अक्षर आकार:

श्रीशारदास्तवनम्

Shri ShArada Stavanam

श्रीशारदास्तवनम्

जय शारदे वागीश्वरि विधिकन्यके विद्याधरि ॥ ध्रू०॥ ज्योत्स्नेव ते कान्तिस्तथा शरदिन्दुरिव रम्यं मुखम् हासेन ते च हि उज्वला भान्ती चतुर्युगपूर्णिमा भव मस्तके नः सर्वदा ज्योत्स्नाकृपावर्षाकरी ॥ १॥ वीणां यदा हि कलामयी स्पृशतीह ते चतुराङ्गुली गीतं नवीनं जायते जाड्यं मतेरपि भज्यते उन्मेषिते कल्पद्रुमे त्वं मञ्जरीपुष्पम्भरी ॥ २॥ त्वामाश्रिता विद्याकलाः शास्त्र तथा च हि संस्कृतिः साध्रोषि ते संस्पर्शनाद् हे देवते रुचिराकृतीः लावण्यमपि ते भासते विश्वे विशेष भास्करि ॥ ३॥ मूलं मराठीगीतम् - जय शारदे वागीश्वरि कवयित्री - शान्ता शेळके सङ्गीतकारः - श्रीधर फडके संस्कृतानुवादकः - राजेन्द्र दातार, बदलापूर दूरभाषाङ्कः - ९४२१६२६८१४ गायिका - सरिता भावे