अक्षर आकार:

श्रीजगदम्बास्तुतिः

Shri Jagadamba Stuti

श्रीजगदम्बास्तुतिः

ॐ नमः श्रीजगदम्बायै । ॐ विश्वेश्वरी निखिलदेव महर्षिपूज्या सिंहासना त्रिनयना भुजगोपवीता । शङ्खाम्बुजास्यऽमृतकुम्भक पञ्चशाखा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १॥ जन्माटवी प्रदहने दव-वह्नि-भूता तत्पाद पङ्कजरजोगत चेतसां या । श्रेयोवतां सुकृतिनां भवपाशभेत्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ २॥ देव्या यया दनुजराक्षसदुष्ट-चेतो न्यग्भावितं चरणनूपुरशिञ्जितेन । इन्द्रादिदेव हृदयं प्रविकासयन्ती राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ३॥ दुःखार्णवे हि पतितं शरणागतं या चोद्धृ त्य सा नयति धाम परं दयाब्धिः । विष्णुगजेन्द्रमिव भीतभयापहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ४॥ यस्या विचित्रमखिलं हि जगत्प्रपञ्चं कुक्षो विलीनमपि सृष्टिविसृष्टिरूपात् । आविर्भवत्यविरतं चिदचित्स्वभावं राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ५॥ यत्पाद पंङ्कजरजः कणज प्रसादात् योगीश्वरैर्विगत कल्मषमानसैस्तत् । प्राप्त पदं जनिविनाशहरं परं सा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ६॥ यत्पादपङ्कज रजांसि मनोमलानि सम्मार्जयन्ति शिवविष्णु विरिञ्चिदेवैः । मृग्यान्यऽपश्चिमतनोः प्रणुतानि माता राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ७॥ यत्पाद चिन्तन दिवाकर रश्मिमाला चान्तर्बहिश्करणवर्ग सरोजषण्डम् । ज्ञानोदये सति विकास्य तमोपहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ८॥ यद दर्शनामृतनदी महदोघयुक्ता सम्प्लावयत्यखिल भेदगुहास्वऽनन्ता । तृष्णाहरा सुकृतिनां भवतापहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ९॥ हंसस्थिता सकलशब्दमयी भवानी वाग्वादिनी हृदय पुष्कर चारिणीया । हंसीव हंसरजनीश्वर वह्निनेत्रा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १०॥ या सोमसूर्यवपुषा सततं सरन्ती मूलाश्रयात्तडिदिवाऽऽविधरन्ध्रमीढया । मध्यस्थिता सकलनाडिसमूह पूर्णा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ११॥ चैतन्यपूरित समस्त जगद्-विचित्रा मातृप्रमेय परिमाणातया चकास्ति । या पूर्णवृत्यहमिति स्वपदाधिरूढा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १२॥ या चित्क्रमाक्रमतया प्रविभातिनित्या स्वातन्त्र्यश क्तिरमला गतभेदभावा । स्वात्मस्वरूप सुविमर्शपरैः सुगम्या राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १३॥ या कृत्यपञ्चक निभालन लालसैस्तैः सन्दृश्यते निखिलवेद्यगतापि शश्वत् । सान्तर्धृता परप्रमातृपदं विशन्ती राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १४॥ यानुत्तरात्मनि पदे परमाऽमृताब्धौ स्वातन्त्र्यशक्तिलहरीव बहिः सरन्ती । संलीयते वरसतः स्वपदे सभावा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १५॥ मेरोः सदैव हि दरीषुविचित्रवाग्भिः गायन्ति यां भगवती परिवादिनीभिः । विद्याधरा हि पुलकाङ्कित विग्रहाः सा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १६॥ राज्ञीं सदा भगवतीं मनसा स्मरामि राज्ञीं सदा भगवतीं वचसा गृणामि । राज्ञीं सदा भगवतीं शिरसा नमामि राज्ञीं सदा भगवतीं शरणं प्रदद्ये ॥ १७॥ राज्ञ्याः स्तोत्रमिन्द पुण्यं यः पठेद्भक्तिमान्नरः नित्यं देव्याः प्रसादेन शिवसायुज्यमाप्नुयात् ॥ १८॥ श्रीजगदम्बास्तुती-राजानक-विद्याधर-विरचिता शुभदा बोभूयात् इति शिवम् ॥ जय देहाद्रिकुञ्जान्तर्निकूजञ्जीव जीवक । जय सन्मानसव्योमविलासिवर सारस ॥