अक्षर आकार:

श्रीगौर्यष्टोत्तरशतनामावलिः ३

shrI gaurI aShTottara nAmAvali 108 names 3

श्रीगौर्यष्टोत्तरशतनामावलिः ३

ॐ शिवायै नमः । ॐ श्रीमहाविद्यायै नमः । ॐ श्रीमन्मुकुटमण्डितायै नमः । ॐ कल्याण्यै नमः । ॐ करुणारससागरायै नमः । ॐ कमलाराध्यायै नमः । ॐ कलिप्रभृतिसंसेव्यायै नमः । ॐ कमलासनसंस्तुतायै नमः । ॐ अम्बिकायै नमः । ॐ अनेकसौभाग्यदात्र्यै नमः । १० ॐ आनन्दविग्रहायै नमः । ॐ ईषणत्रयनिर्मुक्तायै नमः । ॐ हृत्सरोरुहवासिन्यै नमः । ॐ आद्यन्तरहितायै नमः । ॐ अनेककोटिभास्करप्रभायै नमः । ॐ ईश्वरोत्सङ्गनिलयायै नमः । ॐ ईतिबाधाविनाशिन्यै नमः । ॐ इन्दिरारतिसंसेव्यायै नमः । ॐ ईश्वरार्धशरीरिण्यै नमः । ॐ लक्ष्यार्थरूपायै नमः । २० ॐ लक्ष्मीशब्रह्मेशामरपूजितायै नमः । ॐ उत्पत्यादिविनिर्मुक्तायै नमः । ॐ विद्याप्रतिपादिन्यै नमः । ॐ ऊर्ध्वलोकप्रदात्र्यै नमः । ॐ हानिवृद्धिविवर्जितायै नमः । ॐ सर्वेश्वर्यै नमः । ॐ सर्वलभ्यायै नमः । ॐ गुरुमूर्तिस्वरूपिण्यै नमः । ॐ समस्तप्राणिनिलयायै नमः । ॐ सर्वलोकसुन्दर्यै नमः । ३० ॐ कामाक्ष्यै नमः । ॐ कामदात्र्यै नमः । ॐ कामेशाङ्कनिवासिन्यै नमः । ॐ हरार्धदेहायै नमः । ॐ कल्हारभूषितायै नमः । ॐ हरिलोचनायै नमः । ॐ ललितायै नमः । ॐ लाकिनीसेव्यायै नमः । ॐ लब्धैश्वर्यप्रवर्तिन्यै नमः । ॐ ह्रीङ्कारपद्मनिलयायै नमः । ४० ॐ ह्रीङ्कारार्णवकौस्तुभायै नमः । ॐ समस्तलोकजनन्यै नमः । ॐ सर्वभूतेश्वर्यै नमः । ॐ करीन्द्रारूढसंसेव्यायै नमः । ॐ कमलेशसहोदर्यै नमः । ॐ लक्षगाघोषाम्बायै नमः । ॐ ह्रीङ्कारबिन्दुलक्षितायै नमः । ॐ एकाक्षर्यै नमः । ॐ एकरूपायै नमः । ॐ ऐश्वर्यफलदायिन्यै नमः । ५० ॐ ओङ्कारवर्णनिलयायै नमः । ॐ औदार्यादिप्रदायै नमः । ॐ गायत्र्यै नमः । ॐ गिरिराजकन्यायै नमः । ॐ गूढार्थबोधिन्यै नमः । ॐ चन्द्रशेखरार्धाङ्ग्यै नमः । ॐ चूडामणिविभूषितायै नमः । ॐ जातीचम्पकपुन्नागकेतकीकुसुमार्चितायै नमः । ॐ तनुमध्यायै नमः । ॐ दानवेन्द्रसंहृत्यै नमः । ६० ॐ दीनरक्षिण्यै नमः । ॐ स्वधर्मपरसंसेव्यायै नमः । ॐ धनधान्याभिवृद्धिदायै नमः । ॐ नारायण्यै नमः । ॐ नामरूपविवर्जितायै नमः । ॐ अपराजितायै नमः । ॐ परमानन्दरूपायै नमः । ॐ परमानन्ददायै नमः । ॐ पाशाङ्कुशाभयवरविलसत्करपल्लवायै नमः । ॐ पुराणपुरुषसेव्यायै नमः । ७० ॐ पुष्पमालाविराजितायै नमः । ॐ फणीन्द्ररत्नशोभाढ्यायै नमः । ॐ बदरीवनवासिन्यै नमः । ॐ बालायै नमः । ॐ विक्रमसंहृष्टायै नमः । ॐ बिम्बोष्ठ्यै नमः । ॐ बिल्वपूजितायै नमः । ॐ बिन्दुचक्रैकनिलयायै नमः । ॐ भवारण्यदवानलायै नमः । ॐ भवान्यै नमः । ८० ॐ भवरोगघ्न्यै नमः । ॐ भवदेहार्धधारिण्यै नमः । ॐ भक्तसेव्यायै नमः । ॐ भक्तगण्यायै नमः । ॐ भाग्यवृद्धिप्रदायिन्यै नमः । ॐ भूतिदात्र्यै नमः । ॐ भैरवादि संवृतायै नमः । ॐ श्रीमहेश्वर्यै नमः । ॐ सर्वेष्टायै नमः । ॐ श्रीमहादेव्यै नमः । ९० ॐ त्रिपुरसुन्दर्यै नमः । ॐ मुक्तिदात्रे नमः । ॐ राजराजेश्वर्यै नमः । ॐ विद्याप्रदायिन्यै नमः । ॐ भवरूपायै नमः । ॐ विश्वमोहिन्यै नमः । ॐ शाङ्कर्यै नमः । ॐ शत्रुसंहर्त्र्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिपुरेश्वर्यै नमः । १०० ॐ श्रीशारदासंसेव्यायै नमः । ॐ श्रीमत्सिंहासनेश्वर्यै नमः । ॐ श्रीमन्मुनीन्द्रसंसेव्यायै नमः । ॐ श्रीमन्नगरनायिकायै नमः । ॐ महाधैर्यायै नमः । ॐ महोत्साहायै नमः । ॐ श्रीराजराजेश्वर्यै नमः । ॐ श्रीस्वर्णगौर्यै नमः । १०८ इति श्रीगौरी अष्टोत्तरशतनामावलिः समाप्ता ॥