अक्षर आकार:

श्री इन्द्राक्षीकवचम्

Shri Indrakshi Kavacham

श्री इन्द्राक्षीकवचम्

ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ॥ १॥ श्रीभैरव उवाच इन्द्राक्ष्याः कवचं पुण्यं सर्वतत्त्वनिरूपिणम् । जगच्चिन्तामणिं नाम सर्वमन्त्रैकसाधनम् ॥ २॥ यं धृत्वा कवचं ब्रह्माविष्णुर्भीमा शचीपतिः । यमोऽपि वरुणश्चैव कुबेरश्च दिगीश्वरः ॥ ३॥ ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिषूदनः । शिवः संहरते विश्वं जिष्णुः सुमनसां पतिः ॥ ४॥ दिगीश्वराश्च दिक्पाला यथावदनु भूतले । जगच्चिन्तामणिं वश्ये भोगमोक्षैकसाधनम् ॥ ५॥ सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् । जगच्चिन्तामणे देवि कवचस्यास्य कीर्तितः ॥ ६॥ देवीन्द्राक्षी परा प्रोक्ता ह्रीं बीजं शक्तिनी स्मृता । कीलकं प्रणवः प्रोक्तस्त्रिवर्गफलसाधने ॥ ७॥ अस्य श्री इन्द्राक्षीकवचस्य पुरन्दरऋषिः, बृहतीच्छन्दः, इन्द्राक्षी देवता । ह्रीं बीजं, श्रीं शक्तिः, प्रणवः कीलकम् । त्रिवर्गफलसाधने विनियोगः । ॐ ह्रीं श्रीं वज्रहस्ता मे शिरो रक्षतु सर्वदा । ऐं सौंः क्लीं पातु मे भालं वज्रिणी वज्रिसेविता ॥ १॥ फट् स्वाहा वज्रहस्ता च पातु नेत्रे ममानिशम् । ॐ ह्रां कर्णौ सदा पातु ॐ श्रां गण्डौ सदावतु ॥ २॥ ॐ ॐ मे नासिका पातु परमा परमेश्वरी । ॐ ऐं मुखं च मे पातु वीरधीरैकसुन्दरी ॥ ३॥ ॐ क्लीं जिह्वां सदा रक्षेद्देवता शशिसुन्दरी । ॐ क्लां कण्ठं ममाव्याद्वै देवता सूर्यसुन्दरी ॥ ४॥ ॐ सः स्कन्धौ सदा पातु देवी श्रीवह्निसुन्दरी । ॐ ऐं ह्रं मे उरः पातु देवता ऋक्षसुन्दरी ॥ ५॥ ॐ ऐं श्रीं मे स्तनौ पातु देवी कुलिशसुन्दरी । ॐ श्रीं ह्रीं मेऽवतात्पार्श्वे देवी श्रीतिथिसुन्दरी ॥ ६॥ ॐ ह्रां सौंः मेऽवतात्कुक्षिं देवी श्रीयोगसुन्दरी । ॐ श्रीं ह्रौं पातु मे नाभिं देवता पाशसुन्दरी ॥ ७॥ ॐ श्रिं मे पातु जठरं देवी कमलसुन्दरी । ॐ ह्रूं क्रीं पातु मे बाहू देवी खट्वाङ्गसुन्दरी ॥ ८॥ ॐ ह्रां श्रीं पातु मे हस्तौ देवी मार्गणसुन्दरी । ॐ क्रां ह्रां पातु मे ष्टष्ठं देवी भद्राङ्गसुन्दरी ॥ ९॥ ॐ ह्रीं सौंः पातु मे वस्तिं देवी पञ्चास्यसुन्दरी । ॐ श्रूं ह्रां क्रीं कटिं पातु देवता टङ्कसुन्दरी ॥ १०॥ ॐ श्रीं स्रीं पातु मेशिश्नं देवी पीतनसुन्दरी । ॐ ह्रीं ह्रूं मेऽवताद्गुह्यं देवी पातालसुन्दरी ॥ ११॥ ॐ श्रीं क्लौं पातु मामूरू देवी ब्राह्मणसुन्दरी । ॐ ऐं स्तौंः मे रक्षेज्जानुनी देवी ब्रह्मसुन्दरी ॥ १२॥ ॐ श्रींवै पातु मे जङ्घे देवता विष्णुसुन्दरी । ॐ स्रां ह्रां ऐं सदाऽव्यान्मे गुल्फौ गीर्वाणासुन्दरी ॥ १३॥ ॐ ह्रीं श्रीं पातु मे पादौ देवता शिवसुन्दरी । ॐ स्रीं हूं पातु मे पूर्वे देवता यक्षसुन्दरी ॥ १४॥ ॐ जुं सः पातु मे वह्रौ देवता दैत्यसुन्दरी । ॐ ऐं क्लीं पातु मे दक्षे देवता प्रेतसुन्दरी ॥ १५॥ ॐ श्रां पातु मे नैरृत्यां देवी रक्षससुन्दरी । ॐ श्रीं मां पातु वारुण्यां देवी वरुणसुन्दरी ॥ १६॥ ॐ क्रौं हूं पातु वायव्यं देवता वायुसुन्दरी । ॐ हूं पातु कौवीर्यां देवी पिशाचसुन्दरी ॥ १७॥ ॐ ह्रीं श्रीं पातु मामीशे देवतेशानसुन्दरी । ॐ ऐं हुं पातु मामूर्ध्वे देवी गगनसुन्दरी ॥ १८॥ ॐ ह्रीं अधस्तान्मे मायादेवी पन्नगसुन्दरी । ॐ ॐ ह्रीं मे प्रभतेऽव्याद्देवी ब्रह्माण्डसुन्दरी ॥ १९॥ ॐ क्रौं क्लीं पातु मां रात्रौ देवी त्रैलोक्यसुन्दरी । ॐ क्लिं पातु निशीथे मां देवी श्रीकामसुन्दरी ॥ २०॥ ॐ ह्रां क्रूं मां निशान्तेऽव्याद्देवता लोकसुन्दरी । सर्वत्र सर्वदा पातु देवी मां रूपसुन्दरी ॥ २१॥ रणे राजकुले पूजे विवादे रिपुसग्रनि । दावाग्न्यरण्यभीतौ च पोताव्यौ जुररोगतः ॥ २२॥ महाव्याधिषु मां पातु इन्द्राक्षी चेन्द्रसुन्दरी । ॐ ह्रीं श्रीं ऐं सौः क्लीं पायादिन्द्राक्षी मां भवाम्बुधेः ॥ २३॥ शिरसः पादपर्यन्तं पादादिमस्तकान्तकम् । ॐ ह्रीं श्रीं सर्वभीतिभ्यः इन्द्राक्षी पातु मे वपुः ॥ २४॥ फलश्रुतिः - इतीदं कवचं पुण्यं सर्वविद्यानिरूपणम् । जगच्चिन्तामणिं नाम त्रिषु लोकेशु दुर्लभम् ॥ १॥ सर्वतत्त्वमयं दिव्यं सर्वतन्त्रैकरूपिणम् । सर्वागममयं तत्त्वं गोप्तव्यं पशुसङ्कटे ॥ २॥ अर्धरात्रौ च मध्याह्ने रवौ कुङ्कुमकेन च । भूर्जत्वचि लिखेद्वर्म धारयेन्मूर्ध्नि वा भुजे ॥ ३॥ रणे सर्वान् रिपून् जित्वा कल्याणी गृहमाविशेत् । वन्ध्या वामभुजे धृत्वा ऋतुस्नात्वाह्नि पञ्चमे ॥ ४॥ धृत्वाऽचिरेण कालेन लभते तनयान् बहून् । ज्वरादयश्च ये रोगाः सत्रिपातादिकुष्ठकाः ॥ ५॥ विद्रवन्ति भयत्रस्ताः कवचस्यास्य धारणात् । सप्तजन्मार्जितं पापं दहत्पग्निरिवेन्धनम् ॥ ६॥ इन्द्रप्रभृतयो देवाः कामक्रोधादयोऽरयः । जीवादयश्च गुरवः शुक्राद्याः कवयस्तथा ॥ ७॥ भूपप्रभृतयो मर्त्या वश्यमेष्यन्ति वर्मणः । धारणात्पठनात्सत्यं सर्वविद्येश्वरो भवेत् ॥ ८॥ धनवान्पुत्रवान् श्रीमान्पठनात्साधको भवेत् । इतीदं कवचं गुह्यं गुह्याद्गुह्यतरं परम् ॥ ९॥ जगच्चिन्तामणिं नाम गोप्तव्यं च दुरात्मभ्यः । इन्द्राक्ष्याः सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् । अदातव्यमवक्तव्यमित्याज्ञापरमेश्चरि ॥ १०॥ ॥ इति श्रीरुद्रयामले तन्त्रे इन्द्राक्षीकवचं समाप्तम् ॥ ॥ शुभमस्तु ॥