अक्षर आकार:

त्रिपुरारहस्योक्तं ज्ञानकलिकास्तोत्रं

Jnanakalikastotram from Tripurarahasya

त्रिपुरारहस्योक्तं ज्ञानकलिकास्तोत्रं

शिवे देवि सम्वित्सुधासागराऽऽत्म- स्वरूपाऽसि सर्वान्तराऽऽत्मैकरूपा । न किञ्चिद् विना त्वत्कलामस्ति लोके ततः सत्स्वरूपाऽसि सत्येऽप्यसत्ये ॥ १॥ असत्यं पुनः सत्यमन्ये द्विरूपं द्वयातीतमेके जगुः सर्वमेतत् । न ते तां विदुर्मायया मोहितास्ते चिदानन्दरूपा त्वमेवाऽसि सर्वम् ॥ २॥ क्षणानां क्रमैभिन्नरूपां धराद्यौ- र्मितामाहुरेके तमोमात्ररूपाम् । तमोदीप्तिसम्भिन्नरूपाञ्च शान्त- स्वरूपां महेशी विदुस्त्वां न तेऽज्ञाः ॥ ३॥ शिवादिक्षितिप्रान्ततत्त्वावलिर्या विचित्रा यदीये शरीरे विभाति । पटे चित्रकल्पा जले सेन्दुतारा नभोवत्परा सा त्वमेवाऽसि सर्वा ॥ ४॥ अभिन्नं विभिन्नं बहिर्वाऽन्तरे वा विभाति प्रकाशस्तमो वाऽपि सर्वम् । ऋते त्वां चितिं येन नो भाति किञ्चित् ततस्त्वं समस्तं न किञ्चित्वदन्यत् ॥ ५॥ निरुध्याऽन्तरङ्गं विलाप्याऽक्षसङ्घं परित्यज्य सर्वत्र कामादिभावम् । स्थितानां महायोगिनां चित्तभूमौ चिदानन्दरूपा त्वमेका विभासि ॥ ६॥ तथाऽन्ये मनः सेन्द्रियं सञ्चरच्चा- ऽप्यसंयम्यतन्मार्गकेजागरूकाः । स्वसम्वित्सुधाऽऽदर्शदेहे स्फुरन्तं महायोगिनाथाः प्रपश्यन्ति सर्वम् ॥ ७॥ निरुक्ते महासारमार्गेऽतिसूक्ष्मे गतिं ये न विन्दन्ति मूढस्वभावाः । जनान् तान् समुद्धर्तुमक्षावगम्यं बहिः स्थूलरूपं विभिन्नं विभर्षि ॥ ८॥ तदाराधनेऽनेकमार्गान् विचित्रान् विधायाऽथ मार्गेण केनापि यान्तम् । नदीवारि सिन्धुर्यथा स्वीकरोति प्रदाय स्वभावं नु स्वात्मीकरोषि ॥ ९॥ तथातासुमूर्तिष्वनेकासु मुख्या धनुर्बाणपाशाङ्कशाढ्यैवमूर्तिः । शरीरेषु मूर्धेव ये तां भजेयु- र्जनास्त्रैपुरीं मूर्तिमत्युत्तमास्ते ॥ १०॥ जनान् दुःखसिन्धोः समुद्धर्तुकामा पथस्ताननेकान् प्रदिश्य प्रकृष्टान् । दयार्द्रस्वभावेति विख्यातकीर्ति स्त्वमेकैव पूज्या पराशक्तिरूपा ॥ ११॥ सदा ते पदाब्जे मनःषट्पदो मे पिबंस्तद्रसन्निर्वृतःसंस्थितोऽस्तु । इति प्रार्थनां मे निशम्याऽऽशु मात- र्विधेहि स्वदृष्टिं दयार्द्रामपीषत् ॥ १२॥ इति संस्तुत्य सा गौरी त्रिपुरां परमेश्वरीम् । स्तोत्रेण ज्ञानकलिकाख्येन ध्यानं समास्थिता ॥ १३॥ इति ज्ञानकलिकास्तोत्रं सम्पूर्णम् ।