अक्षर आकार:

गर्भरक्षाम्बिकास्तोत्रम्

Garbharakshambika stotram

गर्भरक्षाम्बिकास्तोत्रम्

श्रीमाधवि काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥ वापीतटे वामभागे वामदेवस्य देवस्य देवि स्थिता त्वम् । मान्या वरेण्या वदान्या पाहि गर्भस्थजन्तून् तथा भक्तलोकान् । श्रीमाधवि काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥ १॥ श्रीगर्भरक्षापुरे या दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री । धात्री जनित्री जनानां दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् । श्रीमाधवि काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥ २॥ आषाढमासे सुपुण्ये शुक्रवारे सुगन्धेन गन्धेन लिप्ता । दिव्याम्बराकल्पवेषा वाजपेयादि यागस्थभक्तैः सुदृष्टा । श्रीमाधवि काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥ ३॥ कल्याणदात्रीं नमस्ये वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् । बालैस्सदा सेविताङ्घ्रिं गर्भरक्षार्थमारादुपेतैरुपेताम् । श्रीमाधवि काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥ ४॥ ब्रह्मोत्सवे विप्रवीथ्यां वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् । सर्वार्थदात्रीं भजेऽहं देववृन्दैरपीड्यां जगन्मातरं त्वाम् । श्रीमाधवि काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥ ५॥ एतत् कृतं स्तोत्ररत्नं दीक्षितानन्तरामेण देव्याश्च तुष्ट्यै । नित्यं पठेद्यस्तु भक्त्या पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ ६॥ इति ब्रह्मश्री अनन्तरामदीक्षितवर्यविरचितं गर्भरक्षा अम्बिका स्तोत्रं सम्पूर्णम् ॥ इति गर्भरक्षाम्बिकास्तोत्रं सम्पूर्णम् ।