गौर्यष्टोत्तरशतनामस्तोत्रम्
॥ अथ गौर्यष्टोत्तरशतनामस्तोत्रम्॥ ॥ दत्तात्रेयेण गौर्यष्टोत्तरशतनामस्तोत्रोपदेशवर्णनम्॥ इति श्रुत्वा कथां पुण्यां गौरीवीर्यविचित्रिताम् । अपृच्छद्भार्गवो भूयो दत्तात्रेयं महामुनिम् ॥ १॥ भगवन्नद्भुततमं गौर्या वीर्यमुदाहृतम् । शृण्वतो न हि मे तृप्तिः कथां ते मुखनिःसृताम् ॥ २॥ गौर्या नामाष्टशतकं यच्छच्यै धिषणो जगौ । तन्मे कथय यच्छ्रोतुं मनो मेऽत्यन्तमुत्सुकम् ॥ ३॥ भार्गवेणेत्थमापृष्टो योगिराडत्रिनन्दनः । अष्टोत्तरशतं नाम्नां प्राह गौर्या दयानिधिः ॥ ४॥ जामदग्न्य शृणु स्तोत्रं गौरीनामभिरङ्कितम् । मनोहरं वाञ्छितदं महाऽऽपद्विनिवारणम् ॥ ५॥ स्तोत्रस्याऽस्य ऋषिः प्रोक्त अङ्गिराश्छन्द ईरितः । अनुष्टुप् देवता गौरी आपन्नाशाय यो जपेत् ॥ ६॥ ह्रां ह्रीं इत्यादि विन्यस्य ध्यात्वा स्तोत्रमुदीरयेत्॥ ॥ ध्यानम्॥ सिंहसंस्थां मेचकाभां कौसुम्भांशुकशोभिताम् ॥ ७ खड्गं खेटं त्रिशूलञ्च मुद्गरं बिभ्रतीं करैः । चन्द्रचूडां त्रिनयनां ध्यायेत्गौरीमभीष्टदाम् ॥ ८॥ ॥ स्तोत्रम्॥ गौरी गोजननी विद्या शिवा देवी महेश्वरी । नारायणाऽनुजा नम्रभूषणा नुतवैभवा ॥ ९॥ त्रिनेत्रा त्रिशिखा शम्भुसंश्रया शशिभूषणा । शूलहस्ता श्रुतधरा शुभदा शुभरूपिणी ॥ १०॥ उमा भगवती रात्रिः सोमसूर्याऽग्निलोचना । सोमसूर्यात्मताटङ्का सोमसूर्यकुचद्वयी ॥ ११॥ अम्बा अम्बिका अम्बुजधरा अम्बुरूपाऽऽप्यायिनी स्थिरा । शिवप्रिया शिवाङ्कस्था शोभना शुम्भनाशिनी ॥ १२॥ खड्गहस्ता खगा खेटधरा खाऽच्छनिभाकृतिः । कौसुम्भचेला कौसुम्भप्रिया कुन्दनिभद्विजा ॥ १३॥ काली कपालिनी क्रूरा करवालकरा क्रिया । काम्या कुमारी कुटिला कुमाराम्बा कुलेश्वरी ॥ १४॥ मृडानी मृगशावाक्षी मृदुदेहा मृगप्रिया । मृकण्डुपूजिता माध्वीप्रिया मातृगणेडिता ॥ १५॥ मातृका माधवी माद्यन्मानसा मदिरेक्षणा । मोदरूपा मोदकरी मुनिध्येया मनोन्मनी ॥ १६॥ पर्वतस्था पर्वपूज्या परमा परमार्थदा । परात्परा परामर्शमयी परिणताखिला ॥ १७॥ पाशिसेव्या पशुपतिप्रिया पशुवृषस्तुता । पश्यन्ती परचिद्रूपा परीवादहरा परा ॥ १८॥ सर्वज्ञा सर्वरूपा सा सम्पत्तिः सम्पदुन्नता । आपन्निवारिणी भक्तसुलभा करुणामयी ॥ १९॥ कलावती कलामूला कलाकलितविग्रहा । गणसेव्या गणेशाना गतिर्गमनवर्जिता ॥ २०॥ ईश्वरीशानदयिता शक्तिः शमितपातका । पीठगा पीठिकारूपा पृषत्पूज्या प्रभामयी ॥ २१॥ महमाया मतङ्गेष्टा लोकालोका शिवाङ्गना॥ ॥ फलश्रुतिः॥ एतत्तेऽभिहितं राम ! स्तोत्रमत्यन्तदुर्लभम् ॥ २२॥ गौर्यष्टोत्तरशतनामभिः सुमनोहरम् । आपदम्भोधितरणे सुदृढप्लवरूपकम् ॥ २३॥ एतत् प्रपठतां नित्यमापदो यान्ति दूरतः । गौरीप्रसादजननमात्मज्ञानप्रदं नृणाम् ॥ २४॥ भक्त्या प्रपठतां पुंसां सिध्यत्यखिलमीहितम् । अन्ते कैवल्यमाप्नोति सत्यं ते भार्गवेरितम् ॥ २५॥The 108 names of Gauri are as recited by Lord Dattatreya to Parashurama in the Mahatmya Khandam of the Tripura Rahasyam.