अक्षर आकार:

श्रीज्वालामुखीसहस्रनामस्तोत्रम्

Shri Jvalamukhi Sahasranamastotram

श्रीज्वालामुखीसहस्रनामस्तोत्रम्

श्रीभैरव्युवाच । भगवन् सर्वधर्मज्ञ देवानामभयङ्कर । पुरा मे यत् त्वया प्रोक्तं वरं कैलाससानुतः ॥ १॥ कृपया परया नाथ तं मे दातुं क्षमो भव । श्रीभैरव उवाच । सत्यमेतत् त्वया प्रोक्तं वरं वरय पार्वति ॥ २॥ तं प्रयच्छामि संसिद्ध्यै मनसा यदभीप्सितम् । श्रीभैरव्युवाच । ज्वालामुख्यास्त्वया देव सहस्राणि च तत्त्वतः ॥ ३॥ प्रोक्तानि ब्रूहि मे भक्त्या यदि मे त्वत्कृपा भवेत् । श्रीभैरव उवाच । प्रवक्ष्यामि महादेवि ज्वालानामानि तत्त्वतः ॥ ४॥ सहस्राणि कलौ नॄणां वरदानि यथेप्सितम् । अभक्ताय न दातव्यं दुष्टायासाधकाय च । ५॥ या सा ज्वालामुखी देवी त्रैलोक्यजननी स्मृता । तस्या नामानि वक्ष्यामि दुर्लभानि जगत्त्रये ॥ ६॥ विना नित्यबलिं स्तोत्रं न रक्ष्यं साधकोत्तमैः । दुर्भिक्षे शत्रुभीतौ च मारणे स्तम्भने पठेत् ॥ ७॥ सहस्राख्यं स्तवं देव्याः सद्यः सिद्धिर्भविष्यति । विना गन्धाक्षतैः पुष्पैर्धूपैर्दीपैर्विना बलिम् ॥ ८॥ न रक्ष्यं साधकेनैव देवीनामसहस्रकम् । दत्त्वा बलिं पठेद्देव्या मन्त्री नामसहस्रकम् । देवि सत्यं मया प्रोक्तं सिद्धिहानिस्ततोऽन्यथा ॥ ९॥ अस्य श्रीज्वालामुखीसहस्रनामस्तवस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीज्वालामुखी देवता, ह्रीं बीजं, श्रीं शक्तिः, ॐ कीलकं पाठे विनियोगः । ॥ अङ्गन्यासः ॥ भैरवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमो मुखे । श्रीज्वालामुखीदेवतायै नमो हृदि । ह्रीं बीजाय नमो नाभौ । श्रीं शक्तये नमो गुह्ये । ॐ कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु । ॐ ह्यामिति षड् दीर्घयुक्तमायया करषडङ्गानि विधाय ध्यायेत् ॥ ॥ ध्यानम् ॥ उद्यच्चन्द्रमरीचिसन्निभमुखीमेकादशाराब्जगां पाशाम्भोजवराभयान् करतलैः सम्बिभ्रतीं सादरात् । अग्नीन्द्वर्कविलोचनां शशिकलाचूडां त्रिवर्गोज्ज्वलां प्रेतस्थां ज्वलदग्निमण्डलशिखां ज्वालामुखीं नौम्यहम् ॥ ॐ ह्रीं ज्वालामुखी जैत्री श्रीञ्ज्योत्स्ना जयदा जया । औदुम्बरा महानीला शुक्रलुप्ता शची श्रुतिः ॥ १॥ स्मयदा स्मयहर्त्री च स्मरशत्रुप्रियङ्करी । मानदा मोहिनी मत्ता माया बाला बलन्धरा ॥ २॥ भगरूपा भगावासा भीरुण्डा भयघातिनी । भीतिर्भयानकास्या च भ्रूः सुभ्रूः सुखिनी सती ॥ ३॥ शूलिनी शूलहस्ता च शूलिवामाङ्गवासिनी । शशाङ्कजननी शीता शीतला शारिका शिवा ॥ ४॥ स्रुचिका मधुमन्मान्या त्रिवर्गफलदायिनी । त्रेता त्रिलोचना दुर्गा दुर्गमा दुर्गतिर्गतिः ॥ ५॥ पूता प्लुतिर्विमर्शा च सृष्टिकर्त्री सुखावहा । सुखदा सर्वमध्यस्था लोकमाता महेश्वरी ॥ ६॥ लोकेष्टा वरदा स्तुत्या स्तुतिर्द्रुतगतिर्नुतिः । नयदा नयनेत्रा च नवग्रहनिषेविता ॥ ७॥ अम्बा वरूथिनी वीरजननी वीरसुन्दरी । वीरसूर्वारुणी वार्ता वराऽभयकरा वधूः ॥ ८॥ वानीरतलगा वाम्या वामाचारफलप्रदा । वीरा शौर्यकरी शान्ता शार्दूलत्वक् च शर्वरी ॥ ९॥ शलभी शास्त्रमर्यादा शिवदा शम्बरान्तका । शम्बरारिप्रिया शम्भुकान्ता शशिनिभानना ॥ १०॥ शस्त्रायुधधरा शान्तिर्ज्योतिर्दीप्तिर्जगत्प्रिया । जगती जित्वरा जारी मार्जारी पशुपालिनी (१००) ॥ ११॥ मेरुमध्यगता मैत्री मुसलायुधधारिणी । मान्या मन्त्रेष्टदा माध्वी माध्वीरसविघूर्णिता ॥ १२॥ मोदकाहारमत्ता च मत्तमातङ्गगामिनी । महेश्वरप्रियोन्मत्ता दार्वी दैत्यविमर्दिनी ॥ १३॥ var महेश्वरप्रियोन्नत्ता देवेष्टा साधकेष्टा च साध्वी सर्वत्रगाऽसमा । सन्तानकतरुश्छायासन्तुष्टाऽध्वश्रमापहा ॥ १४॥ शारदा शरदब्जाक्षी वरदाब्जनिभानना । var वरदाऽब्जनिभानना नम्राङ्गी कर्कशाङ्गी च वज्राङ्गी वज्रधारिणी ॥ १५॥ वज्रेष्टा वज्रकङ्काला वानरीं वायुवेगिनी । वराकी कुलका काम्या कुलेष्टा कुलकामिनी ॥ १६॥ कुन्ता कामेश्वरी क्रूरा कुल्या कामान्तकारिणी । कुन्ती कुन्तधरा कुब्जा कष्टहा वगलामुखी ॥ १७॥ मृडानी मधुरा मूका प्रमत्ता बैन्दवेश्वरी । कुमारी कुलजाऽकामा कूवरी नडकूबरी ॥ १८॥ var कूबरी नगेश्वरी नगावासा नगपुत्री नगारिहा । नागकन्या कुहूः कुण्ठी करुणा कृपयान्विता ॥ १९॥ ककारवर्णरूपाढ्या ह्रीर्लञ्जा श्रीः शुभाशुभा । खेचरी खगपत्री च खगनेत्रा खगेश्वरी ॥ २०॥ खाता खनित्री खस्था च जप्या जाप्याऽजरा धुतिः । जगती जन्मदा जम्भी जम्बुवृक्षतलस्थिता ॥ २१॥ जाम्बूनदप्रिया सत्या सात्त्विकी सत्त्ववर्जिताम् । सर्वमाता समालोका लोकाख्यातिर्लयात्मिका ॥ २२॥ var लोका ख्यातिर्लयात्मिका लूता लता रतिर्लज्जा वाजिगा (२००) वारुणी वशा । var लतारतिर्लज्जा कुटिला कुत्सिता ब्राह्मी ब्रह्मणि । ब्रह्मदायिनी ॥ २३॥ व्रतेष्टा वाजिनी वस्तिर्वामनेत्रा वशङ्करी । शङ्करी शङ्करेष्टा च शशाङ्ककृतशेखरा ॥ २४॥ कुम्भेश्वरी कुरुघ्नी च पाण्डवेष्टा परात्परा । महिषासुरसंहर्त्री माननीया मनुप्रिया ॥ २५॥ दषिणा दक्षजा दक्षा द्राक्षा दूती द्युतिर्धरा । धर्मदा धर्मराजेष्टा धर्मस्था धर्मपालिनी ॥ २६॥ धनदा धनिका धर्म्या पताका पार्वती प्रजा । प्रजावती पुरी प्रज्ञा पूः पुत्री पत्रिवाहिनी ॥ २७॥ पत्रिहस्ता च मातङ्गी पत्रिका च पतिव्रता । पुष्टिः प्लक्षा श्मशानस्था देवी धनदसेविता ॥ २८॥ दयावती दया दूरा दूता निकटवासिनी । नर्मदाऽनर्मदा नन्दा नाकिनी नाकसेविता ॥ २९॥ नासा सङ्क्रान्तिरीड्या च भैरवी च्छिन्नमस्तका । श्यामा श्यामाम्बरा पीता पीतवस्त्रा कलावती ॥ ३०॥ कौतुकी कौतुकाचारा कुलधर्मप्रकाशिनी । शाम्भवी गारुडी विद्या गरुडासनसंस्थिता ॥ ३१॥ var गारुडीविद्या विनता वैनतेयेष्टा वैष्णवी विष्णुपूजिता । वार्तादा वालुका वेत्री वेत्रहस्ता वराङ्गना ॥ ३२॥ विवेकलोचना विज्ञा विशाला विमला ह्यजा । विवेका प्रचुरा लुप्ता नौर्नारायणपूजिता ॥ ३३॥ नारायणी (३००) च सुमुखी दुर्जया दुःखहारिणी । दौर्भाग्यहा दुराचारा दुष्टहन्त्री च द्वेषिणी ॥ ३४॥ वाङ्मयी भारती भाषा मषी लेखकपूजिता । लेखपत्री च लोलाक्षी लास्या हास्या प्रियङ्करी ॥ ३५॥ प्रेमदा प्रणयज्ञा च प्रमाणा प्रत्ययाङ्किता । वाराही कुब्जिका कारा काराबन्धनमोक्षदा ॥ ३६॥ उग्रा चोग्रतरोग्रेष्टा नृमान्या नरसिंहिका । नरनारायणस्तुत्या नरवाहनपूजिता ॥ ३७॥ नृमुण्डा नूपुराढ्या च नृमाता त्रिपुरेश्वरी । दिव्यायुधोग्रतारा च त्र्यक्षा त्रिपुरमालिनी ॥ ३८॥ त्रिनेत्रा कोटराक्षी च षट्चक्रस्था क्रीमीश्वरी । क्रिमिहा क्रिमियोनिश्च कला चन्द्रकला चमूः ॥ ३९॥ चमाम्बग च चार्वङ्गी चञ्चलाक्षी च भद्रदा । भद्रकाली सुभद्रा च भद्राङ्गी प्रेतवाहिनी ॥ ४०॥ सुषमा स्त्रीप्रिया कान्ता कामिनी कुटिलालका । कुशब्दा कुगतिर्मेधा मध्यमाङ्का च काश्यपी ॥ ४१॥ दक्षिणाकालिका काली कालभैरवपूजिता । क्लीङ्कारी कुमतिर्वाणी बाणासुरनिसूदिनी ॥ ४२॥ निर्ममा निर्ममेष्टा च निरयोनिर्निराश्रया । var निरर्योनिर्निराश्रया निर्विकारा निरीहा च निलया नृपपुत्रिणी ॥ ४३॥ नृपसेव्या विरिञ्चीष्टा विशिष्टा विश्वमातृका । मातृकाऽर्णविलिप्ताङ्गी मधुस्त्राता मधुद्रवा ॥ ४४॥ शुक्रेष्टा शुक्रसन्तुष्टा शुक्रस्नाता कृशोदरी । वृषा वृष्टिरनावृष्टिर्लभ्या लोभविवर्जिता ॥ ४५॥ अब्धिश्च (४००) ललना लक्ष्या लक्ष्मी रामा रमा रतिः । रेवा रम्भोर्वशी वश्या वासुकिप्रियकारिणी ॥ ४६॥ शेषा शेषरता श्रेष्ठा शेषशायिनमस्कृता । शय्या शर्वप्रिया शस्ता प्रशस्ता शम्भुसेविता ॥ ४७॥ आशुशुक्षणिनेत्रा च क्षणदा क्षणसेविता । क्षुरिका कर्णिका सत्या सचराचररूपिणी ॥ ४८॥ चरित्री च धरित्री च दितिर्दैत्येन्द्रपूजिता । गुणिनी गुणरूपा च त्रिगुणा निर्गुणा घृणा ॥ ४९॥ घोषा गजाननेष्टा च गजाकारा गुणिप्रिया । गीता गीतप्रिया तथ्या पथ्या त्रिपुरसुन्दरी ॥ ५०॥ पीनस्तनी च रमणी रमणीष्टा च मैथुनी । पद्मा पद्मधरा वत्सा धेनुर्मेरुधरा मघा ॥ ५१॥ मालती मधुरालापा मातृजा मालिनी तथा । वैश्वानरप्रिया वैद्या चिकित्सा वैद्यपूजिता ॥ ५२॥ वेदिका वारपुत्री च वयस्या वाग्भवी प्रसूः । क्रीता पद्मासना सिद्धा सिद्धलक्ष्मीः सरस्वती ॥ ५३॥ सत्त्वश्रेष्ठा सत्त्वसंस्था सामान्या सामवायिका । साधकेष्टा च सत्पत्नी सत्पुत्री सत्कुलाश्रया ॥ ५४॥ समदा प्रमदा श्रान्ता परलोकगतिः शिवा । घोररूपा घोररावा मुक्तकेशी च मुक्तिदा ॥ ५५॥ मोक्षदा बलदा पुष्टिर्मुक्तिर्बलिप्रियाऽभया । तिलप्रसूननासा च प्रसूना कुलशीर्षिणी ॥ ५६॥ परद्रोहकरी (५००) पान्था पारावारसुता भगा । भर्गप्रिया भर्गशिखा हेला हैमवतीश्वरी ॥ ५७॥ हेरुकेष्टा वटुस्था च वटुमाता वटेश्वरी । नटिनी त्रोटिनी त्राता स्वसा सारवती सभा ॥ ५८॥ सौभाग्या भाग्यदा भाग्या भोगदा भूः प्रभावती । चन्द्रिका कालहत्रीं च ज्योत्स्नोल्काऽशनिराह्निका ॥ ५९॥ ऐहिकी चौष्मिकी चोष्मा ग्रीष्मांशुद्युतिरूपिणी । ग्रीवा ग्रीष्मानना गव्या कैलासाचलवासिनी ॥ ६०॥ मल्ली मार्तण्डरूपा च मानहर्त्री मनोरमा । मानिनी मानकर्त्री च मानसी तापसी तुटिः ॥ ६१॥ var त्रुटिः पयःस्था तु परब्रह्मस्तुता स्तोत्रप्रिया तनुः । तन्वी तनुतरा सूक्ष्मा स्थूला शूरप्रियाऽधमा ॥ ६२॥ उत्तमा मणिभूषाढ्या मणिमण्डपसंस्थिता । माषा तीक्ष्णा त्रपा चिन्ता मण्डिका चर्चिका चला ॥ ६३॥ चण्डी चुल्ली चमत्कारकर्त्री हर्त्री हरीश्वरी । हरिसेव्या कपिश्रेष्ठा चर्चिता चारुरूपिणी ॥ ६४॥ चण्डीश्वरी चण्डरूपा मुण्डहस्ता मनोगतिः । पोता पूता पवित्रा च मज्जा मेध्या सुगन्धिनी ॥ ६५॥ सुगन्धा पुष्पिणी पुष्पा प्रेरिता पवनेश्वरी । प्रीता क्रोधाकुला न्यस्ता न्यक्कारा सुरवाहिनी ॥ ६६॥ स्रोतस्वती मधुमती देवमाता सुधाम्बरा (६००) । मत्स्या मत्स्येन्द्रपीठस्था वीरपाना मदातुरा ॥ ६७॥ var भत्स्या पृथिवी तैजसी तृप्तिर्मूलाधारा प्रभा पृथुः । नागपाशधराऽनन्ता पाशहस्ता प्रबोधिनी ॥ ६८॥ var नागपाशधरानन्ता प्रसादना कलिङ्गाख्या मदनाशा मधुद्रवा । मधुवीरा मदान्धा च पावनी वेदना स्मृतिः ॥ ६९॥ बोधिका बोधिनी पूषा काशी वाराणसी गया । कौशी चोज्जयिनी धारा काश्मीरी कुङ्कुमाकुला ॥ ७०॥ भूमिः सिन्धुः प्रभासा च गङ्गा गोरी शुभाश्रया । नानाविद्यामयी वेत्रवती गोदावरी गदा ॥ ७१॥ गदहर्त्री गजारूढा इन्द्राणी कुलकौलिनी । कुलाचारा कुरूपा च सुरूपा रूपवर्जिता ॥ ७२॥ चन्द्रभागा च यमुना यामी यमक्षयङ्करी । काम्भोजी सरयूश्चित्रा वितस्तैरावती झषा ॥ ७३॥ चषिका पथिका तन्त्री वीणा वेणुः प्रियंवदा । कुण्डलिनी निर्विकल्पा गायत्री नरकान्तका ॥ ७४॥ कृष्णा सरस्वती तापी पयोर्णा शतरुद्रिका । कावेरी शतपत्राभा शतबाहुः शतह्रदा ॥ ७५॥ रेवती रोहिणी क्षिप्या क्षीरपा क्षोणी क्षमा क्षया । var क्षिप्रा क्षान्तिर्भ्रान्तिर्गुरुर्गुवी गरिष्ठा गोकुला नदी ॥ ७६॥ नादिनी कृषिणी कृष्या सत्कुटी भूमिका (७००) भ्रमा । विभ्राजमाना तीर्थ्या च तीर्था तीर्थफलप्रदा ॥ ७७॥ तरुणी तामसी पाशा विपाशा प्राशधारिणी । पशूपहारसन्तुष्टा कुक्कुटी हंसवाहना ॥ ७८॥ मधुरा विपुलाऽकाङ्क्षा वेदकाण्डी विचित्रिणी । स्वप्नावती सरित् सीताधारिणी मत्सरी च मुत् ॥ ७९॥ शतद्रूर्भारती कद्रूरनन्तानन्तशाखिनी । var कद्रूरनन्ताऽनन्तशाखिनी वेदना वासवी वेश्या पूतना पुष्पहासिनी ॥ ८०॥ त्रिशक्तिः शक्तिरूपा चाक्षरमाता क्षुरी क्षुधा । मन्दा मन्दाकिनी मुद्रा भूता भूतपतिप्रिया ॥ ८१॥ भूतेष्टा पञ्चभूतघ्नी स्वक्षा कोमलहासिनी । वासिनी कुहिका लम्भा लम्बकेशी सुकेशिनी ॥ ८२॥ ऊर्ध्वकेशी विशालाक्षी घोरा पुण्यपतिप्रिया । पांसुला पात्रहस्ता च खर्परी खर्परायुधा ॥ ८३॥ केकरी काकिनी कुम्भी सुफला केकराकृतिः । विफला विजया श्रीदा श्रीदसेव्या शुभङ्करी ॥ ८४॥ शैत्या शीतालया शीधुपात्रहस्ता कृपावती । कारुण्या विश्वसारा च करुणा कृपणा कृपा ॥ ८४॥ प्रज्ञा ज्ञाना च षड्वर्गा षडास्या षण्मुखप्रिया । क्रौञ्ची क्रौञ्चाद्रिनिलया दान्ता दारिद्र्यनाशिनी ॥ ८६॥ शाला चाभासुरा साध्या साधनीया च सामगा । सप्तस्वरा सप्तधरा सप्तसप्तिविलोचना ॥ ८७॥ स्थितिः क्षेमङ्करी स्वाहा वाचाली (८००) विविषाम्बरा । कलकण्ठी घोषधरा सुग्रीवा कन्धरा रुचिः ॥ ८८॥ शुचिस्मिता समुद्रेष्टा शशिनी वशिनी सुदृक् । सर्वज्ञा सर्वदा शारी सुनासा सुरकन्यका ॥ ८९॥ सेना सेनासुता श‍ृङ्गी श‍ृङ्गिणी हाटकेश्वरी । होटिका हारिणी लिङ्गा भगलिङ्गस्वरूपिणी ॥ ९०॥ भगमाता च लिङ्गाख्या लिङ्गप्रीतिः कलिङ्गजा । कुमारी युवती प्रौढा नवोढा प्रौढरूपिर्णा ॥ ९१॥ रम्या रजोवती रज्जु रजोली राजसी घटी । कैवर्ती राक्षसी रात्री रात्रिञ्चरक्षयङ्करी ॥ ९२॥ महोग्रा मुदिता भिल्ली भल्लहस्ता भयङ्करी । तिलाभा दारिका द्वाःस्था द्वारिका मध्यदेशगा ॥ ९३॥ चित्रलेखा वसुमती सुन्दराङ्गी वसुन्धरा । देवता पर्वतस्था च परभूः परमाकृतिः ॥ ९४॥ परमूतिर्मुण्डमाला नागयज्ञोपवीतिनी । श्मशानकालिका श्मश्रुः प्रलयात्मा प्रलोपिनी ॥ ९५॥ प्रस्थस्था प्रस्थिनी प्रस्था धूम्रार्चिर्धूम्ररूपिणी । धूम्राङ्गी धूम्रकेशा च कपिला कालनाशिनी ॥ ९६॥ कङ्काली कालरूपा च कालमाता मलिम्लुची । शर्वाणी रुद्रपत्नी च रौद्री रुद्रस्वरूपिणी ॥ ९७॥ सन्ध्या त्रिसन्ध्या सम्पूज्या सर्वैश्वर्यप्रदायिनी । कुलजा सत्यलोकेशा सत्यवाक् सत्यवादिनी ॥ ३८॥ सत्यस्वरा सत्यमयी हरिद्वारा हरिन्मयी । हरिद्रतन्मयी राशि (९००) र्ग्रहतारातिथितनुः ॥ ९९॥ तुम्बुरुस्त्रुटिका त्रोटी भुवनेशी भयापहा । राज्ञी राज्यप्रदा योग्या योगिनी भुवनेश्वरी ॥ १००॥ तुरी तारा महालक्ष्मीर्भीडा भार्गी भयानका । कालरात्रिर्महारात्रिर्महाविद्या शिवालया ॥ १०१॥ शिवासङ्गा शिवस्था च समाधिरग्निवाहना । अग्नीश्वरी महाव्याप्तिर्बलाका बालरूपिणी ॥ १०२॥ var महीव्याप्ति बटुकेशी विलासा च सदसत्पुरभैरवी । विघ्नहा खलहा गाथा कथा कन्था शुभाम्बरा ॥ १०३॥ क्रतुहा ॠतुजा क्रान्ता माधवी चामरावती । अरुणाक्षी विशालाक्षी पुण्यशीला विलासिनी ॥ १०४॥ सुमाता स्कन्दमाता च कृत्तिका भरणी बलिः । जिनेश्वरी सुकुशला गोपी गोपतिपूजिता ॥ १०५॥ गुप्ता गोप्यतरा ख्याता प्रकटा गोपितात्मिका । कुलाम्नायवती कीला पूर्णा स्वर्णाङ्गदोत्सुका ॥ १०६॥ उत्कण्ठा कलकण्ठी च रक्तपा पानपाऽमला । सम्पूर्णचन्द्रवदना यशोदा च यशस्विनी ॥ १०७॥ आनन्दा सुन्दरी सर्वानन्दा नन्दात्मजा लया । विद्युत् खद्योतरूपा च सादरा जविका जविः ॥ १०८॥ var जीवका जननी जनहर्त्री च खर्परा खञ्जनेक्षणा । जीर्णा जीमूतलक्ष्या च जटिनी जयवर्धिनी ॥ १०९॥ जलस्था च जयन्ती च जम्भारिवरदा तथा । सहस्रनामसम्पूर्णा देवी ज्वालामुखी स्मृता (१०००) ॥ ११०॥ इति नाम्नां सहस्रं तु ज्वालामुख्याः शिवोदितम् । चतुर्वर्गप्रदं नित्यं बीजत्रयप्रकाशितम् ॥ १११॥ मोक्षैकहेतुमतुलं भुक्तिमुक्तिप्रदं नृणाम् । स्तुत्यं च साधनीयं च सर्वस्वं सारमुत्तमम् ॥ ११२॥ महामन्त्रमयं विद्यामयं विद्याप्रदं परम् । परब्रह्मस्वरूपं च साक्षादमृतरूपणम् ॥ ११३॥ अद्वैतरूपणं नाम्नां सहस्रं भैरवोदितम् । यः पठेत् पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥ ११४॥ भक्त्या युतो महादेवि स भवेद्भैरवोपमः । शिवरात्र्यां च सङ्क्रान्तौ ग्रहणे जन्मवासरे ॥ ११५॥ भैरवस्य बलिं दत्त्वा मूलमन्त्रेण मान्त्रिकः । पठेन्नामसहस्रं च ज्वालामुख्याः सुदुर्लभम् ॥ ११६॥ अनन्तफलदं गोप्यं त्रिसन्ध्यं यः पठेत् सुधीः । अणिमादिविभूतीनामीयरो धार्मिको भवेत् ॥ ११७॥ अर्धरात्रे समुत्थाय शून्यगेहे पठेदिदम् । नाम्नां सहस्रकं दिव्यं त्रिवारं साधकोत्तमः ॥ ११८॥ कर्मणा मनसा वाचा ज्वालामुख्याः सुतो भवेत् । मध्याह्ने प्रत्यहं गत्वा प्रेतभूमि विधानवित् ॥ ११९॥ नरमांसवलिं दत्त्वा पठेत् सहस्रनामकम् । दिव्यदेहधरो भूत्वा विचरेद्भुवनत्रयम् ॥ १२०॥ शनिवारे कुजेऽष्टम्यां पठेन्नामसहस्रकम् । दत्त्वा क्षीरबलिं तस्यै करस्थाः सर्वसिद्धयः ॥ १२१॥ विना नैवेद्यमात्रेण न रक्ष्यं साधकोत्तमैः । कुजवारे सदा देवि दत्त्वाऽऽसवबलिं नरः ॥ १२२॥ var दत्त्वासवबलिं पठेत् साधक एवाशु लभेद् दर्शनमुत्तमम् । शनिवारे सदा विद्यां जप्त्वा दत्त्वा बलिं प्रिये ॥ १२३॥ कपोतस्य महेशानि पठेन्नामसहस्रकम् । तद्गृहे वर्धते लक्ष्मीर्गोकर्णमिव नित्यशः ॥ १२४॥ शतावर्तं चरेद्रात्रौ साधको दर्शनं लभेत् । वन्ध्या वा काकवन्ध्या वा कुङ्कुमेन लिखेदिदम् ॥ १२५॥ स्वस्तन्येन च शुक्रेण भूर्जे नामसहस्रकम् । गले वा वामबाहौ वा धारयेत् प्रत्यहं प्रिये ॥ १२६॥ वन्ध्याऽपि लभते पुत्रात्र्शूरान् विद्याधरोपमान् । var वन्ध्यापि इदं धृत्वा सव्यबाहौ गत्वा रणधरां प्रति ॥ १२७॥ निर्जित्य शत्रुसङ्घातान् सुखी याति स्वकं गृहम् । वारत्रयं पठेन्नित्यं शत्रुनाशाय पार्वति ॥ १२८॥ बारद्वयं पठेल्लक्ष्म्यै मुक्त्यै तु शतधा पठेत् । वश्यार्थे दशधा नित्यं मारणार्थे च विंशतिम् ॥ १२९॥ स्तम्भनार्थे पठेन्नित्यं सप्तधा मान्त्रिकोत्तमः । भूम्यर्थे त्रिंशतिं देवि पठेन्नामसहस्रकम् ॥ १३०॥ प्रत्यहमेकवारं तु मृतो मोक्षमवाप्नुयात् । अप्रकाश्यमदातव्यमवक्तव्यमभक्तिषु ॥ १३१॥ अशाक्तायाकुलीनाय कुपुत्राय दुरात्मने । गुरुभक्तिविहीनाय दीक्षाहीनाय पार्वति ॥ १३२॥ दत्त्वा कुष्ठी भवेल्लोके परत्र नरकं व्रजेत् । श्रद्धायुक्ताय भक्ताय साधकाय महात्मने । साचाराय सुशीलाय दत्त्वा मोक्षमवाप्नुयात् ॥ १३३॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीज्वालामुखीसहस्रनामस्तोत्रं समाप्तम् ॥