अक्षर आकार:

श्रीजगद्धात्रीस्तोत्रम्

Shri Jagaddhatri Stotram

श्रीजगद्धात्रीस्तोत्रम्

आधाररूपे चाधेये धृतिरूपे धुरन्धरे । ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते ॥ १॥ शवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे । शक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥ २॥ जयदे जगदानदे जगदेकप्रपूजिते । जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ३॥ सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि । भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥ ४॥ कालाधिरूपे कालेशे कालाकालविभेदिनि । सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते ॥ ५॥ महाविघ्ने महोत्साहे महामाये वरप्रदे । प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते ॥ ६॥ आगम्ये जगतामाद्ये माहेश्वरि वराङ्गने । अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥ ७॥ तीर्थयज्ञा -तपोदान-य्योगसारे जगन्मयि । त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते ॥ ८॥ दयारूपे दयादृष्टे दयार्द्रे दुःखमोचनि । सर्वापत्तारिके दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ९॥ आगम्यधाम-धामस्थे महायोगीश-हृत्पुरे । अमेयभावकूटस्थे जगद्धात्रि नमोऽस्तु ते ॥ १०॥ इति श्रीजगद्धात्रीस्तोत्रं सम्पूर्णम् ।