अक्षर आकार:

हाकिनीशक्तिकवचम्

Hakinishakti Kavacham

हाकिनीशक्तिकवचम्

अथ चतुरशीतितमः पटलः श्रीआनन्दभैरव उवाच अथादौ कथयानन्दभैरवि प्राणवल्लभे । कवचं हाकिनीदेव्याः परमानन्दवर्धनम् ॥ ८४-१॥ हेतुयुक्तं श्रद्धया मे करुणासागरस्थिते । शीघ्रं विरचयानन्द कवचं सारमङ्गलम् ॥ ८४-२॥ श्रीआनन्दभैरवी उवाच आदौ श‍ृणु महावीर परमानन्दसागर । कवचं हाकिनीदेव्याः संसारार्णवतारकम् ॥ ८४-३॥ यस्य स्मरणमात्रेण योगी योगस्थिरो भवेत् । अन्तरिक्षे च भूलोके पाताले ये चराचराः ॥ ८४-४॥ स्तम्भिता वेपमानाः स्युर्विद्याज्ञानादिपाठतः । कवचध्वनिमात्रेण भूतप्रेतपिशाचकाः ॥ ८४-५॥ विद्रवन्ति भयार्ता वै कालरुद्रप्रभावतः । यथाऽऽलोको वह्निमध्ये स्थिरो भवति निश्चितम् ॥ ८४-६॥ ॐ अस्याः श्रीहाकिनीदेव्याः सानन्दसारमङ्गलस्य महाकवचस्य सदाशिव ऋषिर्गायत्रीच्छन्दः श्रीहाकिनीपरदेवता क्लीं बीजं स्वाहा शक्तिः सिद्धलक्ष्मीमूलकीलकं देहान्तर्गत महाकामसिद्ध्यर्थे जपे विनियोगः । ॐ पातु शीर्षचक्रं मे क्लीं पातु भालमण्डलम् । स्वमूलं पातु मे नित्यं लोचनत्रितयं मम ॥ ८४-६॥ गण्डयुग्मं सदा पातु वाग्भवाद्या मनोरमा । श्रीं ह्रीं पातु कर्णयुग्मं हाकिनी परदेवता ॥ ८४-७॥ महाविद्या सदा पातु ममोष्ठाधरसम्पुटम् । दन्तावलियुगं पातु ह्रीं श्रीं स्वाहा परेश्वरी ॥ ८४-९॥ क्लीं ह्रीं श्रीं हाकिनीदेवी स्वाहा पातु रसप्रियाम् । सृक्कनीं पातु सततं शक्तिः कामवरा मधुः ॥ ८४-१०॥ स्वाहा पातु शिखा शक्तिर्भ्रूमध्यं पातु सर्वदा । हाकिनी मण्डलं पातु परानाथेश्वरी परा ॥ ८४-११॥ सुन्दरी सर्वदा पातु द्विदलं कामसुन्दरी । अमृताख्या सदा पातु भ्रूप्रकाशस्थलं मम ॥ ८४-१२॥ वह्निज्वाला सदा पातु भ्रूश्मशानस्थलं मम । सुरभी पातु मायास्त्रं स्वाहा मे भ्रूगतच्छदम् ॥ ८४-१३॥ त्रिकोणं पातु कामाख्या हाकिनी परमेश्वरी । त्रिपुरा सुन्दरी पातु द्विषट्कोणं सदा मम ॥ ८४-१४॥ हिङ्गुलादेश्वरी पातु षट्कोणबिन्दुमण्डलम् । सप्तभूबिम्बमापातु भूतलान्तःप्रकाशिनी ॥ ८४-१५॥ महाशतदलं पातु शतकोटिमरुप्रिया । गुरुविद्यामयी पातु वाणी मे मत्तगामिनी ॥ ८४-१६॥ चतुर्द्वारं सर्वचक्रं पातु मे परमेश्वरी । अत्यन्तदुःखहन्त्री मे मनश्चक्रं सदाऽवतु ॥ ८४-१७॥ शब्दब्रह्ममयी पातु चन्द्रमण्डलमेव मे । अकालतारिणी दुर्गा सर्गस्थित्यन्तकारिणी ॥ ८४-१८॥ महापुरुषसंस्थानं हाकिनी मण्डलं मम । पातु वर्णमयी तारा चन्द्रार्धं मे सुरेश्वरी ॥ ८४-१९॥ उन्मनीनगरं पातु वह्निकुण्डनिवासिनी । मदिरा पातु सततं भालं विषहरा मम ॥ ८४-२०॥ धर्मदा ज्ञानदा पातु धर्मज्ञानपदं मम । तालपत्नीश्वरी पातु अमृतानन्दकारिणी ॥ ८४-२१॥ वैराग्यनिकरं पातु बिन्दुस्थानं महाबला । त्रितारी कूटशक्तिर्मे सदा पातु विशुद्धकम् ॥ ८४-२२॥ शाकिनीशं सदा पातु शाकिनी कुलभैरवी । सप्तद्वीपेश्वरी पातु मम षोडशपङ्कजम् ॥ ८४-२३॥ शाकिनी भैरवी पातु चण्डदुर्गा सरस्वती । कुमारी कुलजा लक्ष्मीः सिद्धार्थं मे सदाऽवतु ॥ ८४-२४॥ हृदयं पातु सततं शाकिनी परमेश्वरी । बीजरूपा सदा देवी महामहिषघातिनी ॥ ८४-२५॥ उदरं पातु सततं योगिनीकोटिभिः सह । उमा महेश्वरी पातु प्रचण्डा मम पृष्ठकम् ॥ ८४-२६॥ चामुण्डा भैरवी बाला पार्श्वयुग्मं सदाऽवतु । परमा चेश्वरी पातु देवमाता स्तनद्वयम् ॥ ८४-२७॥ सौभाग्यहाकिनी देवी पायात्तु यक्षसः प्रियम् । आद्या देवी शिखारूपा भुजयुग्मं सदाऽवतु ॥ ८४-२८॥ सर्वापराधहर्त्री मे कामविद्या दशच्छदम् । मणिपूरं सदा पातु दशवर्णात्मिका शिवा ॥ ८४-२९॥ नाभिचक्रं सदा पातु लाकिनी पद्मवासिनी । नित्यदेशदलं पातु पार्वती वेदपालिनी ॥ ८४-३०॥ महारुद्रेश्वरी पातु पीठरूपं मणिं मम । तेजोमण्डलमापातु रुद्राणी शूलधारिणी ॥ ८४-३१॥ अभया सर्वदा पातु योगविद्या नितम्बकम् । नितम्बाधारचक्रं मे पातु शैलं नितम्बिनीम् ॥ ८४-३२॥ तरुणी मन्त्रजालस्था वैष्णवी लिङ्गमण्डलम् । सदा पातु हाकिनीशा महाविष्णुस्थलं मम ॥ ८४-३३॥ वैष्णवी ललिता माया रमादेवी कटिं मम । स्वाधिष्ठानं सदा पातु गुह्यरूपा सरस्वती ॥ ८४-३४॥ भवानी भगवत्पत्नी श्मशानकालिका गुदम् । पातु मे रणमातङ्गी राकिनी कुलमण्डलम् ॥ ८४-३५॥ व्यक्ताव्यक्तस्वरूपा मे मूलाधारं सदाऽवतु । चतुर्दलं चतुर्वर्णं पातु मे ज्ञानकुण्डली ॥ ८४-३६॥ तपस्विनी सदा पातु पावनी मूलमावतु । रतिका घटिका वेश्या धरिणी कामसुन्दरी ॥ ८४-३७॥ वह्निकान्ता सदा पातु ममोरुयुगलं सदा । उल्कामुखी क्षेत्रसिद्धा जङ्घायुग्मं सदाऽवतु ॥ ८४-३८॥ बालामुखी पातु सम्पत्प्रदा श्रीकुलभैरवी । पादाम्बुजद्वयं पातु सर्वाङ्गं परहाकिनी ॥ ८४-३९॥ मदना मेदिनी धन्या चामुण्डा मुण्डमालिनी । रमा कामकला ज्येष्ठा तथाज्ञा रतिसुन्दरी ॥ ८४-४०॥ मनोयोगा सदा पातु निर्मला विमलामला । काञ्चनी बगला रात्रिः पञ्चमी रतिसुन्दरी ॥ ८४-४१॥ सर्वत्र सर्वदा पातु योगाद्या प्रेमकातरा । पर्वते विपिने शून्ये रणे घोरतरे भवे ॥ ८४-४२॥ श्मशानवासिनी पातु सर्ववाहनवाहना । सर्वास्त्रधारिणी पातु पञ्चमी पञ्चमप्रिया ॥ ८४-४३॥ चतुर्भुजा सदा पातु हाकिनी देहदेवता । सहस्रायुतकोटीन्दुवदना परमेश्वरी ॥ ८४-४४॥ योगिनीभिः सदा पातु सर्वदेशे तु सर्वदा । अनन्ता सर्वदा पातु महाविघ्नविनाशिनी ॥ ८४-४५॥ जले चानलगर्ते वा व्याधिभीतौ रिपोर्भये । व्याघ्रभीतौ चौरभीतौ महोन्मादभयादिषु ॥ ८४-४६॥ ग्रहभीतौ देवभीतौ दानवाद्रिभयेषु च । अभया निर्भया भीतिहारिणी भयनाशिनी ॥ ८४-४७॥ महाभीमा भद्रकाली भैरवी मारकामला । महाभूतेश्वरी माता जगद्धात्री सदाऽवतु ॥ ८४-४८॥ सर्वदेशे सर्वपीठे मातृका पातु नित्यशः । इत्येतत् कवचं सर्वसिद्धिदं दुःखनाशनम् ॥ ८४-४९॥ कथितं तव यत्नेन महाकाल प्रभो ! हर । यः पठेत् प्रातरुत्थाय कवचं देवदुर्लभम् ॥ ८४-५०॥ स भवेत् कालजेताऽपि स देवो न तु मानुषः । ध्यानात्मा साधकः श्रीमान् परमात्मा भवेत् स्वयम् ॥ ८४-५१॥ आज्ञापद्मे स्थिरो भूत्वा नित्यो भवति निश्चितम् । अकालमृत्युहरणं संसारार्णवतारणम् ॥ ८४-५२॥ कवचं देवदेवेश चानन्दसारमङ्गलम् । यः पठेदतिभक्त्या च जीवन्मुक्तो भवेद् ध्रुवम् ॥ ८४-५३॥ चतुर्विधा मुक्तिमाला तद्गले संस्थिरा ध्रुवम् । भवन्ति योगमुख्यानां गुरुर्वेदान्तपारगः ॥ ८४-५४॥ सर्वशास्त्रार्थवेत्ता स्याद् यामलार्थज्ञ ईश्वरः । शान्तिं विद्यां प्रतिष्ठाञ्च निवृत्तिं प्राप्य निर्मलः ॥ ८४-५५॥ योगात्मा चेश्वरत्वं हि प्राप्नोति नात्र संशयः । कुजे वा शनिवारे वा सङ्क्रान्त्यां रविवासरे ॥ ८४-५६॥ अमावास्यासु रिक्तायां धारयेत् कवचं शुभम् । पुरुषो दक्षिणे हस्ते वामा वामभुजे तथा ॥ ८४-५७॥ सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते । गोरोचनाकुङ्कुमेन चालक्तेन विलिख्य च ॥ ८४-५८॥ अवश्यं सिद्धिमाप्नोति हाकिनीयोगजापतः ॥ ८४-५९॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनीकवचं नाम चतुरशीतितमः पटलः ॥ ८४॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.