अक्षर आकार:

गोदास्तुतिः

Godastutih

गोदास्तुतिः

श्रीवेदान्तदेशिकविरचिता । श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं श्रीरङ्गराजहरिचन्दनयोगदृश्याम् । साक्षात्क्षमां करुणया कमलामिवान्यां गोदामनन्यशरणः शरणं प्रपद्ये ॥ १॥ वैदेशिकः श्रुतिगिरामपि भूयसीनां वर्णेषु माति महिमा न हि मादृशां ते । इत्थं विदन्तमपि मां सहसैव गोदे मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ २॥ त्वत्प्रेयसः श्रवणयोरमृतायमानां तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम् । गोदे त्वमेव जननि त्वदभिष्टवार्हां वाचं प्रसन्नमधुरां मम संविधेहि ॥ ३॥ कृष्णान्वयेन दधतीं यमुनानुभावं तीर्थैर्यथावदवगाह्य सरस्वतीं ते । गोदे विकस्वरधियां भवती कटाक्षात् वाचः स्फुरन्ति मकरन्दमुचः कवीनाम् ॥ ४॥ अस्मादृशामपकृतौ चिरदीक्षितानाम् अह्नाय देवि दयते यदसौ मुकुन्दः । तन्निश्चितं नियमितस्तव मौलिदाम्ना तन्त्रीनिनादमधुरैश्च गिरां निगुम्फैः ॥ ५॥ शोणाधरेऽपि कुचयोरपि तुङ्गभद्रा वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् । अप्राकृतैरपि रसैर्विरजा स्वभावात् गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ ६॥ वल्मीकतः श्रवणतो वसुधात्मनस्ते जातो बभूव स मुनिः कविसार्वभौमः । गोदे किमद्भुतमिदं यदमी स्वदन्ते वक्त्रारविन्दमकरन्दनिभाः प्रबन्धाः ॥ ७॥ भोक्तुं तव प्रियतमं भवतीव गोदे भक्तिं निजां प्रणयभावनया गृणन्तः । उच्चावचैर्विरहसङ्गमजैरुदन्तैः श‍ृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ ८॥ मातः समुत्थितवतीमधिविष्णुचित्तं विश्वोपजीव्यममृतं वचसा दुहानाम् । तापच्छदं हिमरुचेरिव मूर्तिमन्यां सन्तः पयोधिदुहितुः सहजां विदुस्त्वाम् ॥ ९॥ तातस्तु ते मधुभिदः स्तुतिलेशवश्यात् कर्णामृतैः स्तुतिशतैरनवाप्तपूर्वम् । त्वन्मौलिगन्धसुभगामुपहृत्य मालां लेभे महत्तरपदानुगुणं प्रसादम् ॥ १०॥ दिग्दक्षिणाऽपि परिपक्त्रिमपुण्यलभ्यात् सर्वोत्तरा भवति देवि तवावतारात् । यत्रैव रङ्गपतिना बहुमानपूर्वं निद्रालुनापि नियतं निहिताः कटाक्षाः ॥ ११॥ प्रायेण देवि भवतीव्यपदेशयोगात् गोदावरी जगदिदं पयसा पुनीते । यस्यां समेत्य समयेषु चिरं निवासात् भागीरथीप्रभृतयोऽपि भवन्ति पुण्याः ॥ १२॥ नागेशयः सुतनु पक्षिरथः कथं ते जातः स्वयंवरपतिः पुरुषः पुराणः । एवं विधाः समुचितं प्रणयं भवत्याः सन्दर्शयन्ति परिहासगिरः सखीनाम् ॥ १३॥ त्वद्भुक्तमाल्यसुरभीकृतचारुमौलेः हित्वा भुजान्तरगतामपि वैजयन्तीम् । पत्युस्तवेश्वरि मिथः प्रतिघातलोलाः बर्हातपत्ररुचिमारचयन्ति भृङ्गाः ॥ १४॥ आमोदवत्यपि सदा हृदयङ्गमाऽपि रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि । मौलिस्रजा तव मुकुन्दकिरीटभाजा गोदे भवत्यधरिता खलु वैजयन्ती ॥ १५॥ त्वन्मौलिदामनि विभोः शिरसा गृहीते स्वच्छन्दकल्पितसपीतिरसप्रमोदाः । मञ्जुस्वना मधुलिहो विदधुः स्वयं ते स्वायंवरं कमपि मङ्गलतूर्यघोषम् ॥ १६॥ विश्वासमानरजसा कमलेन नाभौ वक्षःस्थले च कमलास्तनचन्दनेन । आमोदितोऽपि निगमैर्विभुरङ्घ्रियुग्मे धत्ते नतेन शिरसा तव मौलिमालाम् ॥ १७॥ चूडापदेन परिगृह्य तवोत्तरीयं मालामपि त्वदलकैरधिवास्य दत्ताम् । प्रायेण रङ्गपतिरेष बिभर्ति गोदे सौभाग्यसम्पदभिषेकमहाधिकारम् ॥ १८॥ तुङ्गैरकृत्रिमगिरः स्वयमुत्तमाङ्गैः यं सर्वगन्ध इति सादरमुद्वहन्ति । आमोदमन्यमधिगच्छति मालिकाभिः सोऽपि त्वदीयकुटिलालकवासिताभिः ॥ १९॥ धन्ये समस्तजगतां पितुरुत्तमाङ्गे त्वन्मौलिमाल्यभरसम्भरणेन भूयः । इन्दीवरस्रजमिवादधति त्वदीया- न्याकेकराणि बहुमानविलोकितानि ॥ २०॥ रङ्गेश्वरस्य तव च प्रणयानुबन्धात् अन्योन्यमाल्यपरिवृत्तिमभिष्टुवन्तः । वाचालयन्ति वसुधे रसिकास्त्रिलोकीं न्यूनाधिकत्वसमताविषयैर्विवादैः ॥ २१॥ दूर्वादलप्रतिमया तव देहकान्त्या गोरोचनारुचिरया च रुचेन्दिरायाः । आसीदनुज्झितशिखावलकण्ठशोभं माङ्गल्यदं प्रणमतां मधुवैरिगात्रम् ॥ २२॥ अर्च्यं समर्च्य नियमैर्निगमप्रसूनैः नाथं त्वया कमलया च समेयिवांसम् । मातश्चिरं निरविशन्निजमाधिराज्यं मान्या मनुप्रभृतयोऽपि महीक्षितस्ते ॥ २३॥ आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं रङ्गेश्वरस्य रमया विनिवेद्यमाने । पार्श्वे परत्र भवती यदि तत्र नासीत् प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ २४॥ गोदे गुणैरपनयन् प्रणतापराधान् भ्रूक्षेप एव तव भोगरसानुकूलः । कर्मानुबन्धि फलदानरतस्य भर्तुः स्वातन्त्र्यदुर्व्यसनमर्मभिदा निदानम् ॥ २५॥ रङ्गे तटिद्गुणवतो रमयैव गोदे कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या । दौर्गत्यदुर्विषविनाशसुधानदीं त्वां सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥ २६॥ जातापराधमपि मामनुकम्प्य गोदे गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः । वात्सल्यनिर्भरतया जननी कुमारं स्तन्येन वर्धयति दष्टपयोधराऽपि ॥ २७॥ शतमखमणिनीला चारु कल्हारहस्ता स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः । अलकविनिहिताभिः स्रग्भराकृष्टनाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ २८॥ इति विकसितभक्तेरुत्थतां वेङ्कटेशात् बहुगुणरमणीयां वक्ति गोदास्तुतिं यः । स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः चरणकमलसेवां शाश्वतीमभ्युपैष्यन् ॥ २९॥ इति श्रीवेदान्तदेशिकविरचिता गोदास्तुतिः समाप्ता ।