अक्षर आकार:

गोदाष्टोत्तरशतनामावलिः

godAShTottarashatanAmAvaliH

गोदाष्टोत्तरशतनामावलिः

ॐ श्रीरङ्गनायक्यै नमः । गोदायै । विष्णुचित्तात्मजायै । सत्यै । गोपीवेषधरायै । देव्यै । भूसुतायै । भोगशालिन्यै । तुलसीवनसञ्जातायै । (तुलसीकाननोद्भुतायै) श्रीधन्विपुरवासिन्यै । श्रीभट्टनाथप्रियकर्यै । श्रीकृष्णहितभोगिन्यै । आमुक्तमाल्यदायै । बालायै । श्रीरङ्गनाथप्रियायै । परायै । विश्वम्भरायै । कलालापायै । यतिराजसहोदर्यै । श्रीकृष्णानुरक्तायै नमः ॥ २०॥ ॐ सुभगायै नमः । सुलभश्रियै । श्रीसुलक्षणायै । लक्ष्मीप्रियसख्यै । श्यामायै । दयाञ्चितदृगञ्चलायै । फाल्गुन्याविर्भवायै । रम्यायै । धनुर्मासकृतव्रतायै । चम्पकाशोकपुन्नागमालतीविलसत्कचायै । आकारत्रयसम्पन्नायै । नारायणपदाश्रितायै । श्रीमदष्टाक्षरमन्त्रराजस्थितमनोधरायै । (मनोरथायै) मोक्षप्रदाननिपुणायै । मनुराजाधिदेवतायै । (मनुरत्नाधिदेवतायै) ब्रह्माण्यै । लोकजनन्यै । लीलामानुषरूपिण्यै । ब्रह्मज्ञानप्रदायै । मायायै नमः ॥ ४०॥ ॐ सच्चिदानन्दविग्रहायै नमः । महापतिव्रतायै । विष्णुगुणकीर्तनलोलुपायै । प्रपन्नार्तिहरायै । नित्यायै । वेदसौधविहारिण्यै । श्रीरङ्गनाथमाणिक्यमञ्जरीमञ्जुभाषिण्यै । पद्मप्रियायै । पद्महस्तायै । वेदान्तद्वयबोधिन्यै । सुप्रसन्नायै । भगवत्यै । श्रीजनार्दनजीविकायै । (जनार्दनदीपिकायै) सुगन्धावयवायै । चारुरङ्गमङ्गलदीपिकायै । ध्वजवज्राङ्कुशाब्जमालतिमृदुपादतलञ्छितायै । (कुशाब्जाङ्क) तारकाकारनखरायै । प्रवालमृदुलाङ्गुल्यै । कूर्मोपमेयपादोर्ध्वभागायै । शोभनपार्ष्णिकायै । वेदार्थभावतत्त्वज्ञायै नमः ॥ ६०॥ ॐ लोकाराध्याङ्घ्रिपङ्कजायै नमः । आनन्दबुद्बुदाकारसुगुल्फायै । परमांशकायै । (परमाणुकायै) अतुलप्रतिमाभास्वदङ्गुलीयकभूषितायै । (तेजःश्रियोज्ज्वलधृतपादाङ्गुलिसुभूषितायै) मीनकेतनतूणीरचारुजङ्घाविराजितायै । कुब्जजानुद्वयाढ्यायै । (ककुद्वज्जानुयुग्माढ्यायै) स्वररम्भाभशक्तिकायै । (स्वर्णरम्भाभसक्थिकायै) विशालजघनायै । पीतसुश्रोण्यै । मणिमेखलायै । आनन्दसागरावर्तगम्भीराम्भोजनाभिकायै । भास्वद्बलित्रिकायै । चारुपूर्णलावण्यसंयुतायै । (चारुजगत्पूर्णमहोदर्यै) नवरोमावलिराज्यै । (नववल्लीरोमराज्यै) सुधाकुम्भस्तन्यै । कल्पमालानिभभुजायै । चन्द्रखण्डनखाञ्चितायै । प्रवालाङ्गुलिविन्यस्तमहारत्नाङ्गुलीयकायै । नवारुणप्रवालाभपाणिदेशसमञ्चितायै । कम्बुकण्ठ्यै नमः ॥ ८०॥ ॐ सुचिबुकायै नमः । बिम्बोष्ठ्यै । कुन्ददन्तयुजे । कारुण्यरसनिष्पन्दलोचनद्वयशालिन्यै । (नेत्रद्वयसुशोभितायै) कमनीयप्रभाभास्वच्चाम्पेयनिभनासिकायै । (मुक्ताशुचिस्मिताचरुचाम्पेयनिभनासिकायै) दर्पणाकारविपुलकपोलद्वितयाञ्चितायै । अनन्तार्कप्रकाशोद्यन्मणिताटङ्कशोभितायै । कोटिसूर्याग्निसङ्काशनानाभूषणभूषितायै । सुगन्धवदनायै । सुभ्रवे । अर्धचन्द्रललाटिकायै । पूर्णचन्द्राननायै । नीलकुटिलालकशोभितायै । सौन्दर्यसीमाविलसत्कस्तूरीतिलकोज्ज्वलायै । धगद्धगायमानोद्यन्मणि(सीमन्त) भूषणराजितायै । जाज्ज्वल्यमानसद्रत्नदिव्यचूडावतंसकायै । सूर्यचन्द्रादिकल्याणभूषणाञ्चितवेणिकायै । (सूर्यार्धचन्द्रविलसद्भूषणाञ्चितवेणिकायै) अत्यर्कानलतेजोवन्मणिकञ्चुकधारिण्यै । (तेजोऽधिमणि) सद्रत्नजालविद्योतविद्युत्पुञ्जाभशाटिकायै । (सद्रत्नाञ्चित) नानामणिगणाकीर्णकाञ्चनाङ्गदभूषितायै नमः ॥ १००॥ (हेमाङ्गदसुभूषितायै) ॐ कुङ्कुमागुरुकस्तूरिदिव्यचन्दनचर्चितायै नमः । स्वोचितोज्ज्वलविद्योतविचित्रमणिहारिण्यै । परिभास्वद्रत्नपुञ्जदीप्तस्वर्णनिचोलिकायै । असङ्ख्येयसुखस्पर्शसर्वावयवभूषणायै । (सर्वातिशयभूषणायै) मल्लिकापारिजातादिदिव्यपुष्पश्रियाञ्चितायै । श्रीरङ्गनिलयायै । पूज्यायै । दिव्यदेवीसेवितायै नमः ॥ १०८ (दिव्यदेशसुशोभितायै) इति गोदाष्टोत्तरशतनामावलिः समाप्ता ।