अक्षर आकार:

जगन्मङ्गलास्तोत्रम्

jaganma~NgalAstotram

जगन्मङ्गलास्तोत्रम्

वीणावादनतत्पराङ्गुलि नदल्लोलाञ्चितैः किङ्किणी- जालैः शोभितकङ्कणे शशिमुखे बालेन्दुचूडामणे । हेलाराजितचारुनेत्रयुगले ग्रैवेयशोभाञ्चिते बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ १॥ कुक्षौ ते बहुजीवलोकसमितेः कोचिं चिरं बिभ्रती कल्पादौ त्रिपुरे सृजस्यवसि तान् सर्वास्ववस्थास्वहो । अन्ते तानखिलान्विनाशयसि सर्वं भो विलासस्तव बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ २॥ लोके नीरधराग्निवायुगगनाः सर्वे भवल्लीलया मातः सञ्चलिता हि तारकगणाः सूर्यादिसर्वे ग्रहाः । सर्वं खल्विह ते स्वरूपमपि च त्वं चोदयित्री सदा बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ३॥ मायामेयविकासमात्रविभवा मातस्तवेयं कृति- र्गेया सर्वगुणान्विता च बहुधा मेयापि वेद्या नहि । ध्येया ज्ञानविशारदैश्च विविधैः शास्त्रैर्विलोक्यापि वै बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ४॥ नेत्रैः श्वेतविनीलशोणरुचिभिः पूर्णानुकम्पान्वितैः पापानां मम भञ्जनाय गिरिजे पूरत्रयाणामिव । तीर्थानामुपसङ्गमस्य नयसीत्येतद्ध्रुवं मां तथा बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ५॥ मातस्ते दरलोलशीतविमलैर्नेत्रैः शिवे पश्य मां दुःखात्यन्तविपाकदीनवदनं शीघ्रं दयार्द्रैर्यतः । ग्रामे वा विपिनेऽपि वा हिमकरो ज्योत्स्नानिपातैः समं बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ६॥ वेदानां शिखराणि पादयुगली धत्ते तवाम्बान्वहं पाद्यं तद्धरमौलिजूटतटिनीलाक्षाङ्कितो रागिमा । श्रीविष्णोर्हि किरीटरत्नसुषमा यस्यास्तु वन्देतरां बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ७॥ या शम्भोश्चरितामृतेन चलिता रोषा च गङ्गाहृदे या सख्यां परमादरा शिवगले या सङ्गता सर्वदा । दृष्ट्या ते शशिशीतया च दिशती सन्मङ्गलं सन्ततं बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ८॥ वाग्देवीं चतुराननस्य गृहिणीमाहुर्विधिज्ञा नराः श्रीविष्णोर्गृहिणीं सुधाब्धितनयां श्रीकण्ठपत्नीमुमाम् । मातः का भवती विलासचतुरा माया परा देवता बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ९॥ इति श्रीजगन्मङ्गलास्तोत्रं सम्पूर्णम् ॥