अक्षर आकार:

श्रीजगदम्बा स्तुतिः

shrIjagadambA stutiH

श्रीजगदम्बा स्तुतिः

नमोऽस्तु ते भगवति पापनाशिनि नमोऽस्तु ते सुररिपुदर्पशातनि । नमोऽस्तु ते हरिहरराज्यदायिनि नमोऽस्तु ते मखभुजकार्यकारिणि ॥ १॥ नमोऽस्तु ते त्रिदशरिपुक्षयङ्करि नमोऽस्तु ते शतमखपादपूजिते । नमोऽस्तु ते महिषविनाशकारिणि नमोऽस्तु ते हरिहरभास्करस्तुते ॥ २॥ नमोऽस्तु तेऽष्टादशबाहुशालिनि नमोऽस्तु ते शुम्भनिशुम्भघातिनि । नमोऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमोऽस्तु नारायणि चक्रधारिणि ॥ ३॥ नमोऽस्तु वाराहि सदा धराधरे त्वां नारसिंहि प्रणता नमोऽस्तु ते । नमोऽस्तु ते वज्रधरे गजध्वजे नमोऽस्तु कौमारि मयूरवाहिनि ॥ ४॥ नमोऽस्तु पैतामहहंसवाहने नमोऽस्तु मालाविकटे सुकेशिनि । नमोऽस्तु ते रासभपृष्ठवाहिनि नमोऽस्तु सर्वार्तिहरे जगन्मये ॥ ५॥ नमोऽस्तु विश्वेश्वरि पाहि विश्वं निषूदयारीन् द्विजदेवतानाम् । नमोऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद ॥ ६॥ ब्रह्माणी त्वं मृडानी वरशिखि- गमना शक्तिहस्ता कुमारी वाराही त्वं सुवक्त्रा खगपति- गमना वैष्णवी त्वं सशार्ङ्गी ॥ ७॥ दुर्दृश्या नारसिंही घुरघुरि- तरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डा शवगमन- रता योगिनी योगसिद्धा । नमस्ते- त्रिनेत्रे भगवति तव चरणानुषिता ये अहरहर्विनतशिरसोऽवनताः नहि नहि परिभवमस्त्यशुभं च स्तुतिबलिकुसुमकराः सततं ये ॥ ८॥ इति जगदम्बा स्तुतिः समाप्ता ।