अक्षर आकार:

श्रीज्वालामुखीस्तोत्रम्

Shri Jvalamukhi Stotram

श्रीज्वालामुखीस्तोत्रम्

श्रीगणेशाय नमः । श्रीभैरव उवाच । तारं यो भजते मातर्बीजं तव सुधाकरम् । पारावारसुता नित्यं निश्चला तद्गृहे वसेत् ॥ १॥ शून्यं यो दहनाधिरूढममलं वामाक्षिसंसेवितं सेन्दुं बिन्दुयुतं भवानि वरदे स्वान्ते स्मरेत् साधकः । मूकस्यापि सुरेन्द्रसिन्धुजलवद्वाग्देवता भारती गद्यः पद्यमयीं निरर्गलतरा मातर्मुखे तिष्ठति ॥ २॥ शुभं वह्न्यारूढं मतियुतमनल्पेष्टफलदं सबिन्द्वीन्दुं मन्दो यदि जपति बीजं तव प्रियम् । तदा मातः स्वःस्त्रीजनविहरणक्लेशसहितः सुखमिन्द्रोद्याने स्वपिति स भवेत्पूजनरतः ॥ ३॥ ज्वालामुखीति जपते तव नामवर्णान् यः साधको गिरिशपत्नि सुभक्तिपूर्वम् । तस्याङ्घ्रिपद्मयुगलं सुरनाथवेश्याः सीमन्तरत्नकिरणैरनुरञ्जयन्ति ॥ ४॥ पाशाम्बुजाभयधरे मम सर्वशत्रून् शब्दं त्विति स्मरति यस्तव मन्त्रमध्ये । तस्याद्रिपुत्रि चरणौ बहुपांसुयुक्तौ प्रक्षालयन्त्यरिवधूनयनाश्रुपातात् ॥ ५॥ भक्षयद्वयमिदं यदि भक्त्या साधको जपति चेतसि मातः । स स्मरारिरिव त्वत्प्रसादतस्त्वत्पदं च लभते दिवानिशम् ॥ ६॥ कूर्चबीजमनघं यदि ध्यायेत् साधकस्तव महेश्वरि योऽन्तः । अष्ट हस्तकमलेषु सुवश्यास्तस्य त्र्यम्बकसमस्तसिद्धयः ॥ ७॥ ठद्वयं तव मनूत्तरस्थितं यो जपेत्तु परमप्रभावदम् । तस्य देवि हरिशङ्करादयः पूजयन्ति चरणौ दिवौकसः ॥ ८॥ ॐ ह्रीं श्रीं त्र्यक्षरे देवि सुरासुरनिसूदिनि । त्रैलोक्याभयदे मातर्ज्वालामुखि नमोऽस्तु ते ॥ ९॥ उदितार्कद्युते लक्ष्मि लक्ष्मीनाथसमर्चिते । वराम्बुजाभयधरे ज्वालामुखि नमोऽस्तु ते ॥ १०॥ सर्वसारमयि सर्वे सर्वामरनमस्कृते । सत्ये सति सदाचारे ज्वालामुखि नमोऽस्तु ते ॥ ११॥ यस्या मूर्ध्नि शशी त्रिलोचनगता यस्या रवीन्द्वग्नयः पाशाम्भोजवराभयाः करतलाम्भोजेषु सद्धेतयः । गात्रे कुङ्कुमसन्निभा द्युतिरहिर्यस्यागले भूषणं var सन्ततं देवीं कोटिसहस्ररश्मिसदृशीं ज्वालामुखीं नौम्यहम् ॥ १२॥ निद्रां नो भजते विधिर्भगवति शङ्का शिवं नो त्यजेद् विष्णुर्व्याकुलतामलं कमलिनीकान्तोऽपि धत्ते भयम् । दृष्ट्वा देवि त्वदीयकोपदहनज्वालां ज्वलन्ति तदा देवः कुङ्कुमपीतगण्डयुगलः संक्रन्दनः क्रन्दति ॥ १३॥ यामाराध्य दिवानिशं सुरसरित्तीरे स्तवैरात्मभू- रुद्यद्भास्वरघर्मभानुसदृशीं प्राप्तोऽमरज्येष्ठताम् । दारिद्र्योरगदष्टलोकत्रितयीसञ्जीवनीं मातरं देवीं तां हृदये शशाङ्कशकलाचूडावतंसां भजे ॥ १४॥ आपीनस्तनश्रोणिभारनमितां कन्दर्पदर्पोज्ज्वलां लावण्याङ्कितरम्यगण्डयुगलां यस्त्वां स्मरेत् साधकः । वश्यास्तस्य धराभृदीश्वरसुते गीर्वाणवामभ्रुवः पादाम्भोजतलं भजन्ति त्रिदशा गन्धर्वसिद्धादयः ॥ १५॥ हृत्वा देवि शिरो विधेर्यदकरोत् पात्रं कराम्भोरुहे शूलप्रोतममुं हरिं व्यगमयत् सद्भूषणं स्कन्धयोः । कालान्ते त्रितयं मुखेन्दुकुहरे शम्भोः शिरः पार्वति तन्मातर्भुवने विचित्रमखिलं जाने भवत्या शिवे ॥ १६॥ गायत्री प्रकृतिर्गलेऽपि विधृता सा त्वं शिवे वेधसा श्रीरूपा हरिणापि वक्षसि धृताप्यर्धाङ्गभागे तथा । शर्वेणापि भवानि देवि सकलाः ख्यातुं न शक्ता वयं त्वद्रूपं हृदि मादृशां जडधियां ध्यातुं कथैवास्ति का ॥ १७॥ ज्वालामुखीस्तवमिमं पठते सदा यः var यदन्तः श्रीमन्त्रराजसहितं विभवैकहेतुम् । इष्टप्रदानसमये भुवि कल्पवृक्षं स्वर्गं व्रजेत् सुरवधूजनसेवितः सः ॥ १८॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीज्वालामुखीस्तोत्रं सम्पूर्णम् ॥