अक्षर आकार:

श्रीजानकीस्तवराजः

Shri Janaki Stavaraja

श्रीजानकीस्तवराजः

श्रीगणेशाय नमः ॥ अथ मङ्गलाचरणम् । ॐ वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १॥ ॐ सर्वरूपमयीदेवी सर्वं देवीमयं जगत् । अतोऽहं विश्वरूपं तां नमामि परमेश्वरीम् ॥ २॥ कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं नितम्बजितभूधरां सुरनितम्बिनीसेविताम् । नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ३॥ अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् । समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ४॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्तेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ५॥ मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे । अमृतेशाय शर्वाय महादेवाय ते नमः ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ ७॥ ॥ इति मङ्गलाचरणम् ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ अथ जानकीस्तवराजः । तां ध्याये स्तवराजेन प्रोक्तरूपां परात्पराम् । आह्लादिनीं हरेःकाञ्चिच्छक्तिं सात्वतसेविताम् ॥ १॥ श्रुतिरुवाच - कीदृशः स्तवराजोऽयं केन प्रोक्तः सुरेश्वर । कथ्यतां कृपया देव! जानकीरूपबोधकः ॥ २॥ श्रीसङ्कर्षण उवाच - ब्रवीमि स्तवराजं ते श्रीशिवेन प्रभाषितम् । श्रुतं श्रीवक्त्रतो दिव्यं पावनानां च पावनम् ॥ ३॥ चकाराराधनं तस्य मन्त्रराजेन भक्तितः । कदाचिच्छ्रीशिवोरूपं ज्ञातुमिच्छुर्हरेः परम् ॥ ४॥ दिव्यवर्षशतं वेदविधिना विधिवेदिना । जजाप परमं जाप्यं रहस्ये स्थितचेतसा ॥ ५॥ प्रसन्नोभूत्तदा देवः श्रीरामः करुणाकरः । मन्त्राराध्येन रूपेण भजनीयः सतां प्रभुः ॥ ६॥ श्रीराम उवाच - द्रष्टुमिच्छसि यद्रूपं मदीयं भावनास्पदम् । आह्लादिनीं परां शक्तिं स्तूयाः सात्वतसम्मताम् ॥ ७॥ तदाराध्यस्तदारामस्तदधीनस्तया विना । तिष्ठामि न क्षणां शम्भो ! जीवनं परमं मम ॥ ८॥ इत्युक्त्वा देवदेवेशो वशीकरणमात्मनः । पश्यतस्तस्य रूपं स्वमन्तर्धानं दधौ प्रभुः ॥ ९॥ श्रुत्वारूपं तदा शम्भुः तस्याः श्रीहरिवक्त्रतः । अचिन्तयत्समाधाय मनः कारणमात्मनः ॥ १०॥ अस्फुरत्कृपया तस्य रूपं तस्याः परात्परम् । दुर्निरीक्ष्यं दुराराध्यं सात्वतां हृदयङ्गमम् ॥ ११॥ आश्रयं सर्वलोकानां ध्येयं योगिविदां तथा । आराध्यं मुनिमुख्यानां सेव्यं संयमिनां सताम् ॥ १२॥ दृष्ट्वाश्चर्यमयं सर्व रूपं तस्याः सुरेश्वरःं तुष्टावजानकीं भक्त्या मूर्तिमतीं प्रभाविनीम् ॥ १३॥ स्तुति प्रारम्भः चरणारविन्द -- वन्दे विदेहतनयापदपुण्डरीकं कैशोरसौरभसमाहृतयोगिचित्तम् । हन्तुं त्रितापमनिशं मुनिहंससेव्यं सन्मानसालिपरिपीतपरागपुञ्जम् ॥ १४॥ चरणतल -- पादस्य यावकरसेन तलं सुरक्तं सौभाग्यभाजनमिदं हि परं जनानाम् । युक्तीकृतं सुभजतां तव देवि नित्यं दत्ताश्रयं सुमनसां मनसानुरागम् ॥ १५॥ अङ्गुली -- पादङ्गुलीनखरुचिस्तव देविरम्या योगीन्द्रवृन्दमनसा विशदा विभाव्या । त्रैताप क्लान्त्युपशमाय शशाङ्ककान्ति दोषेण किं समुपयाति तुलां युता सा ॥ १६॥ नूपुर -- मञ्जीर धीरनिनदं कलहंसकाली हासाय सा भवति भावयति त्वदीयम् । किञ्चायरं रसिकमौलिमनो नियन्तुं दृष्टं मया परमकौशलमत्र तस्य ॥ १७॥ गुल्फ -- सिद्धीशबुद्धिवररञ्जनगूढगुल्फौ पादारविन्दयुगलौ जनतापवर्गौ । विन्दन्ति ते त्रिभुवनेश्वरि! भावसिद्धिं ध्यायन्ति ये निखिल सौभगभानुभाजौ ॥ १८॥ श्रीचरण -- हेमाभिवर्द्धितविभूषणभूषितन्ते त्रैलोक्यतेज इव मञ्जुल-पुञ्जभूतम् । भावामि सुन्दरि पदं सरसीरुहाभं भीताभयप्रदमनन्तमनोभिध्येयम् ॥ १९॥ नितम्ब -- चक्राभहारिसुनितम्बयुगं भवत्यः ध्येयं सुधीभिरनिशं रसनाभिषक्तम् । ध्यानास्पदं रघुपतेर्मनसो मुनीनां भावैकगम्यममरेशनताङ्घ्रिपद्मे ॥ २०॥ कटि -- कौशेय वस्त्र परिणद्धमलङ्कृतं ते कार्तस्वराशनिमणि प्रवरप्रवेकैः । रत्नोत्तमै रसनया ग्रहकान्तिमद्भि- र्भास्वन्ति निर्मिततया स्वधियन्ति मध्यम् ॥ २१॥ उदर -- अश्वत्थपत्रनिभमम्ब धियोदरन्ते भव्यं भवाब्धितरिकेवलकालनाशे । भूयो न भावि जननीजठरेनिवास- स्तेषां मनो धरणिजेऽत्र सुलग्नमासीत् ॥ २२॥ नाभि -- नाभीहृदं हरिमनः करिणः कृशांशो पुष्टिप्रदं प्रचलितं त्रिवलीतरङ्गम् । राजीसुशैवलनिभं भ्रमिभूतरोम्णां शान्त्यै तव त्रितपतामतिभावयामः ॥ २३॥ वक्षोज -- नीलाभकञ्चुकमणीन्द्रसमूहनिष्कै- र्वक्षोजयुग्ममतितुङ्गमलङ्कृतन्ते । हारैर्मनोहरतरैस्तरुणि! क्षितीजे! सौन्दर्यवारिनिधिवारितरङ्गसङ्गम् ॥ २४॥ बाहु -- बाहूमृणालमदखण्डनपण्डितौ ते भीताभयप्रदवदान्यतमौ जनानाम् । रुक्माङ्गदाङ्कित-विटङ्कितमुद्रिकौ तौ हैरण्यकङ्कणधृतावलयौ भजामः ॥ २५॥ कण्ठ -- कण्ठं कपोत-तरुणीगलकान्तिमोषं भूषैरनेकविधभूषित-मम्ब तुभ्यम् । ध्यायेम मानसविशुद्धिकृते कपालो योगीन्द्रभावितपदे शमदे शरण्ये ॥ २६॥ मुखमण्डल -- वक्त्रेन्दुमिन्दुचयखण्डितमण्डितांशु खण्डांशपण्डितमनः परिदण्डिताशम् । सन्मानसाब्जमुदितद्युतिदं वरेण्यं रामाक्षितारकचकोरमहं भजे ते ॥ २७॥ मुख -- ताम्बूलरागपरिरञ्जितदन्तपङ्क्ति प्रद्योतिताधरमधः कृतबिम्बरागम् । ईषत्स्मितद्युतिकटाक्षविकाशिताशं वक्त्रं परेशनयनास्पदमाभजे ते ॥ २८॥ नकबेसर -- नासाग्रमौक्तिकफलं फलदं परेशे ध्यायन्ति ये च निजजाड्यविनाशहेतो । त्रैलोक्यनिर्मलपदं सुमुखं त्वदीयं var सुखदं त्वदीयं स्वेच्छाभिकाङ्क्षिण इदं बहुसो रसज्ञाः ॥ २९॥ नेत्र -- ज्ञानं निरञ्जनमिदं विवदन्ति ये ते मुह्यन्ति सूरिनिवहास्तरुणीकटाक्षैः । नालोकयन्ति नितरां तव देवितावद् दीर्घायुषाक्षियुगमञ्जनरञ्जितं ते ॥ ३०॥ भौहें -- भ्रूवल्लरीविलसितं जगदाहुरीशे व्यासादयो मुनिवरास्तुत एव नित्यम् । नाशाय तस्य तरुणीतिलके त्वदीया पाशीकृता हरिमनोमृगबन्धनाय ॥ ३१॥ भाल -- भालं विशालमतिसौभगभाजनं ते सिन्दूरविन्दुरुचिरद्युतिदीप्तिमन्तम् । पिण्डीकृतःकिमुतराग इतीव तस्मिन् प्रद्योतते जननि जागतजन्मभाजाम् ॥ ३२॥ कर्ण -- आदर्शवर्तुलकपोलविलोललोलं कर्णावतंस युगलं जनजाड्यनाशम् । सूर्यादिकान्तिहरमाश्रयमोजसान्ते तीव्रं धिया धरणिजे स्वधियन्ति धीराः ॥ ३३॥ कर्णफूल -- कालोविभेति जगतामतिभक्षकस्ते जैवातृको भवदसीमगुणो यतो सौ । सर्वातिवल्लभतया भजनीय रूपे मन्यामहे हरिरिति श्रुतिभूषसारम् ॥ ३४॥ केशपाश -- सीमन्तमम्बतव सुन्दरतातिसीमं मुक्ताविभूषितमलं समभागभाजम् । निःसीमतापदकृते यतयो यतन्ति जानीमहे महितवन्दितसीममूर्ते ॥ ३५॥ वेणी -- कालाहिभीतिभजतामहिभोगभिन्ना पायात्परेश्वरि सतामवती सदानः । एणीदृशस्तव विशालतरा नुवेणी दर्भाग्रभागसदृशी सुदृशां त्रिलोक्याः ॥ ३६॥ var विलोक्याः साडी -- साटीसुसूक्ष्मतरातिगताति नीला सौवर्णसूत्र कलिता कृपयावृताते । भर्तुःस्वरूपमनुभावयतां जनानां प्रीत्यै करोषि परदेवि यदापिधानम् ॥ ३७॥ स्वरूपवर्ण वर्णन -- पारे गिरां गुणनिधे! श्रुतयो वदन्ति रूपं त्वदीयमपरं मनसोप्यगम्यम् । साक्षात् कथं सरसिजाक्षि भवेदृते ते बुद्धौ कृपामनु कृशोदरि मादृशां तत् ॥ ३८॥ किं चित्रमत्र जननि! प्रभया प्रकाश्यं विश्वं वदन्ति मुनयस्तव देवि! देवाः । जाताश्रयस्त्रिभुवनैर्गुणतोभिवन्द्य- स्त्राणादिकर्म विभवं परमस्य यस्याः ॥ ३९॥ वेदास्तवाम्ब! विवदन्ति निजस्वरूपं नित्यानुभूतिभवभावपराः परेशैः । निर्णेतुमद्य यतयस्तपसा यतन्ते बोधाय पादसरसीरुहयुग्मभृङ्गाः ॥ ४०॥ जातं त्वदेव नितरां जगतां निदानं मन्यामहे तदिदमम्ब! कृतं श्रुतीनाम् । सर्वं यतः खलु विचेष्टितमाशु शक्तेः कार्यं हि कारणगुणानवलम्ब विद्यात् ॥ ४१॥ जानीमहे जननि! ते नयनारविन्द- स्योन्मीलनेऽजनि जगत् क्षयस्तन्निमीलात् । var क्षयतान्निमीलात् वैषम्यशून्यसमतां समुपागते य- त्स्यादस्य पालनमसंशयमस्य नूनम् ॥ ४२॥ ज्ञातन्त्वदीयमपरं चरितं विशालं भावं भवे ननुनिजे प्रकटीकरोषि । प्रेम्णैव तैः प्रथमतः परमानुभावं भाव्यं पदाब्जमनिशं स्वजनैरतस्ते ॥ ४३॥ येषामदः परमवस्तु च तज्जनानां प्रद्योतते जनकजाचरणारविन्दम् । सर्वंसमीक्ष्य इह कर्ममनोवचोभि- र्ब्रह्मस्वरूपमतिदुर्लभतानुसेव्यम् ॥ ४४॥ किं दुर्लभं चरणपङ्कजसेवया ते पूर्णारमन्ति रमणी यतया त्रिलोक्याम् । वस्तुप्रकाशविशदं हृदये त्वदीयं तेषामहो किमुत साधनकोटियत्नैः ॥ ४५॥ धन्यास्त एव तव देवि पदारविन्दं स्यन्दायमानमकरन्दमहर्निशं ये । भृङ्गायमानमनसो नितरां भजन्ते भावावबोधनिपुणाः परदेवतायाः ॥ ४६॥ पादाब्जरागपरिरञ्जितचित्तभृङ्गो येषां समीक्ष्य इह जातमिदं स्वरूपम् । तेषां न किं प्रवदते परितो वरिष्ठं साध्यं भवेदिह परत्र न किञ्चिदन्यत् ॥ ४७॥ चुम्बन्ति चिद्घनमहोमकरन्दमस्या देवैर्मुनीन्द्रनिचयैरति दुर्लभं ते । पादाब्जयोरतिविकाशविलासबोध- र्स्यादेव देवि तवकान्तनिजस्वरूपे ॥ ४८॥ यावन्न ते सरसिजद्युतिहारिपादे नस्याद्रतिस्तरुनवाङ्कुरखण्डिताशे तावत्कथं तरुणमौलिमणे जनानां ज्ञानं दृढं भवति भामिनि रामरूपे ॥ ४९॥ साक्षात्तपोव्रतयमैर्नियमैः समीहे कर्तुङ्कृपामृतमिह प्रसभं स्वरूपम् । नाथस्यते श्रुतिवचो विषयंकथंस्या- न्मूढोवृथोत्सृजति देवि सुखान्यमूनि ॥ ५०॥ योगाधिरूढमुनयो हरिपादपद्मे ध्यायन्ति ये चरणपङ्कजयुग्ममन्तः । वाञ्छन्ति विघ्नशततोप्यनिवार्यमाणां भक्तिं भवाब्धितरणाय कृपापयोधे ॥ ५१॥ चार्वङ्गिते चरणचारणवन्दिसङ्गं var चार्वङ्किते मह्यं विदेह तनये परिदेहि नान्यम् । याचेवरं वरविदां वरदे भवत्या येनामुना तव धवे मम रञ्जना स्यात् ॥ ५२॥ याचेऽहमम्ब रघुनन्दनमूर्तिभावं सार्द्धं त्वयातिदृढ मञ्जलिनाविशेषम् । त्वं देहि वेत्तृवरदे मुनिसङ्घमुख्या- मन्यन्तिवल्लभतरां स्वपतेभवन्तीम् ॥ ५३॥ उपसंहार -- एवंस्तुत्वा परं रूपं जानक्या जाड्यनाशनम् । उपारराम शान्तात्मा योगेश्वरः सदाशिवः ॥ ५४॥ निरीक्ष्य तन्मुखाम्भोजं भावयन् रूपमद्भुतम् । काङ्क्षं स्तस्याः परां भक्तिं पादपङ्कजयोर्दृढाम् ॥ ५५॥ उवाच तं वरारोहा जानकी भक्तवत्सला । एवमस्तु महादेव यत्त्वयोक्तं च नान्यथा ॥ ५६॥ अन्यत्ते काङ्क्षितं ब्रूहि दास्यामि देवदुर्लभम् । सत्याम्मयिकृपोन्मुख्यां न किञ्चिन्तस्यदुर्लभम् ॥ ५७॥ प्रसन्नवदनां दृष्ट्वा सोपि देवशिरोमणिः । ययाचे वरमात्मीयं रहस्यं भावबोधकः ॥ ५८॥ प्रादात्तस्मै वदान्या सा यद्यन्मनसिकाङ्क्षितम् । वरं-वरेश्वरी साक्षात्पुनरुवाच सा हितम् ॥ ५९॥ अयं पवित्रमौलिर्मे स्तवराजः त्वयाशिव । प्रकाशितोतिगोप्योपि मत्प्रसादात्सुरोत्तम ॥ ६०॥ फलश्रुति निष्काम -- यः पठेदिममग्रे मे पूजाकाले प्रयत्नतः । तस्येहामुत्र किञ्चिन्न वस्तुस्याद्दृगगोचरम् ॥ ६१॥ फलश्रुति सकाम -- धनं धान्यं यशः पुत्रानैश्वर्यमतिमानुषम् । प्राप्येहामोदते भूयो मत्पदं तद्व्रजेत्सह ॥ ६२॥ यद्यल्लोकोत्तरं वस्तु त्रिषुलोकेषु दृश्यते । तत्सर्वमस्य पाठेन प्राप्नुयाद्भुविमानवः ॥ ६३॥ आज्ञा -- इदं मे परमैकान्तं रहस्यं सुरसत्तम । न प्रकाश्यं त्वया शम्भो शठाय भावद्वेषिणे ॥ ६४॥ भक्तिर्यस्यातिदेवेशे सर्वैश्वर्ये तथा मयि । गुरौसर्वात्म भावेन विद्यतेभक्तिरुत्तमा ॥ ६५॥ तस्मै देयं त्वया शम्भो भावनार्द्रहृदे गुरौ । सर्वभूतहितार्थाय शान्ताय सौम्यमूर्तये ॥ ६६॥ इत्युक्त्वा भावनामूर्तिः सीता जनकनन्दिनी । कृपापात्राय तस्मै सा पुनः प्रादाद्वरान्तरम् ॥ ६७॥ सर्वदुःखप्रशमनं जानक्यास्तु प्रसादतः ॥ ६८॥ ॥ इति श्रीमदगस्त्यसंहितान्तर्गतः परमरहस्यः श्रीजानकीस्तवराजः सम्पूर्णः ॥ इति शुभम् ॥ The individual bodily description in the verses is given in Hindi for reference.