अक्षर आकार:

इन्दिराष्टोत्तरशतनामस्तोत्रम्

Indira Ashtottarashatanama Stotram

इन्दिराष्टोत्तरशतनामस्तोत्रम्

इन्दिरा विष्णहृदयमन्दिरा पद्मसुन्दरा । नन्दिताखिलभक्ता श्रर्नन्दिकेश्वरवन्दिता ॥ १॥ केशवप्रियचारित्रा केवलानन्दरूपिणी । केयूरहारमञ्जीरा केतकीपुष्पधारणी ॥ २॥ कारुण्यकवितापाङ्गी कामितार्थप्रदायनी । कामधुक्सदृशा शक्तिः कालकर्मविधायिनी ॥ ३॥ जितदारिद्र्यसन्दोहा धृतपङ्केरुहद्वयी । कृतविद्ध्यण्डसंरक्षा नतापत्परिहारिणी ॥ ४॥ नीलाभ्राङ्गसरोनेत्रा नीलोत्पलसुचन्द्रिका । नीलकण्ठमुखाराध्या नीलाम्बरमुखस्तुता ॥ ५॥ सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायिता । समुद्रतनया सर्वसुरकान्तोपसेविता ॥ ६॥ भार्गवी भानुमत्यादिभाविता भार्गवात्मजा । भास्वत्कनकताटङ्का भानुकोट्यधिकप्रभा ॥ ७॥ पद्मसद्मपवित्राङ्गी पद्मास्या च परात्परा । पद्मनाभप्रियसती पद्मभूस्तन्यदायिनी ॥ ८॥ भक्तदारिद्र्यशमनी मुक्तिसाधकदायिनी । भुक्तिभोग्यप्रदा भव्यशक्तिमदीश्वरी ॥ ९॥ जन्ममृत्युज्वरत्रस्तजनजीवातुलोचना । जगन्माता जयकरी जयशीला सुखप्रदा ॥ १०॥ चारुसौभाग्यसद्विद्या चामरद्वयशोभिता । चामीकरप्रभा सर्वचातुर्यफलरूपिणी ॥ ११॥ राजीवनयना रम्या रामणीयकजन्मभूः । राजराजार्चितपदा राजमुद्रास्वरूपिणी ॥ १२॥ तारुण्यवनसारङ्गी तापसार्चितपादुका । तात्त्विकी तारकेशार्कताटकद्वयमण्डिता ॥ १३॥ भव्यविश्राणनोद्युक्ता सव्यक्तसुखविग्रहा । दिव्यवैभवसम्पूर्णा नव्यभक्तिशुभोदया ॥ १४॥ तरुणादितायताम्रश्रीः करुणारसवाहिनी । शरणागतसन्त्राणचरणा करुणेक्षणा ॥ १५॥ वित्तदारिद्र्यशमनी वित्तक्लेशनिवारिणी । मत्तहंसगतिस्सर्वसत्तासामान्यरूपिणी ॥ १६॥ वाल्मीकिव्यासदुर्वासो वालखिल्यादिवाञ्छिता । वारिजेषणहृत्केकिवारिदायितविग्रहा ॥ १७॥ दृष्ट्याऽऽसादितविद्ध्यण्डा सृष्ट्यादिमहिमोच्छ्रया । आस्तिक्यपुष्पभृङ्गी च नास्तिकोन्मूलनक्षमा ॥ १८॥ कृतसद्भक्तिसन्तोषा कृत्तदुर्जनपौरुषा । सञ्जीविताशेषभाषा सर्वाकर्षमतिस्नुषा ॥ १९॥ नित्या शुद्धा परा बुद्धा सत्या संविदनामया । विजया विष्णुरमणी विमला विजयप्रदा ॥ २०॥ श्रीङ्कारकामदोग्धी च ह्रीङ्कारतरुकोकिला । ऐङ्कारपद्मलोलम्बा क्लीङ्कारामृतनिम्नगा ॥ २१॥ तपनीयाभसुतनुः कमनीयस्मितानना । गणनीयगुणग्रामा शयनीयोरगेश्वरा ॥ २२॥ रमणियसुवेषाढ्या करणीयक्रियेश्वरी । स्मरणीयचरित्रा च तरुणी यज्ञारूपिणी ॥ २३॥ श्रीवृक्षवासिनी योगिधीवृत्तिपरिभाविता । प्रावूड् भार्गववारार्च्या संवृतामरभामिनी ॥ २४॥ तनुमद्ध्या भगवतीमनुजापिवरप्रदा । लक्ष्मी विल्वाश्रिता पातु सोऽष्टोत्तरशतस्तुता ॥ २५॥ इति इन्दिराष्टोत्तरशतनामस्तोत्रं समाप्तम् ।