अक्षर आकार:

इन्दिराष्टोत्तरशतनामावलिः

Indira Ashtottarashatanamavalih 108 Names

इन्दिराष्टोत्तरशतनामावलिः

ॐ इन्दिरायै नमः । विष्णहृदयमन्दिरायै । पद्मसुन्दरायै । नन्दिताखिलभक्तायै । श्रीयै । नन्दिकेश्वरवन्दितायै । केशवप्रियचारित्रायै । केवलानन्दरूपिण्यै । केयूरहारमञ्जीरायै । केतकीपुष्पधारण्यै । कारुण्यकवितापाङ्ग्यै । कामितार्थप्रदायन्यै । कामधुक्सदृशायै । शक्त्यै । कालकर्मविधायिन्यै । जितदारिद्र्यसन्दोहायै । धृतपङ्केरुहद्वय्यै । कृतविद्ध्यण्डसंरक्षायै । नतापत्परिहारिण्यै । नीलाभ्राङ्गसरोनेत्रायै नमः । २० ॐ नीलोत्पलसुचन्द्रिकायै नमः । नीलकण्ठमुखाराध्यायै । नीलाम्बरमुखस्तुतायै । सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायितायै । समुद्रतनयायै । सर्वसुरकान्तोपसेवितायै । भार्गव्यै । भानुमत्यादिभावितायै । भार्गवात्मजायै । भास्वत्कनकताटङ्कायै । भानुकोट्यधिकप्रभायै । पद्मसद्मपवित्राङ्ग्यै । पद्मास्यायै । परात्परायै । पद्मनाभप्रियसत्यै । पद्मभूस्तन्यदायिन्यै । भक्तदारिद्र्यशमन्यै । मुक्तिसाधकदायिन्यै । भुक्तिभोग्यप्रदायै । भव्यशक्तिमदीश्वर्यै नमः । ४० ॐ जन्ममृत्युज्वरत्रस्तजनजीवातुलोचनायै नमः । जगन्मात्रे । जयकर्यै । जयशीलायै । सुखप्रदायै । चारुसौभाग्यसद्विद्यायै । चामरद्वयशोभितायै । चामीकरप्रभायै । सर्वचातुर्यफलरूपिण्यै । राजीवनयनरम्यायै । रामणीयकजन्मभुवे । राजराजार्चितपदायै । राजमुद्रास्वरूपिण्यै । तारुण्यवनसारङ्ग्यै । तापसार्चितपादुकायै । तात्त्विक्यै । तारकेशार्कताटङ्कद्वयमण्डितायै । भव्यविश्राणनोद्युक्तायै । सव्यक्तसुखविग्रहायै । दिव्यवैभवसम्पूर्णायै नमः । ६० ॐ नव्यभक्तिशुभोदयायै नमः । तरुणादित्यताम्रश्रीयै । करुणारसवाहिन्यै । शरणागतसन्त्राणचरणायै । करुणेक्षणायै । वित्तदारिद्र्यशमन्यै । वित्तक्लेशनिवारिण्यै । मत्तहंसगतये, । सर्वसत्तायै, । सामान्यरूपिण्यै । वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छितायै । वारिजेषणहृत्केकिवारिदायितविग्रहायै । दृष्ट्याऽऽसादितविद्ध्यण्डायै । सृष्ट्यादिमहिमोच्छ्रयायै । आस्तिक्यपुष्पभृङ्ग्यै । नास्तिकोन्मूलनक्षमायै । कृतसद्भक्तिसन्तोषायै । कृत्तदुर्जनपौरुषायै । सञ्जीविताशेषभाषायै । सर्वाकर्षमतिस्नुषायै नमः । ८० ॐ नित्यायै नमः । शुद्धायै । परायै । बुद्धायै । सत्यायै । संविदे । अनामयायै । विजयायै । विष्णुरमण्यै । विमलायै । विजयप्रदायै । श्रीङ्कारकामदोग्ध्यै । ह्रीङ्कारतरुकोकिलायै । ऐङ्कारपद्मलोलम्बायै । क्लीङ्कारामृतनिम्नगायै । तपनीयाभसुतनवे । कमनीयस्मिताननायै । गणनीयगुणग्रामायै । शयनीयोरगेश्वरायै । रमणीयसुवेषाढ्यायै नमः । १०० ॐ करणीयक्रियेश्वर्यै नमः । स्मरणीयचरित्रायै । तरुण्यै । यज्ञारूपिण्यै । श्रीवृक्षवासिन्यै । योगिधीवृत्तिपरिभावितायै । प्रावृड्भार्गववारार्च्यायै । संवृतामरभामिन्यै । तनुमद्ध्यायै । भगवत्यै, । मनुजापिवरप्रदायै । लक्ष्म्यै । विल्वाश्रितायै । अष्टोत्तरशतस्तुतायै नमः । ११४ इति इन्दिराष्टोत्तरशतनामावलिः समाप्ता ।