अक्षर आकार:

श्रीजगदम्बास्तुतिः २

Shri Jagadambastutih 2

श्रीजगदम्बास्तुतिः २

भज जगदम्बां भज जगदम्बां जगदम्बां भज मूढमते । प्राप्ते काले न हि न हि रक्षति वित्तं मित्रं पुत्रो जाया ॥ १॥ भज जगदम्बां भववाञ्छां त्यज कुरु गुरुसेवां विनयावनतः प्रतिदिनमपि भोः । भरताग्रजवद्भज पितृभक्तिं तर भवसागरमाशु सुबुद्धे ॥ २॥ भज जगदम्बां शमदमसाधनसम्पद्युक्तो नित्यानित्यविचारयुतश्च । विषयेष्वखिलेष्वाशारहितो भव मोक्षेच्छाभाजनमपि भोः ॥ ३॥ भज जगदम्बां श्रोत्रियमेनो८न्धविहीनं बहुदूरीकृतरागद्वेषम् । ब्रह्मणि निष्ठितहृदयाम्भोजं भज गुरुवर्यं करुणासिन्धुम् ॥ ४॥ भज जगदम्बां आसाद्येत्थं गुरुवरमेनं पृच्छ प्रश्नं विनमन्मूर्तिः । संसाराब्धिं दुस्तरमारा- द्गुरुवर्य कथं प्रतरेयमिति ॥ ५॥ भज जगदम्बां इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीजगदम्बास्तुतिः समाप्ता ।