अक्षर आकार:

श्रीगंगाष्टकम्

gangAShTakam

श्रीगंगाष्टकम्

ॐ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभंगे स्वर्गसोपानगंगे तरलतरतरंगे देवि गंगे प्रसीद ॥ १॥ भगवति भवलीलामौलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारिचामरमरग्राहिणीनां विगतकलिकलंकातंकमंके लुठन्ति ॥ २॥ ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती खर्ल्लोकात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भर्त्सयन्ती पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥ ३॥ मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् । सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् ॥ ४॥ आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ५॥ शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी काशीप्रान्तविहारिणी विजयते गंगा मनूहारिणो ॥ ६॥ कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीतांबरपुग्निवासं वितरसि । त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ७॥ गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ॥ ८॥ मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् । सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ॥ ९॥ गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः । सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥ १०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोविन्दभगवत्पूज्यपादस्यशिष्या श्रीमच्छङ्करभगवतः कृतौ गङ्गाष्टकस्तोत्रं सम्पूर्णम् । It is attributed to agastimuni. See 398 of Ganga GYAna mahodadhi