अक्षर आकार:

हाकिनी परनाथ स्तोत्रम्

Hakini Paranatha Stotram

हाकिनी परनाथ स्तोत्रम्

अथ त्र्यशीतितमः पटलः श्रीआनन्दभैरव उवाच कथयस्व वरारोहे हाकिनीस्तोत्रमुत्तमम् । यस्य प्रपाठनाद् वाग्मी कृपायासे दयामयि ॥ ८३-१॥ श्रीआनन्दभैरवी उवाच अत्यद्भुतं स्तोत्रवरं श‍ृणु प्रभो सर्वेश्वरैर्भावितमादिगुह्यम् । यैः पठ्यते साधकचक्रनाथैस्तैरेव सिद्धैरतिधर्मविद्भिः ॥ ८३-२॥ ब्रह्माख्यां कामविद्यां नरहरिजननीं कामकूटस्वरूपाम् । हाकिन्याख्यां शम्भुजायां त्रिवधुमदनशां तारिणीं स्तौमि सिद्धाम् । हेरम्बानन्दविद्यां त्रिसमनदमनीं दीर्घकेशीं त्रिनेत्राम् । मन्दारारण्यमध्ये विकसितवदनाम्भोजहासप्रकाशाम् ॥ ८३-३॥ हिरण्यालङ्कारां त्रितयनयनां पट्टवसनां महास्निग्धां शुद्धां कुलजनवरामिन्दुवदनाम् । सदा स्तौति श्रीदां भुवनकरुणां भावतरुणां त्रिवेणीश्वेताभां वसमयतनुं भ्रूयुगदले ॥ ८३-४॥ महापद्मवनोद्रेकरम्यस्थाननिवासिनि । हाकिनि त्वां मुदा स्तौमि तद्धर्मकुरुपागताम् ॥ ८३-५॥ संसारार्णवतारिणीं नरहरिप्रेमाभिलाषोन्मनीं भावारम्भविसर्जनैकनिलया मायां महासुन्दरीम् । भास्वत्कोटिसुरत्नसिंहवसतिं श्रीहाकिनीं द्राविणीं स्तौमि क्षेत्रनिरीक्षणाय नियतां श्रीभारतीभाविताम् ॥ ८३-६॥ संस्कारश्रियमातनोति सहसा श्रीपार्वतीवल्लभे । नानारत्नकलापदर्शनमहाज्ञानं निदानं धनम् । सा साक्षादखिलेश्वरी परशिवानन्दैकबिन्दूज्ज्वला । मामादौ परिरक्षतु प्रियकरी संस्तौमि पीठान्तरे ॥ ८३-७॥ आकाशवेदलिङ्गे स्थितिपथिमिलिते भाति सा रक्तबर्हा सा मां पात्वम्ब काली कुलपथभविका क्रोधनिःक्रोधकर्त्री । तस्याः श्रीपादपद्मत्रिभुवनभक्तकेशालिमाला युक्तं सर्वेन्द्रपूज्यं निरवधिकमले द्वे दले स्तौमि विद्याम् ॥ ८३-८॥ साङ्गं द्वयं त्वत्प्रियं पदयुगं पत्रद्वयश्रेयसं मञ्जीराद्भुतहारपादकमलं सम्भाव्य संस्तौम्यहम् । यद् ध्यात्वा हरिरीश्वरो गुणधरो जेता महारेःक्षणा- दाशापाशविसर्जनैकनिलयं त्रैलोक्यसंरक्षकः ॥ ८३-९॥ या यात्रा व्रतवासिनी शशिमुखी छागादिमांसप्रिया । मामेकं परिपालय त्वमखिले त्वामेकरूपां शिवाम् । स्तौमीन्द्रावनतिप्रियां वाङ्मोक्षसहितानन्दैकहेतुप्रदाम् ॥ ८३-१०॥ शिवस्तुतिः वरं परं नमाम्यहं गिरीन्द्ररूपगर्वहं महेश्वरं परेश्वरं श्मशानबीजगह्वरम् । हिरण्यरत्नभूषणं शतेन्दुतेजसं तथा शिवं तनुं पुनः परप्रभाप्रभाकरम् ॥ ८३-११॥ शरेण्यं वरेण्यं महाकामधन्यं महादेवदेवं त्रिकालादिजन्यम् । श्मशानोग्रधूलिप्रियाङ्गानुलेपं सदा स्तौमि संसारसारं निषेकम् ॥ ८३-१२॥ परशिवं मनसा सहसा निशि प्रतिदिनं प्रणमाम्यहमादिमम् । शशिमुखीशतचन्द्रिकयान्वितं भजनसाधक सत्फलदायकम् ॥ ८३-१३॥ परशिवचरणाब्जं हाकिनीशक्तिसेव्यं त्रिभुवनसुखदानं ध्यानमात्रप्रकाशम् । अतिसुललितहस्ताम्भोजशोभां वहन्तं भुवि निजकुलसारं स्तौमि योगीन्द्रगम्यम् ॥ ८३-१४॥ शोक्कशोकावलीलामति हि कलयति प्राणदेहाभिलाषं हाकिन्याः प्राणनाथो भवशमनकरो हीरकास्रग्धरो वा । सोऽसौ भ्रूपद्मसारे रचयित कलिकां चित्तदीपस्य नित्यां तस्य श्रीपादपद्मं गुणगणयजितं पूजितं स्तौमि भाले ॥ ८३-१५॥ मेरुश‍ृङ्गनिकेतनैकवसनं गोलोकसंसेवितं यज्ञानन्दनिषेवितं परिशवं योगीन्द्रचित्तस्थलम् । हालापाननिराकुलं पशुसमां सामोदनाचर्वणां वन्दे नन्दिमहादिभैरववरैर्वन्द्यं जगत्कारणम् ॥ ८३-१६॥ मायापथच्छलकलाकपिलापतिस्त्वं त्वं भूरविपतिरूपापतिरेकचक्रः । आपोऽनलत्वमखिले गगनप्रकाशा- वायुस्थमावसिमुखं शरणं प्रपद्ये ॥ ८३-१७॥ वाञ्छाकल्पद्रुमतलगतं हेमसिंहासनस्थं श्रीहाकिन्या रमणनिरतं कामकेलिप्रकाशम् । मायामोहं क्षयमतिसुखं विन्ध्यशैलाग्रसंस्थं वन्दे नाथं हरपरशिवं रूपजालप्रकाशम् ॥ ८३-१८॥ फलश्रुतिकथनं पठेद् यः स्तोत्रार्थं भवति स सुखी योगनिपुणः क्षुधातृष्णानाशः श्रवणधृतयशोवासिसरसः । स योगीन्द्रो मासादतिशयपरानन्दघटकः परीतः प्राणाख्ये रचयति सुधासिन्धुसुरसम् ॥ ८३-१९॥ एतत् स्तोत्रं पठेद्विद्वान् ध्यान न्यास समन्वितम् । शुक्लं रक्तं तथा पीतं नीलं कृष्णं विभाव्य च ॥ ८३-२०॥ कालचतुष्टये नित्यं पठित्वा सिद्धिमाप्नुयात् । आकाशे भूतले नाथ पाताले विघ्नकोटयः ॥ ८३-२१॥ योगिनां पठनादेव नश्यन्ति तत्क्षणादिह । सर्वत्र गामी स भवेदतिभाग्यफलोदयम् ॥ ८३-२२॥ महापापहरं स्तोत्रं हाकिनीहृदयोद्भवम् । सदाशिवप्रियं योगसिद्धिदं देवसेवितम् ॥ ८३-२३॥ सहस्रवारपाठेन पुरश्चर्याफलं लभेत् । पठित्वा स्तोत्रराजं तु श्मशाने निर्जने वने ॥ ८३-२४॥ अन्तरिक्षेऽथवा नाथ योगी स्यादमरो महान् । अस्य प्रपठनाद्वाग्मी ज्ञानवान् विजितेन्द्रियः ॥ ८३-२५॥ ध्यानात्मा सम्भवेत् क्षिप्रं परिवारगणैः सह । प्रातःकाले निशायां तु मध्याह्ने शेषकालके ॥ ८३-२६॥ प्रपठेत् स्तोत्रसारं तु भावात्मा साधकोत्तमः । अनायासेन भ्रूपद्मे स्थिरो भवति निश्चितम् ॥ ८३-२७॥ श्रीगुरोश्चरणाम्भोजं हृदये ध्याननिर्णयम् । यो ध्यात्वा पठ्यते स्तोत्रं स भवेत् कल्पपादपः ॥ ८३-२८॥ इदानीं कथये नाथ कवचं पटलान्तरे ॥ ८३-२९॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनीपरनाथस्तोत्रविन्यासो नाम त्र्यशीतितमः पटलः ॥ ८३॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.