अक्षर आकार:

हाकिनीसहस्रनामस्तोत्र

hAkinIsahasranAmastotra

हाकिनीसहस्रनामस्तोत्र

श्रीगणेशाय नमः । श्री आनन्दभैरव उवाच । आनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले कान्ते दत्तसुशान्तिदे यमदमाह्लादैकशक्तिप्रभे । स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतं हाकिन्याः शुभनाम सुन्दरसहस्राष्टोत्तरं श्रीगुरोः ॥ १ ॥ श्री आनन्दभैरवी उवाच साक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरो नाम्नां शक्तिसहस्रनाम भाविकं ज्ञानादि चाष्टोत्तरम् । योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषाचीतैः सेव्यं पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो ॥ २ ॥ अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्रनाम्नः स्तोत्रस्य सदाशिव ऋषिः , गायत्रीच्छन्दः , श्रीपरमेश्वरीहाकिनीमहाशक्तिर्देवता , क्लीं बीजं , स्वाहा शक्तिः , सिद्धलक्ष्मीमूलकीलकं , देहान्तर्गत महाकायज्ञानसिद्ध्यर्थे जपे विनियोगः । ॐ हाकिनी वसुधा लक्ष्मी परमात्मकला परा । परप्रिया परातीता परमा परमप्रिया ॥ ३ ॥ परेश्वरी परप्रेमा परब्रह्मस्वरूपिणी । परन्तपा परानन्दा परनाथनिसेविनी ॥ ४ ॥ पराकाशस्थिता पारा पारापारनिरूपिणी । पराकाङ्क्ष्या पराशक्तिः पुरातनतनुः प्रभा ॥ ५ ॥ पञ्चाननप्रिया पूर्वा परदारा परादरा । परदेशगता नाथा परमाह्लादवर्धिनी ॥ ६ ॥ पार्वती परकुलाख्या पराञ्जनसुलोचना । परंब्रह्मप्रिया माया परंब्रह्मप्रकाशिनी ॥ ७ ॥ परंब्रह्मज्ञानगम्या परंब्रह्मेश्वरप्रिमया । पूर्वातीता परातीता अपारमहिमस्थिता ॥ ८ ॥ अपारसागरोद्धारा अपारदुस्तरोद्धरा । परानलशिखाकारा परभ्रूमध्यवासिनी ॥ ९ ॥ परश्रेष्ठा परक्षेत्रवासिनी परमालिनी । पर्वतेश्वरकन्या च पराग्निकोटिसम्भवा ॥ १० ॥ परच्छाया परच्छत्रा परच्छिद्रविनिर्गता । परदेवगतिः प्रेमा पञ्चचूडामणिप्रभा ॥ ११ ॥ पञ्चमी पशुनाथेशी त्रिपञ्चा पञ्चसुन्दरी । पारिजातवनस्था च पारिजातस्रजप्रिया ॥ १२ ॥ परापरविभेदा च परलोकविमुक्तिदा । परतापानलाकारा परस्त्री परजापिनी ॥ १३ ॥ परास्त्रधारिणी पूरवासिनी परमेश्वरी । प्रेमोल्लासकरी प्रेमसन्तानभक्तिदायिनी ॥ १४ ॥ परशब्दप्रिया पौरा परामर्षणकारिणी । प्रसन्ना परयन्त्रस्था प्रसन्ना पद्ममालिनी ॥ १५ ॥ प्रियंवदा परत्राप्ता परधान्यार्थवर्धिनी । परभूमिरता पीता परकातरपूजिता ॥ १६॥ परास्यवाक्यविनता पुरुषस्था पुरञ्जना । प्रौढा मेयहरा प्रीतिवर्धिनी प्रियवर्धिनी ॥ १७ ॥ प्रपञ्चदुःखहन्त्री च प्रपञ्चसारनिर्गता । पुराणनिर्गता पीना पीनस्तनभवोज्ज्वला ॥ १८ ॥ पट्टवस्त्रपरीधाना पट्टसूत्रप्रचालिनी । परद्रव्यप्रदा प्रीता परश्रद्धा परान्तरा ॥ १९ ॥ पावनीया परक्षुब्धा परसारविनाशिनी । परमेव निगूढार्थतत्त्वचिन्ताप्रकाशिनी ॥ २० ॥ प्रचुरार्थप्रदा पृथ्वी पद्मपत्रद्वयस्थिता । प्रसन्नहृदयानन्दा प्रसन्नासनसंस्थिता ॥ २१ ॥ प्रसन्नरत्नमालाढ्या प्रसन्नवनमालिनी । प्रसन्नकरुणानन्दा प्रसन्नहृदयस्थिता ॥ २२ ॥ पराभासरता पूर्वपश्चिमोत्तरदक्षिणा । पवनस्था पानरता पवनाधारविग्रहा ॥ २३ ॥ प्रभुप्रिया प्रभुरता प्रभुभक्तिप्रदायिनी । परतृष्णावर्धिनी च प्रचया परजन्मदा ॥ २४ ॥ परजन्मनिरस्ता च परसञ्चारकारिणी । परजाता पारिजाता पवित्रा पुण्यवर्धिनी ॥ २५ ॥ पापहर्त्री पापकोटिनाशिनी परमोक्षदा । परमाणुरता सूक्ष्मा परमाणुविभञ्जिनी ॥ २६ ॥ परमाणुस्थूलकरी परात्परतरा पथा । पूषणः प्रियकर्त्री च पूषणा पोषणत्रया ॥ २७ ॥ भूपपाला पाशहस्ता प्रचण्डा प्राणरक्षिणी । पयःशिलाऽपूपभक्षा पीयूषपानतत्परा ॥ २८ ॥ पीयूषतृप्तदेहा च पीयूषमथनक्रिया । पीयूषसागरोद्भूता पीयूषस्निग्धदोहिनी ॥ २९ ॥ पीयूषनिर्मलाकारा पीयूषघनविग्रहा । प्राणापानसमानादिपवनस्तम्भनप्रिया ॥ ३० ॥ पवनांशप्रभाकारा प्रेमोद्गतस्वभक्तिदा । पाषाणतनुसंस्था च पाषाणचित्तविग्रहा ॥ ३१ ॥ पश्चिमानन्दनिरता पश्चिमा पश्चिमप्रिया । प्रभाकारतनूग्रा च प्रभाकरमुखी प्रभा ॥ ३२ ॥ सुप्रभा प्रान्तरस्था च प्रेयत्वसाधनप्रिया । अस्थिता पामसी पूर्वनाथपूजितपादुका ॥ ३३ ॥ पादुकामन्त्रसिद्धा च पादुकामन्त्रजापिनी । पादुकामङ्गलस्था च पादुकाम्भोजराजिनी ॥ ३४ ॥ प्रभाभारुणकोटिस्था प्रचण्डसूर्यकोटिगा । पालयन्ती त्रिलोकानां परमा परहाकिनी ॥ ३५ ॥ परावरानना प्रज्ञा प्रान्तरान्तःप्रसिद्धिदा । पारिजातवनोन्मादा परमोन्मादरागिणी ॥ ३६ ॥ परमाह्लादमोदा च परमाकाशवाहिनी । परमाकाशदेवी च प्रथात्रिपुरसुन्दरी ॥ ३७ ॥ प्रतिकूलकरी प्राणानुकूलपरिकारिणी । प्राणरुद्रेश्वरप्रीता प्रचण्डगणनायिका ॥ ३८ ॥ पोष्ट्री पौत्रादिरक्षत्री पुण्ड्रका पञ्चचामरा । परयोषा परप्राया परसन्तानरक्षका ॥ ३९ ॥ परयोगिरता पाशपशुपाशविमोहिनी । पशुपाशप्रदा पूज्या प्रसादगुणदायिनी ॥ ४० ॥ प्रह्लादस्था प्रफुल्लाब्जमुखी परमसुन्दरी । पररामा परारामा पार्वणी पार्वणप्रिया ॥ ४१ ॥ प्रियङ्करी पूर्वमाता पालनाख्या परासरा । पराशरसुभाग्यस्था परकान्तिनितम्बिनी ॥ ४२ ॥ परश्मशानगम्या च प्रियचन्द्रमुखीपला । पलसानकरी प्लक्षा प्लवङ्गगणपूजिता ॥ ४३ ॥ प्लक्षस्था पल्लवस्था च पङ्केरुहमुखी पटा । पटाकारस्थिता पाठ्या पवित्रलोकदायिनी ॥ ४४ ॥ पवित्रमन्त्रजाप्यस्था पवित्रस्थानवासिनी । पवित्रालङ्कृताङ्गी च पवित्रदेहधारिणी ॥ ४५ ॥ त्रिपुरा परमैश्वर्यपूजिता सर्वपूजिता । पलालप्रियहृद्या च पलालचर्वणप्रिया ॥ ४६ ॥ परगोगणगोप्या च प्रभुस्त्रीरौद्रतैजसी । प्रफुल्लाम्भोजवदना प्रफुल्लपद्ममालिनी ॥ ४७ ॥ पुष्पप्रिया पुष्पकुला कुलपुष्पप्रियाकुला । पुष्पस्था पुष्पसङ्काशा पुष्पकोमलविग्रहा ॥ ४८ ॥ पौष्पी पानरता पुष्पमधुपानरता प्रचा । प्रतीची प्रचयाह्लादो प्राचनाख्या च प्राञ्चिका ॥ ४९ ॥ परोदरे गुणानन्दा परौदार्यगुणप्रिया । पारा कोटिध्वनिरता पद्मसूत्रप्रबोधिनी ॥ ५० ॥ प्रियप्रबोधनिरता प्रचण्डनादमोहिनी । पीवरा पीवरग्रन्थिप्रभेदा प्रलयापहा ॥ ५१ ॥ प्रलया प्रलयानन्दा प्रलयस्था प्रयोगिनी । प्रयोगकुशला पक्षा पक्षभेदप्रकाशिनी ॥ ५२ ॥ एकपक्षा द्विपक्षा च पञ्चपक्षप्रसिद्धिदा । पलाशकुसुमानन्दा पलाशपुष्पमालिनी ॥ ५३ ॥ पलाशपुष्पहोमस्था पलाशच्छदसंस्थिता । पात्रपक्षा पीतवस्त्रा पीतवर्णप्रकाशिनी ॥ ५४ ॥ निपीतकालकूटी च पीतसंसारसागरा । पद्मपत्रजलस्था च पद्मपत्रनिवासिनी ॥ ५५ ॥ पद्ममाला पापहरा पट्टाम्बरधरा परा । परनिर्वाणदात्री च पराशा परशासना ॥ ५६ ॥ अप्रियविनिहन्त्री च परसंस्कारपालिनी । प्रतिष्ठा पूजिता सिद्धा प्रसिद्धप्रभुवादिनी ॥ ५७ ॥ प्रयाससिद्धिदा क्षुब्धा प्रपञ्चगुणनाशिनी । प्रणिपत्या प्राणिशिष्या प्रतिष्ठिततनूप्रिया ॥ ५८ ॥ अप्रतिष्ठा निहन्त्री च पादपद्मद्वयान्विता । पादाम्बुजप्रेमभक्तिपूज्यप्राणप्रदायिनी ॥ ५९ ॥ पैशाची च प्रक्षपिता पितृश्रद्धा पितामही । प्रपितामहपूज्या च पितृलोकस्वधापरा ॥ ६० ॥ पुनर्भवा पुनर्जीवा पौनःपुन्यगतिस्थिता । प्रधानबलिभक्षादिसुप्रिया प्रियसाक्षिणी ॥ ६१ ॥ पतङ्गकोटिजीवाख्या पावकस्था च पावनी । परज्ञानार्थदात्री च परतन्त्रार्थसाधिनी ॥ ६२ ॥ प्रत्यग्ज्योतिः स्वरूपा च प्रथमाप्रथमारुणा । प्रातःसन्ध्या पार्थसन्ध्या परसन्ध्यास्वरूपिणी ॥ ६३ ॥ प्रधानवरदा प्राणज्ञाननिर्णयकारिणी । प्रभञ्जना प्राञ्जनेशी प्रयोगोद्रेककारिणी ॥ ६४ ॥ प्रफुल्लपददात्री च प्रसमाया पुरोदया । पर्वतप्राणरक्षत्री पर्वताधारसाक्षिणी ॥ ६५ ॥ पर्वतप्राणशोभा च पर्वतच्छत्रकारिणी । पर्वता ज्ञानहर्त्री च प्रलयोदयसाक्षिणी ॥ ६६ ॥ प्रारब्धजननी काली प्रद्युम्नजननी सुरा । प्राक्सुरेश्वरपत्नी च परवीरकुलापहा ॥ ६७ ॥ परवीरनियन्त्री च परप्रणवमालिनी । प्रणवेशी प्रणवगा प्रणवाद्याक्षरप्रिया ॥ ६८ ॥ प्रणवार्णजपप्रीता प्राणमृत्युञ्जयप्रदा । प्रणवालङ्कृता व्यूढा पशुभक्षणतर्पणा ॥ ६९ ॥ पशुदोषहरा पाशुपतास्त्रकोटिधारिणी । प्रवेशिनी प्रवेशाख्या पद्मपत्रत्रिलोचना ॥ ७० ॥ पशुमांसासवानन्दा पशुकोटिबलिप्रिया । पशुधर्मक्षया प्रार्या पशुतर्पणकारिणी ॥ ७१ ॥ पशुश्रद्धाकरी पूज्या पशुमुण्डसुमालिनी । परवीरयोगशिक्षा परसिद्धान्तयोगिनी ॥ ७२ ॥ परशुक्रोधमुख्यास्त्रा परशुप्रलयप्रदा । पद्मरागमालधरा पद्मरागासनस्थिता ॥ ७३ ॥ पद्मरागमणिश्रेणीहारालङ्कारशोभिता । परमधूलिसौन्दर्यमञ्जीरपादुकाम्बुजा ॥ ७४ ॥ हर्त्री समस्तदुःखानां हिरण्यहारशोभिता । हरिणाक्षी हरिस्था च हरा हारावती हिरा ॥ ७५ ॥ हारकुण्डलशोभाढ्या हारकेयूरमण्डिता । हरणस्था हाकिनी च होमकर्मप्रकाशिनी ॥ ७६ ॥ हरिद्रा हरिपूज्या च हरमाला हरेश्वरी । हरातीता हरसिद्धा ह्रींकारी हंसमालिनी ॥ ७७ ॥ हंसमन्त्रस्वरूपा च हंसमण्डलभेदिनी । हंसः सोऽहं मणिकरा हंसराजोपरिस्थिता ॥ ७८ ॥ हीरकाभा हीरकसूकधारिणी हरमेखला । हरकुण्डमेखला च होमदण्डसुमेखला ॥ ७९ ॥ हरधरप्रियानन्दा हलीशानी हरोदया । हरपत्नी हररता संहारविग्रहोज्ज्वला ॥ ८० ॥ संहारनिलया हाला ह्लींबीजप्रणवप्रिया । हलक्षा हक्षवर्णस्था हाकिनी हरमोहिनी ॥ ८१ ॥ हाहाहूहूप्रियानन्दगायनप्रेमसुप्रिया । हरभूतिप्रदा हारप्रिया हीरकमालिनी ॥ ८२ ॥ हीरकाभा हीरकस्था हराधारा हरस्थिता । हालानिषेविता हिन्ता हिन्तालवनसिद्धिदा ॥ ८३ ॥ महामाया महारौद्री महादेवनिषेविता । महानया महादेवी महासिद्धा महोदया ॥ ८४ ॥ महायोगा महाभद्रा महायोगेन्द्रतारिणी । महादीपशिखाकारा महादीपप्रकाशिनी ॥ ८५ ॥ महादीपप्रकाशाख्या महाश्रद्धा महामतिः । महामहीयसी मोहनाशिनी महती महा ॥ ८६ ॥ महाकालपूजिता च महाकालकुलेश्वरी । महायोगीन्द्रजननी मोहसिद्धिप्रदायिनी ॥ ८७ ॥ आहुतिस्थाहुतिरता होतृवेदमनुप्रिया । हैयङ्गबीजभोक्त्री च हैयङ्गबीजसुप्रिया ॥ ८८ ॥ हे सम्बोधनरूपा च हे हेतोः परमात्मजा । हलनाथप्रिया देवी हिताहितविनाशिनी ॥ ८९ ॥ हन्त्री समस्तपापानां हलहेतुप्रदाप्रदा । हलहेतुच्छलस्था च हिलिहिलिप्रयागिनी ॥ ९० ॥ हुतासनमुखी शून्या हरिणी हरतन्त्रदा । हठात्कारगतिप्रीता सुण्टकालङ्कृता इला ॥ ९१ ॥ हलायुधाद्यजननी हिल्लोला हेमबहीणी । हैमी हिमसुता हेमपर्वतश‍ृङ्गसंस्थिरा ॥ ९२ ॥ हरणाख्या हरिप्रेमवर्धिनी हरमोहिनी । हरमाता हरप्रज्ञा हुङ्कारी हरपावनी ॥ ९३ ॥ हेरम्बजननी हट्टमध्यस्थलनिवासिनी । हिमकुन्देन्दुधवला हिमपर्वतवासिनी ॥ ९४ ॥ होतृस्था हरहाला च हेलातीता अहर्गणा । अहङ्कारा हेतुगर्ता हेतुस्था हितकारिणी ॥ ९५ ॥ हतभाग्यनिहन्त्री च हतासद्बुद्धिजीविका । हेतुप्रिया महारात्री अहोराख्या हरोद्गमा ॥ ९६ ॥ अर्हणादिप्रिया चार्हा हाहाकारनिनादिनी । हनुमत्कल्पसंस्थाना हनुमत्सिद्धिदायिनी ॥ ९७ ॥ हलाहलप्रियाघोरा महाभीमा हलायुधा । ह्सौः बीजस्वरूपा च ह्सौं प्रेताख्यजापिनी ॥ ९८ ॥ आह्लादिनी इहानन्दा अर्घ्यक्रान्ता हरार्चना । हरभीतिहराहःका बीजहःकामहक्षरा ॥ ९९ ॥ हेरम्बयोगसिद्धिस्था हेरम्बादिसुतप्रिया । हननाख्या हेतुनाम्नी हठात् सिद्धिप्रयोगदा ॥ १०० ॥ उमा महेश्वरी आद्या अनन्तानन्तशक्तिदा । आधारार्हसुरक्षा च ईश्वरी उग्रतारिणी ॥ १०१ ॥ उषेश्वरी उत्तमा च ऊर्ध्वपद्मविभेदिनी । ऋद्धिसिद्धिप्रदा क्षुल्लाकाशबीजसुसिद्धिदा ॥ १०२ ॥ तृतकस्थातृतकस्था तृस्वराखर्वबीजगा । एरण्डपुष्पहोमाढ्या ऐश्वर्यदानतत्परा ॥ १०३ ॥ ओड्रपुष्पप्रिया ॐकाराक्षरा औषधप्रिया । अर्वणासारः अंशाख्या अःस्था च कपिला कला ॥ १०४ ॥ कैलासस्था कामधेनुः खर्वा खेटकधारिणी । खरपुष्पप्रिया खड्गधारिणी खरगामिनी ॥ १०५ ॥ गभीरा गीतगायत्री गुर्वा गुरुतरा गया । घनकोटिनादकरी घर्घरा घोरनादिनी ॥ १०६ ॥ घनच्छाया चारुवर्णा चण्डिका चारुहासिनी । चारुचन्द्रमुखी चारुचित्तभावार्थगामिनी ॥ १०७ ॥ छत्राकिनी छलच्छिन्ना छागमांसविनोदिनी । जयदा जीवी जन्या च जीमूतैरुपशोभिता ॥ १०८ ॥ जयित्री जयमुण्डाली झङ्कारी झञ्जनादिका । टङ्कारधारिणी टङ्कबाणकार्मुकधारिणी ॥ १०९ ॥ ठकुराणी ठठङ्कारी डामरेशी च डिण्डिमा । ढक्कानादप्रिया ढक्का तवमाला तलातला ॥ ११० ॥ तिमिरा तारिणी तारा तरुणा तालसिद्धिदा । तृप्ता च तैजसी चैव तुलनातलवासिनी ॥ १११ ॥ तोषणा तौलिनी तैलगन्धामोदितदिङ्मुखी । स्थूलप्रिया थकाराद्या स्थितिरूपा च संस्थिरा ॥ ११२ ॥ दक्षिणदेहनादाक्षा दक्षपत्नी च दक्षजा । दारिद्र्यदोषहन्त्री च दारुणास्त्रविभञ्जिनी ॥ ११३ ॥ दंष्ट्रकरालवदनी दीर्घमात्रादलान्विता । देवमाता देवसेना देवपूज्या दयादशा ॥ ११४ ॥ दीक्षादानप्रदा दैन्यहन्त्री दीर्घसुकुन्तला । दनुजेन्द्रनिहन्त्री च दनुजारिविमर्दिनी ॥ ११५ ॥ देशपूज्या दायदात्री दशनास्त्रप्रधारिणी । दासरक्षा देशरक्षा दिगम्बरदिगम्बरी ॥ ११६ ॥ दिक्प्रभापाटलव्याप्ता दरीगृहनिवासिनी । दर्शनस्था दार्शनिका दत्तभार्या च दुर्गहा ॥ ११७ ॥ दुर्गा दीर्घमुखी दुःखनाशिनी दिविसंस्थिता । धन्या धनप्रदा धारा धरणी धारिणी धरा ॥ ११८ ॥ धृतसौन्दर्यवदना धनदा धान्यवर्धिनी । ध्यानप्राप्ता ध्यानगम्या ध्यानज्ञानप्रकाशिनी ॥ ११९ ॥ ध्येया धीरपूजिता च धूमेशी च धुरन्धरा । धूमकेतुहरा धूमा ध्येया सर्वसुरेश्वरई ॥ १२० ॥ धर्मार्थमोक्षदा धर्मचिन्ता धर्मप्रकाशिनी । धूलिरूपा च धवला धवलच्छत्रधारिणी ॥ १२१ ॥ धवलाम्बरधात्री च धवलासनसंस्थिता । धवला हिमालयधरा धरणी साधनक्रिया ॥ १२२ ॥ धवलेश्वरकन्या च धवलाध्वाधलामुखी । धीरकन्या धर्मकन्या ध्रुवसिद्धिप्रदायिनी ॥ १२३ ॥ ध्रुवानन्दा ध्रुवश्रद्धा ध्रुवसन्तोषवर्धिनी । नारिकेलजलस्नाता नारिकेलफलासना ॥ १२४ ॥ नारी नारायणीशाना नम्रपूजनसुप्रिया । नरदेवरता नित्यगणगन्धर्वपूजिता ॥ १२५ ॥ नरकविहारिणी चैव नरकान्तककारिणी । नरक्षेत्रकलादेवी नवकोशनिवासिनी ॥ १२६ ॥ नाक्षत्रविद्या नाक्षत्री नक्षत्रमण्डलस्थिता । नृपोन्नाशकरी नारायणी नूपुरधारिणी ॥ १२७ ॥ नृत्यगीतप्रियानीता नवीना नामशायिनी । नौनूतनास्त्रधरा नित्या नवपुष्पवनस्थिता ॥ १२८ ॥ नवपुष्पप्रेमरता नवचम्पकमालिनी । नवरत्नहारमाला नवजाम्बूनदप्रभा ॥ १२९ ॥ नमस्कारप्रिया निन्दा वादनादप्रणाशिनी । पवनाक्षरमाला च पवनाक्षरमालिनी ॥ १३० ॥ परदोषभयङ्कारा प्रचरद्रूपसंस्थिता । प्रस्फुटिताम्भोजमालाधारिणी प्रेमवासिनी ॥ १३१ ॥ परमानन्दसप्तानहरी पृथुनितम्बिनी । प्रवालमाला लोभाङ्गी पयोदा शतविग्रहा ॥ १३२ ॥ पयोदकरुणाकारा पारम्पर्याप्रसादिनी । प्रारम्भकर्मनिरता प्रारब्धभोगदायिनी ॥ १३३ ॥ प्रेमसिद्धिकरी प्रेमधारा गङ्गाम्बुशोभिनी । फेरुपुण्यवरानन्दा फेरुभोजनतोषिणी ॥ १३४ ॥ फलदा फलवर्धा च फलाह्लादविनोदिनी । फणिमालाधरा देवी फणिहारादिशोभिनी ॥ १३५ ॥ फणा फणीकारमुखी फणस्था फणिमण्डला । सहस्रफणिसम्प्राप्ता फुल्लारविन्दमालिनी ॥ १३६ ॥ वासुकी व्यासपूज्या च वासुदेवार्चनप्रिया । वासुदेवकलावाच्या वाचकस्था वसुस्थिता ॥ १३७ ॥ वज्रदण्डधराधारा विरदा वादसाधिनी । वसन्तकालनिलया वसोर्द्धारा वसुन्धरा ॥ १३८ ॥ वेपमानरक्षका च वपूरक्षा वृषासना । विवस्वत्प्रेमकुशला विद्यावाद्यविनोदिनी ॥ १३९ ॥ विधिविद्याप्रकाशा च विधिसिद्धान्तदायिनी । विधिज्ञा वेदकुशला वेदवाक्यविवासिनी ॥ १४० ॥ बलदेवपूजिता च बालभावप्रपूजिता । बाला वसुमती वेद्या वृद्धमाता बुधप्रिया ॥ १४१ ॥ बृहस्पतिप्रिया वीरपूजिता बालचन्द्रिका । विग्रहज्ञानरक्षा च व्याघ्रचर्मधरावरा ॥ १४२ ॥ व्यथाबोधापहन्त्री च विसर्गमण्डलस्थिता । बाणभूषापूजिता वनमाला विहायसी ॥ १४३ ॥ वामदेवप्रिया वामपूजाजापपरायणा । भद्रा भ्रमरवर्णा च भ्रामरी भ्रमरप्रभा ॥ १४४ ॥ भालचन्द्रधरा भीमा भीमनेत्राभवाभवा । भीममुखी भीमदेहा भीमविक्रमकारिणी ॥ १४५ ॥ भीमश्रद्धा भीमपूज्या भीमाकारातिसुन्दरी । भीमसङ्ग्रामजयदा भीमाद्या भीमभैरवी ॥ १४६ ॥ भैरवेशी भैरवी च सदानन्दादिभैरवी । सदानन्दभैरवी च भैरवेन्द्रप्रियङ्करी ॥ १४७ ॥ भल्लास्त्रधारिणी भैमी भृगुवंशप्रकाशिनी । भर्गपत्नी भर्गमाता भङ्गस्था भङ्गभक्षिणी ॥ १४८ ॥ भक्षप्रिया भक्षरता भृकुण्डा भावभैरवी । भावदा भवदा भावप्रभावा भावनाशिनी ॥ १४९ ॥ भालसिन्दूरतिलका भाललोकसुकुण्डला । भालमालालकाशोभा भासयन्ती भवार्णवा ॥ १५० ॥ भवभीतिहरा भालचन्द्रमण्डलवासिनी । मद्भ्रमरनेत्राब्जसुन्दरी भीमसुन्दरी ॥ १५१ ॥ भजनप्रियरूपा च भावभोजनसिद्धिदा । भ्रूचन्द्रनिरता बिन्दुचक्रभ्रूपद्मभेदिनी ॥ १५२ ॥ भवपाशहरा भीमभावकन्दनिवासिनी । मनोयोगसिद्धिदात्री मानसी मनसो मही ॥ १५३ ॥ महती मीनभक्षा च मीनचर्वणतत्परा । मीनावतारनिरता मांसचर्वणतत्परा ॥ १५४ ॥ मांसप्रिया मांससिद्धा सिद्धमांसविनोदिनी । माया महावीरपूज्या मधुप्रेमदिगम्बरी ॥ १५५ ॥ माधवी मदिरामध्या मधुमांसनिषेविता । मीनमुद्राभक्षिणी च मीनमुद्रापतर्पिणी ॥ १५६ ॥ मुद्रामैथुनसंतृप्ता मैथुनानन्दवर्धिनी । मैथुनज्ञानमोक्षस्था महामहिषमर्दिनी ॥ १५७ ॥ यज्ञश्रद्धा योगसिद्धा यत्नी यत्नप्रकाशिनी । यशोदा यशसि प्रीता यौवनस्था यमापहा ॥ १५८ ॥ रासश्रद्धातुरारामरमणीरमणप्रिया । राज्यदा रजनीराजवल्लभा रामसुन्दरी ॥ १५९ ॥ रतिश्चारतिरूपा च रुद्रलोकसरस्वती । रुद्राणी रणचामुण्डा रघुवंशप्रकाशिनी ॥ १६० ॥ लक्ष्मीर्लीलावती लोका लावण्यकोटिसम्भवा । लोकातीता लक्षणाख्या लिङ्गधारा लवङ्गदा ॥ १६१ ॥ लवङ्गपुष्पनिरता लवङ्गतरुसंस्थिता । लेलिहाना लयकरी लीलादेहप्रकाशिनी ॥ १६२ ॥ लाक्षाशोभाधरा लङ्का रत्नमासवधारिणी । लक्षजापसिद्धिकरी लक्षमन्त्रप्रकाशिनी ॥ १६३ ॥ वशिनी वशकर्त्री च वश्यकर्मनिवासिनी । वेशावेश्या वेशवेश्या वंशिनी वंशवर्धिनी ॥ १६४ ॥ वंशमाया वज्रशब्दमोहिनी शब्दरूपिणी । शिवा शिवमयी शिक्षा शशिचूडामणिप्रभा ॥ १६५ ॥ शवयुग्मभीतिदा च शवयुग्मभयानका । शवस्था शववक्षस्था शाब्दबोधप्रकाशिनी ॥ १६६ ॥ षट्पद्मभेदिनी षट्का षट्कोणयन्त्रमध्यगा । षट्चक्रसारदा सारा सारात्सारसरोरुहा ॥ १६७ ॥ समनादिनिहन्त्री च सिद्धिदा संशयापहा । संसारपूजिता धन्या सप्तमण्डलसाक्षिणी ॥ १६८ ॥ सुन्दरी सुन्दरप्रीता सुन्दरानन्दवर्धिनी । सुन्दरास्या सुनवस्त्री सौन्दर्यसिद्धिदायिनी ॥ १६९ ॥ त्रिसुन्दरी सर्वरी च सर्वा त्रिपुरसुन्दरी । श्यामला सर्वमाता च सख्यभावप्रिया स्वरा ॥ १७० ॥ साक्षात्कारस्थिता साक्षात्साक्षिणी सर्वसाक्षिणी । हाकिनी शाकिनीमाता शाकिनी काकिनीप्रिया ॥ १७१ ॥ हाकिनी लाकिनीमाता हाकिनी राकिणीप्रिया । हाकिनी डाकिनीमाता हरा कुण्डलिनी हया ॥ १७२ ॥ हयस्था हयतेजःस्था ह्सौंबीजप्रकाशिनी । लवणाम्बुस्थिता लक्षग्रन्थिभेदनकारिणी ॥ १७३ ॥ लक्षकोटिभास्कराभा लक्षब्रह्माण्डकारिणी । क्षणदण्डपलाकारा क्षपाक्षोभविनाशिनी ॥ १७४ ॥ क्षेत्रपालादिवटुकगणेशयोगिनीप्रिया । क्षयरोगहरा क्षौणी क्षालनस्थाक्षरप्रिया ॥ १७५ ॥ क्षाद्यस्वरान्तसिद्धिस्था क्षादिकान्तप्रकाशिनी । क्षाराम्बुतिक्तनिकरा क्षितिदुःखविनाशिनी ॥ १७६ ॥ क्षुन्निवृत्तिः क्षणज्ञानी वल्लभा क्षणभङ्गुरा । इत्येतत् कथितं नाथ हाकिन्याः कुलशेखर ॥ १७७ ॥ सहस्रनामयोगाङ्गमष्टोत्तरशतान्वितम् । यः पठेन्नियतः श्रीमान् स योगी नात्र संशयः ॥ १७८ ॥ अस्य स्मरणमात्रेण वीरो योगेश्वरो भवेत् । अस्यापि च फलं वक्तुं कोटिवर्षशतैरपि ॥ १७९ ॥ शक्यते नापि सहसा संक्षेपात् श‍ृणु सत्फलम् । आयुरारोग्यमाप्नोति विश्वासं श्रीगुरोः पदैः ॥ १८० ॥ सारसिद्धिकरं पुण्यं पवित्रं पापनाशनम् । अत्यन्तदुःखदहनं सर्वसौभाग्यदायकम् ॥ १८१ ॥ पठनात् सर्वदा योगसिद्धिमाप्नोति योगिराट् । देहसिद्धिः काव्यसिद्धिर्ज्ञानसिद्धिर्भवेद् ध्रुवम् ॥ १८२ ॥ वाचां सिद्धिः खड्गसिद्धिः खेचरत्वमवाप्नुयात् । त्रैलोक्यवल्लभो योगी सर्वकामार्थसिद्धिभाक् ॥ १८३ ॥ अप्रकाश्यं महारत्नं पठित्वा सिद्धिमाप्नुयात् । अस्य प्रपठनेनापि भ्रूपद्मे चित्तमर्पयन् ॥ १८४ ॥ यशोभाग्यमवाप्नोतिराजराजेश्वरो भवेत् । डाकिनीसिद्धिमाप्नोति कुण्डलीवशमानयेत् ॥ १८५ ॥ ध्यानात्मा साधकेन्द्रश्च यतिर्भूत्वा शुभे दिने । ध्यानं कुर्यात् पद्ममध्यकर्णिकायां शिखालये ॥ १८६ ॥ भ्रूमध्ये चक्रसारे च ध्यात्वा ध्यात्वा पठेद् यदि । राकिणीसिद्धिमाप्नोति देवतादर्शनं लभेत् ॥ १८७ ॥ भाग्यसिद्धिमवाप्नोति नित्यं प्रपठनाद्यतः । साक्षात्सिद्धिमवाप्नोति शक्तियुक्तः पठेद्यदि ॥ १८८ ॥ हिरण्याक्षी लाकिनीशा वशमाप्नोति धैर्यवान् । रात्रिशेषे समुत्थाय पठेद् यदि शिवालये ॥ १८९ ॥ पूजान्ते वा जपान्ते वा वारमेकं पठेद्यदि । वीरसिद्धिमवाप्नोति काकिनीवशमानयेत् ॥ १९० ॥ रात्रिं व्याप्य पठेद्यस्तु शुद्धचेता जितेन्द्रियः । शय्यायां चण्डिकागेहे मधुगेहेऽथवा पुनः ॥ १९१ ॥ शाकिनीसिद्धिमाप्नोति सर्वदेशे च सर्वदा । प्रभाते च समुत्थाय शुद्धात्मा पञ्चमे दिने ॥ १९२ ॥ अमावास्यासु विज्ञायां श्रवणायां विशेषतः । शुक्लपक्षे नवम्यां तु कृष्णपक्षेऽष्टमीदिने ॥ १९३ ॥ भार्यायुक्तः पठेद्यस्तु वशमाप्नोति भूपतिम् । एकाकी निर्जने देशे कामजेता महाबली ॥ १९४ ॥ प्रपठेद् रात्रिशेषे च स भवेत् साधकोत्तमः । कल्पद्रुमसमो दाता देवजेता न संशयः ॥ १९५ ॥ शिवशक्तिमध्यभागे यन्त्रं संस्थाप्य यत्नतः । प्रपठेत् साधकेन्द्रश्च सर्वज्ञाता स्थिराशयः ॥ १९६ ॥ एकान्तनिर्जने रम्ये तपःसिद्धिफलोदये । देशे स्थित्वा पठेद्यस्तु जीवन्मुक्ति फलं लभेत् ॥ १९७ ॥ अकालेऽपि सकालेऽपि पठित्वा सिद्धिमाप्नुयात् । त्रिकालं यस्तु पठति प्रान्तरे वा चतुष्पथे ॥ १९८ ॥ योगिनीनां पतिः साक्षादायुर्वृद्धिदीने दिने । वारमेकं पठेद्यस्तु मूर्खो वा पण्डितोऽपि वा ॥ १९९ ॥ वाचामीशो भवेत् क्षिप्रं योगयुक्तो भवेद् ध्रुवम् । सम्भावितो भवेदेकं वारपाठेन भैरव ॥ २०० ॥ जित्वा कालमहामृत्युं देवीभक्तिमवाप्नुयात् । पठित्वा वारमेकं तु यात्रां कुर्वन्ति ये जनाः ॥ २०१ ॥ देवीदर्शनसिद्धिञ्च प्राप्तो योगमवाप्नुयात् । प्रत्येकं नाममुच्चार्य यो यागमनुसञ्चरेत् ॥ २०२ ॥ स भवेन्मम पुत्रो हि सर्वकामफलं लभेत् । सर्वयज्ञफलं ज्ञानसिद्धिमाप्नोति योगिराट् ॥ २०३ ॥ भूतले भूभृतांनाथो महासिद्धो महाकविः । कण्ठे शीर्षे दक्षभुजे पुरुषो धारयेद्यदि ॥ २०४ ॥ योषिद्वामभुजे धृत्वा सर्वसिद्धिमवाप्नुयात् । गोरोचनाकुङ्कुमेन रक्तचन्दनकेन च ॥ २०५ ॥ यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः । आद्या देवी परप्राणसिद्धिमाप्नोति निश्चितम् ॥ २०६ ॥ लिङ्गं पीठे पूर्णिमायां कृष्णचतुर्दशीदिने । भौमवारे मध्यरात्रौ पठित्वा कामसिद्धिभाक् ॥ २०७ ॥ किं न सिद्ध्यति भूखण्डे अजरामर एव सः । रमणीकोटिभर्ता स्याद् वर्षद्वादशपाठतः ॥ २०८ ॥ अष्टवर्षप्रपाठेन कायप्रवेशसिद्धिभाक् । षड्वर्षमात्रपाठेन कुबेरसदृशो धनी ॥ २०९ ॥ वारैकमात्रपाठेन वर्षे वर्षे दिने दिने । स भवेत् पञ्चतत्त्वज्ञो तत्त्वज्ञानी न संशयः ॥ २१० ॥ सर्वपापविनिर्मुक्तो वसेत् कल्पत्रयं भुवि । यः पठेत् सप्तधा नाथ सप्ताहनि दिने दिने ॥ २११ ॥ रात्रौ वारत्रयं धीमान् पठित्वा खेचरो भवेत् । अश्विनी शुक्लपक्षे च रोहिण्यसितपक्षके ॥ २१२ ॥ अष्टम्यां हि नवम्यां तु पठेद् वारत्रयं निशि । दिवसे वारमेकं तु स भवेत् पञ्चतत्त्ववित् ॥ २१३ ॥ अनायासेन देवेश पञ्चामरादिसिद्धिभाक् । खेचरीमेलनं तस्य नित्यं भवति निश्चितम् ॥ २१४ ॥ स्वर्गे मर्त्ये च पाताले क्षणान्निःसरति ध्रुवम् । अग्निस्तम्भं जलस्तम्भं वातस्तम्भं करोति सः ॥ २१५ ॥ पञ्चतत्त्वक्रमेणैव श्मशाने यस्तु सम्पठेत् । स भवेद् देवदेवेशः सिद्धान्तसारपण्डितः ॥ २१६ ॥ शूकरासवसंयुक्तः कुलद्रव्येण वा पुनः । बिल्वमूले पीठमूले विधानेन प्रपूजयेत् । परेण परमा देवी तुष्टा भवति सिद्धिदा ॥ २१७ ॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवभैरवीसंवादे हाकिनीसहस्रनामस्तोत्रं सम्पूर्णम् ॥