अक्षर आकार:

ज्योतिर्लक्ष्मीस्तोत्रम्

Jyotirlakshmi Stotram

ज्योतिर्लक्ष्मीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ ज्योतिर्लक्ष्म्यै च विद्महे । दीपद्युत्यै च धीमहि । तन्नो ज्योतिः प्रचोदयात् ॥ ज्योतिस्स्वरूपिणी माता दीपलक्ष्मी सुमङ्गला । सा मां पातु सदा क्षेममङ्गलप्रदमातृका ॥ १॥ ज्योतीरूपसुरागिण्यै दीपलक्ष्म्यै नमो नमः । दिव्यप्रकाशभासिन्यै भगदात्र्यै नमो नमः ॥ २॥ मुखपञ्चप्रकाशिन्यै पञ्चज्युत्यै नमो नमः । स्मितमुत्यसुशोभिन्यै सिताभायै नमो नमः ॥ ३॥ पिङ्गाशवर्णसौम्यायै पिङ्गलायै नमो नमः । रौप्यसाभाससौन्दर्यदीपद्युत्यै नमो नमः ॥ ४॥ तमस्तिमिरहारिण्यै ज्ञानदीप्त्यै नमो नमः । मनःप्रकाशकारिण्यै सानन्दायै नमो नमः ॥ ५॥ कुङ्कुमाङ्कितशोभायै पूजितायै नमो नमः । पुष्पार्चितातिभद्रायै पुण्यकीर्त्यै नमो नमः ॥ ६॥ त्यागराजगुरुस्वमितेजोरूपे नमोस्तुते । शिष्यापुष्पानुतागीतज्योतिर्लक्ष्मि नमोस्तुते ॥ ७॥ मङ्गलं दीपलक्ष्म्यै च मङ्गलायै सुमङ्गलम् । ज्योतिःप्रकाशरूपिण्यै ज्योतिर्लक्ष्म्यै सुमङ्गलम् ॥ ८॥ श्रीवत्सः श्रीशसानन्दः श्रीवत्सं पातु सर्वदा । आयुरारोग्यसम्पत्तिं ददातु मङ्गलं वरम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं ज्योतिर्लक्ष्मीस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan