अक्षर आकार:

श्रीजिनवाक्स्तुतिः

shrIjinavAkstutiH

श्रीजिनवाक्स्तुतिः

श्रीमदर्हद्वाण्यै नमः । सर्वज्ञवाणी जयतात्सर्वभाषामयी शुभा । पञ्चत्रिंशद्रुणोपेता मनुपूर्वस्वरूपिणी ॥ १॥ दयामय्यमृतमयी वाग्देवी श्रुतदेवता । संसृष्टिविगमभ्रौव्यदर्शिका भुवनेश्वरी ॥ २॥ ब्रह्मबीजध्वनिमयी श्रीमती वागभवात्मिका । ज्ञानदर्शनचारित्ररत्नत्रितययदायिका ॥ ३॥ अर्हद्वकक्त्राब्जसम्भूता भव्यकैरवचन्दिका ! नयप्रमाणगम्भीरा नवतत्वमान्विता ॥ ४॥ वाग्वादिनी भगवत्ती कुमतिध्वंसकारिणी । स्याद्वादिहृदयाम्भोजस्थायिनी मातृकामयी ॥ ५॥ नित्या सरस्वती सत्या ज्योतीरूपा जगद्धिता ! वागीश्वरी सिद्धिदात्री सिद्धबीजमयी परा ॥ ६॥ परमैश्वर्यसहिता गणभृद्गुम्फिता श्रुते । सिद्धान्तार्थप्रदाऽचिन्त्याऽनन्तशक्तिश्र सारदा ॥ ७॥ स्याद्वादवादिनी श्रेष्ठा तारिणी भववारिधेः । या हृज्जाड्यान्धक्यरस्य हरणे तरणिप्रभा ॥ ८॥ (अष्टभिः कुलकम् ॥) सा मद्वक्त्रे निवसताज्ज्ञानानन्दप्रदायिनी । नमस्या मामकी तस्यै बोभवीतु मुहुर्मुहुः ॥ ९॥ ॥ इति श्रीजिनवाक्स्तुतिः समाप्ता ॥ श्री प्रवचनदेव्यै नमः । णमो बम्भीए लिवीए । णमो सुयदेवयाए भगवईए । णमो सुयस्स भगवओ । श्री ज्योतिर्मायाभ्यां नमः । स्वामिनि ! शासनदेवते ! मत्सान्निध्यं विधेहि विश्वेशी । प्रवचनबोधो भगवति ! दयया भक्ताय दातव्यः ॥ १॥ श्रीमदर्हन्मातृकाभ्यो नमः ॥ श्री जिनशासनदेवताभ्यो नमः ॥ श्री प्रवचनमातृभ्यो नमः ।