अक्षर आकार:

ज्वालामुखीस्तोत्रम्

Jvalamukhi Stotram

ज्वालामुखीस्तोत्रम्

ॐ नताः स्तुतिपराः सर्वे यस्या नित्यं दिवौकसः । तमो हृत्वा शङ्करस्य भूत्यै भूयात्सदाशिवा ॥ १॥ श्रीसुन्दरीं जगद्धात्रीं ज्वालाव्याप्तदिगन्तराम् । सुरैः सिद्धैः स्तुतां भूपैः सुमुखीं नौम्यहं शिवाम् ॥ २॥ दैत्यानां भटकोटिकोटिमुकुटाटोपानधः कुर्वतीं विघ्नानां कटकान्यतीव कटकान्यापाटयन्तीं स्फुटम् । भक्तानामभयं वरं च दधतीं शान्तात्मनां सर्वदा षड्वक्त्रेण जितां क्रियाविरहतो ज्वालामुखीं नौम्यहम् ॥ ३॥ ब्रह्माणं मधुकैटभौ वधपरौ सन्त्रासयन्तौ परं नानारूपधरावतीव भयदौ स्थूलोन्नतौ संयुगे । तौ हत्वा विनिवर्तितां कृतवतीं तन्मेदसा मेदिनीं सर्वेषां शुभदायिनीं भगवतीं ज्वालामुखीं नौम्यहम् ॥ ४॥ सैन्यानां महिषासुरस्य मृतिदां सिंहाधिरूढां च तां नानाकारविशेषसौख्यजननीं देहान्तरे संस्थिताम् । बालामध्यमवृद्धरूपरमणीं श्रीसुन्दरीं वैष्णवीं स्त्रीरूपेण जगद्विमोहनकरीं ज्वालामुखीं नौम्यहम् ॥ ५॥ देवानां भयदायकौ सुकठिनौ शुम्भो निशुम्भस्तथा नानाशस्त्रधरौ रिपू धृतिहरौ तौ चण्डमुण्डाङ्कितौ । सङ्ग्रामेऽप्यपराजितौ विकसितौ द्वौ रक्तबीजान्वितौ हत्वैवं सुबलां प्रसन्नवदनां ज्वालामुखीं नौभ्यहम् ॥ ६॥ संसारार्णवतारिणरिणीं रविशशिकोटिप्रभां सुप्रभां पापातङ्कनिवारिणीं हरिहरब्रह्मादिभिः संस्तुताम् । दारिद्र्यस्य विनाशिनीं सुकृतिनां जाड्यं हरन्तीं भृश- मज्ञानान्धमतेः कवित्वजननीं ज्वालामुखीं नौभ्यहम् ॥ ७॥ रत्नपञ्चकनामानं श्रीसुन्दर्याः स्तवं वरम् । अव्याकुलं यः पठति सोऽभीष्टां सिद्धिमाप्नुयात् ॥ ८॥ ज्वालामुखि महाज्वाले ज्वालापिङ्गललोचने । ज्वालातेजी महातेजी ज्वालामुखि नमोऽस्तु ते ॥ इति ज्वालामुखीस्तोत्रं सम्पूर्णम् ।