अक्षर आकार:

श्रीहेमकामाक्षीदण्डकम्

Shri Hemakamaxidandakam

श्रीहेमकामाक्षीदण्डकम्

ओंकारात्मक-भासि-रूप्यवलये संशोभि हेमं महः बिभ्रत्केलिशुकं त्रयीकलगिरं दक्षेण हस्तेन च। वामे लंबकरं त्रिभङ्गि-सुभगं दीनार्तनम्रत्पदं स्वान्ते दीव्यतु मे कटाक्ष-शुभदं मन्दस्मितोदारकम् ॥ दक्षिणे कामजिद्यस्याः चूडायां कामवल्लभः। वासः कामायुधस्याधः कामाक्षीं तां नमाम्यहम् ॥ कामान्धा तिलकं यस्याः काममाली च पुत्रकः। कामान्धोपम-वाणीं तां कामाक्षीं प्रणमाम्यहम् ॥ गाङ्गमाता तु या देवी गाङ्गमाला-विराजिता। गां गता रक्षितुं मर्त्यान् गाङ्गदेहां नमामि ताम् ॥ जयैकाम्रेश्वरार्धाङ्गि जय तञ्जा-विलासिनि। जय बङ्गारुकामाक्षि जय सर्वार्थ-दायिनि ॥ जय जननि सुरासुरस्तोम-संसेव्यमानातिपुण्यप्रदेश-प्रमुख्यामधिष्ठाय काञ्चीं स्वमूलस्वरूपेण भक्तेष्ट-सन्दानचिन्तामणे! मञ्जुसंभाषणे! भामणे! मूलदेवीतृतीयाक्षिसञ्जात-तेजोनुरूपां सुवर्णां सुमूर्तिं विधायाम्ब! वणीपतिस्त्वां ध्रुवे चैकदेशे प्रतिष्ठाप्य काञ्च्यां विवाहोत्सवं चारु निर्वृत्य चैकाम्रनाथेन कामाक्षि! संयोजयामास चाकाशभूपालमेवात्र कर्तुं महं ते सदा ॥ कामकोटी सुपीटावमर्देन नष्टेक्षणः पद्मभू-श्चक्रपूजां तथाराधनं ते स्वनुष्ठय चक्षुः प्रकाशं प्रपेदे भृशं ॥ यवनजनित-घोरकर्नाटकानीक-काले नु दुर्वाससश्शिष्यमुख्यैर्-वरस्थानिकै-राशु शेञ्चिं प्रपद्याम्ब! सन्तानभूपालसंपूजिताऽभूः॥ ततश्चोड्यार्पालय-स्वामिना त्वं समाराधिताऽऽसी-श्चिरायाऽथ गत्वा बहून् ग्रामदेशान्मुदा हाटकक्षेत्र-संशोभमाना सुदीर्घास्समा-स्तत्र नीत्वाऽथ, तञ्जापुराधीश-भाग्यप्रकर्षेण संप्राप्य तञ्जां च पूतां, सुहृत्तूलजेन्द्राख्यराजेनसंस्थापिताऽस्मिन् शुभे मन्दिरे रामकृष्णालयाभ्यन्तराभासि तेन प्रदत्तां भुवं चापि लब्ध्वाऽत्र दुर्वाससाऽऽदिष्ट- सौभाग्यचिन्तामणिप्रोक्तपूजां नु कुर्वन्ति ते साधवः॥ शरभमहिप-वर्धितानेकभागं च ते मन्दिरं काञ्चीपीठाधिनाथप्रकाण्डैरथो धर्मकर्तृ- प्रमुख्यैश्च देवालयानल्पवित्तव्ययेनातिनूत्नीकृतं तत् ॥ श्शाङ्कावतंसे, सुगत्या जितोन्मत्तहंसे, रुचातीतहंसे, नतांसे ॥ तुलामीनमासात्तसत्फल्गुनीऋक्ष शोभादिनेष्वत्र जन्मोद्वहाद्युत्सवं, शारदे रात्रिकाले प्रमुख्योत्सवं चातिसंभारपूर्वेण दिव्याभिषेकेण संभावन्त्यम्ब! ते भक्तवृन्दाः॥सदानन्दकन्दे! सुमातङ्गनन्दे! अच्छकुन्दाभदन्ते! शुभे! गन्धमार्जाररेतो-ऽभिसंवासिते! जानकीजानि-संवन्दिते! जामदग्न्येन सन्नन्दिते! मधुर-सुकविमूकसंश्लाधिते! पूज्यदुर्वास-साराधिते! धौम्यसद्भक्त-संभाविते! शङ्कराचार्य-संसेविते! काञ्चिपीठेश्वरैः पूजिते! श्यामशास्त्रीति-विख्यात-सङ्गीतराट्-कीर्तिते! तञ्जपूर्वासि-सौभाग्यदात्रीं पवित्रीं सदा भावये त्वां वराकाः ॥ कृपासान्द्र-दृष्टिं कुरुष्वाम्ब! शीघ्रं मनः शुद्धिमच्छां च देह्यात्मविद्यां क्षमस्वापराधं मया यत्कृतं ते, प्रयच्छात्र-सौख्यं परत्रापि नित्यं, विधेह्यङ्घ्रिपद्मे दृढां भक्तिमारात्, नमस्ते शिवे देहि मे मङ्गलं, पाहि कामाक्षि मां, पाहि कामाक्षि माम् ॥ ॥ ॐ तत्सत् ॥