामि ॥ ५९-२२॥ (झ ) झङ्के झनज्वलयतीह रिपुं पिबन्ति त्वं कौशिकी सकलदेहविशोधनी त्वम् । (न ) नित्येऽनुनासिकपदे सकलार्थदे त्वं (ञ ) रक्षां कुरुष्व विपदे कुलपुञ्जगुञ्जे ॥ ५९-२३॥ (ट ) टङ्कारगेऽट्टहसने टललेऽट्टहासे । (ठ ) ठाक्कारिणी सठहरा परिनिष्ठिता त्वम् । सिंहेष्टपृष्ठनिलयेऽस्थिरयोगभावं हृत्पद्मके कुरु सदा सकलार्थदात्रि ॥ ५९-२४॥ एतत्स्तोत्रं पठेद्धीमान् ध्यानन्यासपरायणः । विभाव्य स्तौति यो योगी स योगी मोक्षभाग्भवेत् ॥ ५९-२५॥ हृत्पङ्करुहमध्यस्थं स पश्यति जगत्त्रयम् । अष्टसिद्धियुतः शीघ्रं जीवन्मुक्तो भवेन्नरः ॥ ५९-२६॥ इति श्रीरुद्रयामले महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे काकिनीस्तोत्रविन्यासो नामोनषष्टितमः पटलः ॥ ५९॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.