अक्षर आकार:

श्रीगङ्गासहस्रनामस्तोत्रम्

Shri Gangasahasranama Stotram

श्रीगङ्गासहस्रनामस्तोत्रम्

अकारादिक्षकारान्त नामघटितं स्कन्दपुराणान्तर्गतं अगस्त्य उवाच विना स्नानेन गङ्गायां नृणां जन्म निरर्थकम् । उपायान्तरमस्त्यन्यद् येन स्नानफलं लभेत् ॥ १॥ अशक्तानां च पङ्गूनामालस्योपहतात्मनाम् । दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेत् ॥ २॥ दानं वाथ व्रतं वाथ मन्त्रः स्तोत्रं जपोऽथवा । तीर्थान्तराभिषेको वा देवतोपासनं तु वा ॥ ३॥ यद्यस्ति किञ्चित् षड्वक्त्र गङ्गास्नानफलप्रदम् । विधानान्तरमात्रेण तद् वद प्रणताय मे ॥ ४॥ त्वत्तो न वेद स्कन्दान्यो गङ्गागर्भसमुद्भव । परं स्वर्गतरङ्गिण्यां महिमानं महामते ॥ ५॥ स्कन्द उवाच सन्ति पुण्यजलानीह सरांसि सरितो मुने । स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च ॥ ६॥ दृष्टप्रत्ययकारीणि महामहिमभाञ्ज्यपि । परं स्वर्गतरङ्गिण्याः कोट्यंशोऽपि न तत्र वै ॥ ७॥ अनेनैवानुमानेन बुद्ध्यस्व कलशोद्भव । दध्रे गङ्गोत्तमाङ्गेन देवदेवेन शम्भुना ॥ ८॥ स्नानकालेऽन्यतीर्थेषु जप्यते जाह्नवी जनैः । विना विष्णुपदीं क्वान्यत् समर्थमघमोचने ॥ ९॥ गङ्गास्नानफलं ब्रह्मन् गङ्गायामेव लभ्यते । यथा द्राक्षाफलस्वादो द्राक्षायामेव नान्यतः ॥ १०॥ अस्त्युपाय इह त्वेकः स्याद् येनाविकलं फलम् । स्नानस्य देवसरितो महागुह्यतमो मुने ॥ ११॥ शिवभक्ताय शान्ताय विष्णुभक्तिपराय च । श्रद्धालवे त्वास्तिकाय गर्भवासमुमुक्षवे ॥ १२॥ कथनीयं न चान्यस्य कस्यचित् केनचित् क्वचित् । इदं रहस्यं परमं महापातकनाशनम् ॥ १३॥ महाश्रेयस्करं पुण्यं मनोरथकरं परम् । द्युनदीप्रीतिजनकं शिवसन्तोषसन्ततिः ॥ १४॥ नाम्नां सहस्रं गङ्गायाः स्तवराजेषु शोभनम् । जप्यानां परमं जप्यं वेदोपनिषदां समम् ॥ १५॥ जपनीयं प्रयत्नेन मौनिना वाचकं विना । शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव च ॥ १६॥ ध्यानम् - शैलेन्द्रादवतारिणी निजजले मज्जद्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ ॐ नमो गङ्गादेव्यै ॥ ओंकाररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा । अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमृताऽमला ॥ १७॥ अनाथवत्सलाऽमोघाऽपांयोनिरमृतप्रदा । अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराऽजिता ॥ १८॥ अनाथनाथाऽभीष्टार्थसिद्धिदाऽनङ्गवर्धिनी । अणिमादिगुणाऽधाराऽग्रगण्याऽलीकहारिणी ॥ १९॥ अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी । अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥ २०॥ अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका । अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥ २१॥ अशेषदेवतामूर्तिरघोराऽमृतरूपिणी । अविद्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ॥ २२॥ अशेषविघ्नसंहर्त्री त्वशेषगुणगुम्फिता । अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥ २३॥ अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी । आरोग्यदाऽऽनन्दवल्ली त्वापन्नार्तिविनाशिनी ॥ २४॥ आश्चर्यमूर्तिरायुष्या ह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता । आप्यायिन्याप्तविद्याख्या त्वानन्दाऽऽश्वासदायिनी ॥ २५॥ आलस्यघ्न्यापदां हन्त्री ह्यानन्दामृतवर्षिणी । इरावतीष्टदात्रीष्टा त्विष्टापूर्तफलप्रदा ॥ २६॥ इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा । इज्याशीलसमिज्येष्ठा त्विन्द्रादिपरिवन्दिता ॥ २७॥ इलालङ्कारमालेद्धा त्विन्दिरारम्यमन्दिरा । इदिन्दिरादिसंसेव्या त्वीश्वरीश्वरवल्लभा ॥ २८॥ ईतिभीतिहरेड्या च त्वीडनीयचरित्रभृत् । उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥ २९॥ उदिताम्बरमार्गोस्रोरगलोकविहारिणी । उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥ ३०॥ उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी । उद्वेगघ्न्युष्णशमनी ह्युष्णरश्मिसुताप्रिया ॥ ३१॥ उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी । ऊर्जं वहन्त्यूर्जधरोर्जावती चोर्मिमालिनी ॥ ३२॥ ऊर्ध्वरेतःप्रियोर्ध्वाध्वा ह्यूर्मिलोर्ध्वगतिप्रदा । ऋषिवृन्दस्तुतर्द्धिश्च ऋणत्रयविनाशिनी ॥ ३३॥ ऋतम्भरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया । ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी ॥ ३४॥ एधिताखिलधर्मार्था त्वेकैकामृतदायिनी । एधनीयस्वभावैज्या त्वेजिताशेषपातका ॥ ३५॥ ऐश्वर्यदैश्वर्यरूपा ह्यैतिह्यं ह्यैन्दवीद्युतिः । ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥ ३६॥ ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम् । औदार्यचञ्चुरौपेन्द्री त्वौग्री ह्यौमेयरूपिणी ॥ ३७॥ अम्बराध्ववहाम्बष्ठाम्बरमालाम्बुजेक्षणा । अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥ ३८॥ अंशुमाला ह्यंशुमती त्वङ्गीकृतषडानना । अन्धतामिस्रहन्त्र्यन्धुरञ्जना ह्यञ्जनावती ॥ ३९॥ कल्याणकारिणी काम्या कमलोत्पलगन्धिनी । कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी ॥ ४०॥ काञ्चनाक्षी कामधेनुः कीर्तिकृत् क्लेशनाशिनी । क्रतुश्रेष्ठा क्रतुफला कर्मबन्धविभेदिनी ॥ ४१॥ कमलाक्षी क्लमहरा कृशानुतपनद्युतिः । करुणार्द्रा च कल्याणी कलिकल्मषनाशिनी ॥ ४२॥ कामरूपा क्रियाशक्तिः कमलोत्पलमालिनी । कूटस्था करुणा कान्ता कूर्मयाना कलावती ॥ ४३॥ कमला कल्पलतिका काली कलुषवैरिणी । कमनीयजला कम्रा कपर्दिसुकपर्दगा ॥ ४४॥ कालकूटप्रशमनी कदम्बकुसुमप्रिया । कालिन्दी केलिललिता कलकल्लोलमालिका ॥ ४५॥ क्रान्तलोकत्रया कण्डूः कण्डूतनयवत्सला । खड्गिनी खड्गधाराभा खगा खण्डेन्दुधारिणी ॥ ४६॥ खेखेलगामिनी खस्था खण्डेन्दुतिलकप्रिया । खेचरी खेचरीवन्द्या ख्यातिः ख्यातिप्रदायिनी ॥ ४७॥ खण्डितप्रणताघौघा खलबुद्धिविनाशिनी । खातैनः कन्दसन्दोहा खड्गखट्वाङ्ग खेटिनी ॥ ४८॥ खरसन्तापशमनी खनिः पीयूषपाथसाम् । गङ्गा गन्धवती गौरी गन्धर्वनगरप्रिया ॥ ४९॥ गम्भीराङ्गी गुणमयी गतातङ्का गतिप्रिया । गणनाथाम्बिका गीता गद्यपद्यपरिष्टुता ॥ ५०॥ गान्धारी गर्भशमनी गतिभ्रष्टगतिप्रदा । गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥ ५१॥ गोत्रप्रवर्धिनी गुण्या गुणातीता गुणाग्रणीः । गुहाम्बिका गिरिसुता गोविन्दाङ्घ्रिसमुद्भवा ॥ ५२॥ गुणनीयचरित्रा च गायत्री गिरिशप्रिया । गूढरूपा गुणवती गुर्वी गौरववर्धिनी ॥ ५३॥ ग्रहपीडाहरा गुन्द्रा गरघ्नी गानवत्सला । घर्महन्त्री घृतवती घृततुष्टिप्रदायिनी ॥ ५४॥ घण्टारवप्रिया घोराघौघविध्वंसकारिणी । घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥ ५५॥ घातुका घूर्णितजला घृष्टपातकसन्ततिः । घटकोटिप्रपीतापा घटिताशेषमङ्गला ॥ ५६॥ घृणावती घृणिनिधिर्घस्मरा घूकनादिनी । घुसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना ॥ ५७॥ चन्द्रिका चन्द्रकान्ताम्बुश्चञ्चदापा चलद्युतिः । चिन्मयी चितिरूपा च चन्द्रायुतशतानना ॥ ५८॥ चाम्पेयलोचना चारुश्चार्वङ्गी चारुगामिनी । चार्या चारित्रनिलया चित्रकृच्चित्ररूपिणी ॥ ५९॥ चम्पूश्चन्दनशुच्यम्बुश्चर्चनीया चिरस्थिरा । चारुचम्पकमालाढ्या चमिताशेषदुष्कृता ॥ ६०॥ चिदाकाशवहा चिन्त्या चञ्चच्चामरवीजिता । चोरिताशेषवृजिना चरिताशेषमण्डला ॥ ६१॥ छेदिताखिलपापौघा छद्मघ्नी छलहारिणी । छन्नत्रिविष्टपतला छोटिताशेषबन्धना ॥ ६२॥ छुरितामृतधारौघा छिन्नैनाश्छन्दगामिनी । छत्रीकृतमरालौघा छटीकृतनिजामृता ॥ ६३॥ जाह्नवी ज्या जगन्माता जप्या जङ्घालवीचिका । जया जनार्दनप्रीता जुषणीया जगद्धिता ॥ ६४॥ जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी । जीवजीवातुलतिका जन्मिजन्मनिबर्हिणी ॥ ६५॥ जाड्यविध्वंसनकरी जगद्योनिर्जलाविला । जगदानन्दजननी जलजा जलजेक्षणा ॥ ६६॥ जनलोचनपीयूषा जटातटविहारिणी । जयन्ती जञ्जपूकघ्नी जनितज्ञानविग्रहा ॥ ६७॥ झल्लरीवाद्यकुशला झलज्झालजलावृता । झिण्टीशवन्द्या झङ्कारकारिणी झर्झरावती ॥ ६८॥ टीकिताशेषपाताला टङ्किकैनोऽद्रिपाटने । टङ्कारनृत्यत्कल्लोला टीकनीयमहातटा ॥ ६९॥ डम्बरप्रवहा डीनराजहंसकुलाकुला । डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥ ७०॥ ढौकिताशेषनिर्वाणा ढक्कानादचलज्जला । ढुण्ढिविघ्नेशजननी ढणड्ढुणितपातका ॥ ७१॥ तर्पणी तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी । त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवन्दिता ॥ ७२॥ तापत्रितयसंहर्त्री तेजोबलविवर्धिनी । त्रिलक्ष्या तारणी तारा तारापतिकरार्चिता ॥ ७३॥ त्रैलोक्यपावनी पुण्या तुष्टिदा तुष्टिरूपिणी । तृष्णाच्छेत्री तीर्थमाता त्रिविक्रमपदोद्भवा ॥ ७४॥ तपोमयी तपोरूपा तपःस्तोमफलप्रदा । var पदप्रदा त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥ ७५॥ त्रैलोक्यसुन्दरी तुर्या तुर्यातीतफलप्रदा । त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥ ७६॥ तेजोगर्भा तपस्सारा त्रिपुरारिशिरोगृहा । त्रयीस्वरूपिणी तन्वी तपनाङ्गजभीतिनुत् ॥ ७७॥ तरिस्तरणिजामित्रं तर्पिताशेषपूर्वजा । तुलाविरहिता तीव्रपापतूलतनूनपात् ॥ ७८॥ दारिद्र्यदमनी दक्षा दुष्प्रेक्षा दिव्यमण्डना । दीक्षावती दुरावाप्या द्राक्षामधुरवारिभृत् ॥ ७९॥ दर्शितानेककुतुका दुष्टदुर्जयदुःखहृत् । दैन्यहृद्दुरितघ्नी च दानवारिपदाब्जजा ॥ ८०॥ दन्दशूकविषघ्नी च दारिताघौघसन्ततिः । द्रुता देवद्रुमच्छन्ना दुर्वाराघविघातिनी ॥ ८१॥ दमग्राह्या देवमाता देवलोकप्रदर्शिनी । देवदेवप्रिया देवी दिक्पालपददायिनी ॥ ८२॥ दीर्घायुः कारिणी दीर्घा दोग्ध्री दूषणवर्जिता । दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा ॥ ८३॥ द्युनदी दीनशरणं देहिदेहनिवारिणी । द्राघीयसी दाघहन्त्री दितपातकसन्ततिः ॥ ८४॥ दूरदेशान्तरचरी दुर्गमा देववल्लभा । दुर्वृत्तघ्नी दुर्विगाह्या दयाधारा दयावती ॥ ८५॥ दुरासदा दानशीला द्राविणी द्रुहिणस्तुता । दैत्यदानवसंशुद्धिकर्त्री दुर्बुद्धिहारिणी ॥ ८६॥ दानसारा दयासारा द्यावाभूमिविगाहिनी । दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥ ८७॥ दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा । दण्डयित्री दण्डनीतिर्दुष्टदण्डधरार्चिता ॥ ८८॥ दुरोदरघ्नी दावार्चिर्द्रवद्द्रव्यैकशेवधिः । दीनसन्तापशमनी दात्री दवथुवैरिणी ॥ ८९॥ दरीविदारणपरा दान्ता दान्तजनप्रिया । दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी ॥ ९०॥ धर्मद्रवा धर्मधुरा धेनुर्धीरा धृतिर्ध्रुवा । धेनुदानफलस्पर्शा धर्मकामार्थमोक्षदा ॥ ९१॥ धर्मोर्मिवाहिनी धुर्या धात्री धात्रीविभूषणम् । धर्मिणी धर्मशीला च धन्विकोटिकृतावना ॥ ९२॥ ध्यातृपापहरा ध्येया धावनी धूतकल्मषा । धर्मधारा धर्मसारा धनदा धनवर्धिनी ॥ ९३॥ धर्माधर्मगुणच्छेत्री धत्तूरकुसुमप्रिया । धर्मेशी धर्मशास्त्रज्ञा धनधान्यसमृद्धिकृत् ॥ ९४॥ धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी । ध्यानगम्यस्वरूपा च धरणी धातृपूजिता ॥ ९५॥ धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती । नन्दा निर्वाणजननी नन्दिनी नुन्नपातका ॥ ९६॥ निषिद्धविघ्ननिचया निजानन्दप्रकाशिनी । नभोऽङ्गणचरी नूतिर्नम्या नारायणी नुता ॥ ९७॥ निर्मला निर्मलाख्याना नाशिनी तापसम्पदाम् । नियता नित्यसुखदा नानाश्चर्यमहानिधिः ॥ ९८॥ नदी नदसरोमाता नायिका नाकदीर्घिका । नष्टोद्धरणधीरा च नन्दना नन्ददायिनी ॥ ९९॥ निर्णिक्ताशेषभुवना निःसङ्गा निरुपद्रवा । निरालम्बा निष्प्रपञ्चा निर्णाशितमहामला ॥ १००॥ निर्मलज्ञानजननी निःशेषप्राणितापहृत् । नित्योत्सवा नित्यतृप्ता नमस्कार्या निरञ्जना ॥ १०१॥ निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका । निरवद्या निरीहा च नीललोहितमूर्धगा ॥ १०२॥ नन्दिभृङ्गिगणस्तुत्या नागा नन्दा नगात्मजा । निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः ॥ १०३॥ पुण्यप्रदा पुण्यगर्भा पुण्या पुण्यतरङ्गिणी । पृथुः पृथुफला पूर्णा प्रणतार्तिप्रभञ्जनी ॥ १०४॥ प्राणदा प्राणिजननी प्राणेशी प्राणरूपिणी । पद्मालया पराशक्तिः पुरजित्परमप्रिया ॥ १०५॥ परा परफलप्राप्तिः पावनी च पयस्विनी । परानन्दा प्रकृष्टार्था प्रतिष्ठा पालिनी परा ॥ १०६॥ var पालनी पुराणपठिता प्रीता प्रणवाक्षररूपिणी । पार्वती प्रेमसम्पन्ना पशुपाशविमोचनी ॥ १०७॥ परमात्मस्वरूपा च परब्रह्मप्रकाशिनी । परमानन्दनिष्यन्दा प्रायश्चित्तस्वरूपिणी ॥ १०८॥ var निष्पन्दा पानीयरूपनिर्वाणा परित्राणपरायणा । पापेन्धनदवज्वाला पापारिः पापनामनुत् ॥ १०९॥ परमैश्वर्यजननी प्रज्ञा प्राज्ञा परापरा । प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमामृतस्रवा ॥ ११०॥ प्रसन्नरूपा प्रणिधिः पूता प्रत्यक्षदेवता । पिनाकिपरमप्रीता परमेष्ठिकमण्डलुः ॥ १११॥ पद्मनाभपदार्घ्येण प्रसूता पद्ममालिनी । परर्द्धिदा पुष्टिकरी पथ्या पूर्तिः प्रभावती ॥ ११२॥ पुनाना पीतगर्भघ्नी पापपर्वतनाशिनी । फलिनी फलहस्ता च फुल्लाम्बुजविलोचना ॥ ११३॥ फालितैनोमहाक्षेत्रा फणिलोकविभूषणम् । फेनच्छलप्रणुन्नैनाः फुल्लकैरवगन्धिनी ॥ ११४॥ फेनिलाच्छाम्बुधाराभा फडुच्चाटितपातका । फाणितस्वादुसलिला फाण्टपथ्यजलाविला ॥ ११५॥ विश्वमाता च विश्वेशी विश्वा विश्वेश्वरप्रिया । ब्रह्मण्या ब्रह्मकृद् ब्राह्मी ब्रह्मिष्ठा विमलोदका ॥ ११६॥ विभावरी च विरजा विक्रान्तानेकविष्टपा । विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया ॥ ११७॥ विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी । विपाशा वैबुधी वेद्या वेदाक्षररसस्रवा ॥ ११८॥ विद्या वेगवती वन्द्या बृंहणी ब्रह्मवादिनी । वरदा विप्रकृष्टा च वरिष्ठा च विशोधनी ॥ ११९॥ विद्याधरी विशोका च वयोवृन्दनिषेविता । बहूदका बलवती व्योमस्था विबुधप्रिया ॥ १२०॥ वाणी वेदवती वित्ता ब्रह्मविद्यातरङ्गिणी । ब्रह्माण्डकोटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥ १२१॥ ब्रह्मेशविष्णुरूपा च बुद्धिर्विभववर्धिनी । विलासिसुखदा वश्या व्यापिनी च वृषारणिः ॥ १२२॥ वृषाङ्कमौलिनिलया विपन्नार्तिप्रभञ्जनी । विनीता विनता ब्रध्नतनया विनयान्विता ॥ १२३॥ विपञ्ची वाद्यकुशला वेणुश्रुतिविचक्षणा । वर्चस्करी बलकरी बलोन्मूलितकल्मषा ॥ १२४॥ विपाप्मा विगतातङ्का विकल्पपरिवर्जिता । वृष्टिकर्त्री वृष्टिजला विधिर्विच्छिन्नबन्धना ॥ १२५॥ व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् । वसुधारा वसुमती विचित्राङ्गी विभावसुः ॥ १२६॥ विजया विश्वबीजं च वामदेवी वरप्रदा । वृषाश्रिता विषघ्नी च विज्ञानोर्म्यंशुमालिनी ॥ १२७॥ भव्या भोगवती भद्रा भवानी भूतभाविनी । भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ॥ १२८॥ भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा । भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥ १२९॥ भवप्रिया भवद्वेष्ट्री भूतिदा भूतिभूषणा । भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ॥ १३०॥ भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा । भूरिदा भक्तसुलभा भाग्यवद्दृष्टिगोचरी ॥ १३१॥ भञ्जितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा । भिक्षणीया भिक्षुमाता भावा भावस्वरूपिणी ॥ १३२॥ मन्दाकिनी महानन्दा माता मुक्तितरङ्गिणी । महोदया मधुमती महापुण्या मुदाकरी ॥ १३३॥ मुनिस्तुता मोहहन्त्री महातीर्था मधुस्रवा । माधवी मानिनी मान्या मनोरथपथातिगा ॥ १३४॥ मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता । महावेगवती मेध्या महा महिमभूषणा ॥ १३५॥ महाप्रभावा महती मीनचञ्चललोचना । महाकारुण्यसम्पूर्णा महर्द्धिश्च महोत्पला ॥ १३६॥ मूर्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा । मुक्ताकलापनेपथ्या मनोनयननन्दिनी ॥ १३७॥ महापातकराशिघ्नी महादेवार्धहारिणी । महोर्मिमालिनी मुक्ता महादेवी मनोन्मनी ॥ १३८॥ महापुण्योदयप्राप्या मायातिमिरचन्द्रिका । महाविद्या महामाया महामेधा महौषधम् ॥ १३९॥ मालाधरी महोपाया महोरगविभूषणा । महामोहप्रशमनी महामङ्गलमङ्गलम् ॥ १४०॥ मार्तण्डमण्डलचरी महालक्ष्मीर्मदोज्झिता । यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥ १४१॥ योगसिद्धिप्रदा याज्या यज्ञेशपरिपूरिता । यज्ञेशी यज्ञफलदा यजनीया यशस्करी ॥ १४२॥ यमिसेव्या योगयोनिर्योगिनी युक्तबुद्धिदा । योगज्ञानप्रदा युक्ता यमाद्यष्टाङ्गयोगयुक् ॥ १४३॥ यन्त्रिताघौघसञ्चारा यमलोकनिवारिणी । यातायातप्रशमनी यातनानामकृन्तनी ॥ १४४॥ यामिनीशहिमाच्छोदा युगधर्मविवर्जिता । रेवती रतिकृद् रम्या रत्नगर्भा रमा रतिः ॥ १४५॥ रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी । रत्नप्रासादगर्भा च रमणीयतरङ्गिणी ॥ १४६॥ रत्नार्ची रुद्ररमणी रागद्वेषविनाशिनी । रमा रामा रम्यरूपा रोगिजीवानुरूपिणी ॥ १४७॥ रुचिकृद् रोचनी रम्या रुचिरा रोगहारिणी । राजहंसा रत्नवती राजत्कल्लोलराजिका ॥ १४८॥ रामणीयकरेखा च रुजारी रोगरोषिणी । var रोगशोषिणी राका रङ्कार्तिशमनी रम्या रोलम्बराविणी ॥ १४९॥ रागिणी रञ्जितशिवा रूपलावण्यशेवधिः । लोकप्रसूर्लोकवन्द्या लोलत्कल्लोलमालिनी ॥ १५०॥ लीलावती लोकभूमिर्लोकलोचनचन्द्रिका । लेखस्रवन्ती लटभा लघुवेगा लघुत्वहृत् ॥ १५१॥ लास्यत्तरङ्गहस्ता च ललिता लयभङ्गिगा । लोकबन्धुर्लोकधात्री लोकोत्तरगुणोर्जिता ॥ १५२॥ लोकत्रयहिता लोका लक्ष्मीर्लक्षणलक्षिता । लीला लक्षितनिर्वाणा लावण्यामृतवर्षिणी ॥ १५३॥ वैश्वानरी वासवेड्या वन्ध्यत्वपरिहारिणी । वासुदेवाङ्घ्रिरेणुघ्नी वज्रिवज्रनिवारिणी ॥ १५४॥ शुभावती शुभफला शान्तिः शन्तनुवल्लभा । var शान्तनु शूलिनी शैशववयाः शीतलामृतवाहिनी ॥ १५५॥ शोभावती शीलवती शोषिताशेषकिल्बिषा । शरण्या शिवदा शिष्टा शरजन्मप्रसूःशिवा ॥ १५६॥ शक्तिः शशाङ्कविमला शमनस्वसृसम्मता । शमा शमनमार्गघ्नी शितिकण्ठमहाप्रिया ॥ १५७॥ शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा । श्रीनिवासश्रुतिः श्रद्धा श्रीमती श्रीः शुभव्रता ॥ १५८॥ शुद्धविद्या शुभावर्ता श्रुतानन्दा श्रुतिस्तुतिः । शिवेतरघ्नी शबरी शाम्बरीरूपधारिणी ॥ १५९॥ श्मशानशोधनी शान्ता शश्वच्छतधृतिस्तुता । शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृत् ॥ १६०॥ शंसनीयचरित्रा च शातिताशेषपातका । षड्गुणैश्वर्यसम्पन्ना षडङ्गश्रुतिरूपिणी ॥ १६१॥ षण्ढताहारिसलिला स्त्यायन्नदनदीशता । सरिद्वारा च सुरसा सुप्रभा सुरदीर्घिका ॥ १६२॥ स्वः सिन्धुः सर्वदुःखघ्नी सर्वव्याधिमहौषधम् । सेव्या सिद्धिः सती सूक्तिः स्कन्दसूश्च सरस्वती ॥ १६३॥ सम्पत्तरङ्गिणी स्तुत्या स्थाणुमौलिकृतालया । स्थैर्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ॥ १६४॥ स्वर्गनिःश्रेणिका सूमा स्वधा स्वाहा सुधाजला । var सूक्ष्मा समुद्ररूपिणी स्वर्ग्या सर्वपातकवैरिणी ॥ १६५॥ स्मृताघहारिणी सीता संसाराब्धितरण्डिका । सौभाग्यसुन्दरी सन्ध्या सर्वसारसमन्विता ॥ १६६॥ हरप्रिया हृषीकेशी हंसरूपा हिरण्मयी । हृताघसङ्घा हितकृद्धेला हेलाघगर्वहृत् ॥ १६७॥ क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी क्षमा । गङ्गेति नामसाहस्रं गङ्गायाः कलशोद्भव । var इति नामसहस्रं हि कीर्तयित्वा नरः सम्यग्गङ्गास्नानफलं लभेत् ॥ १६८॥ सर्वपापप्रशमनं सर्वविघ्नविनाशनम् । सर्वस्तोत्रजपाच्छ्रेष्ठं सर्वपावनपावनम् ॥ १६९॥ श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृत् । सकृज्जपादवाप्नोति ह्येकक्रतुफलं मुने ॥ १७०॥ सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः । तस्य यत्फलमुद्दिष्टं त्रिकालपठनाच्च तत् ॥ १७१॥ सर्वव्रतेषु यत्पुण्यं सम्यक्चीर्णेषु वाडव । तत्फलं समवाप्नोति त्रिसन्ध्यं नियतः पठन् ॥ १७२॥ स्नानकाले पठेद्यस्तु यत्र कुत्र जलाशये । तत्र सन्निहिता नूनं गङ्गा त्रिपथगा मुने ॥ १७३॥ श्रेयोऽर्थी लभते श्रेयो धनार्थी लभते धनम् । कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १७४॥ वर्षं त्रिकालपठनाच्छ्रद्धया शुचिमानसः । ऋतुकालाभिगमनादपुत्रः पुत्रवान् भवेत् ॥ १७५॥ नाकालमरणं तस्य नाग्निचोराहिसाध्वसम् । नाम्नां सहस्रं गङ्गाया यो जपेच्छ्रद्धया मुने ॥ १७६॥ गङ्गानामसहस्रं तु जप्त्वा ग्रामान्तरं व्रजेत् । कार्यसिद्धिमवाप्नोति निर्विघ्नो गेहमाविशेत् ॥ १७७॥ तिथिवारर्क्षयोगानां न दोषः प्रभवेत्तदा । यदा जप्त्वा व्रजेदेतत् स्तोत्रं ग्रामान्तरं नरः ॥ १७८॥ आयुरारोग्यजननं सर्वोपद्रवनाशनम् । सर्वसिद्धिकरं पुंसां गङ्गानामसहस्रकम् ॥ १७९॥ जन्मान्तरसहस्रेषु यत्पापं सम्यगर्जितम् । गङ्गानामसहस्रस्य जपनात्तत्क्षयं व्रजेत् ॥ १८०॥ ब्रह्मघ्नो मद्यपः स्वर्णस्तेयी च गुरुतल्पगः । तत्संयोगी भ्रूणहन्ता मातृहा पितृहा मुने ॥ १८१॥ विश्वासघाती गरदः कृतघ्नो मित्रघातकः । अग्निदो गोवधकरो गुरुद्रव्यापहारकः ॥ १८२॥ महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः । मुच्यते श्रद्धया जप्त्वा गङ्गानामसहस्रकम् ॥ १८३॥ आधिव्याधिपरिक्षिप्तो घोरतापपरिप्लुतः । मुच्यते सर्वदुःखेभ्यः स्तवस्यास्यानुकीर्तनात् ॥ १८४॥ संवत्सरेण युक्तात्मा पठन् भक्तिपरायणः । अभीप्सितां लभेत्सिद्धिं सर्वैः पापैः प्रमुच्यते ॥ १८५॥ संशयाविष्टचित्तस्य धर्मविद्वेषिणोऽपि च । दाम्भिकस्यापि हिंस्रस्य चेतो धर्मपरं भवेत् ॥ १८६॥ वर्णाश्रमपथीनस्तु कामक्रोधविवर्जितः । यत्फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्तनात् ॥ १८७॥ गायत्र्ययुतजप्येन यत्फलं समुपार्जितम् । सकृत्पठनतः सम्यक्तदशेषमवाप्नुयात् ॥ १८८॥ गां दत्त्वा वेदविदुषे यत्फलं लभते कृती । तत्पुण्यं सम्यगाख्यातं स्तवराजसकृज्जपात् ॥ १८९॥ गुरुशुश्रूषणं कुर्वन् यावज्जीवं नरोत्तमः । यत्पुण्यमर्जयेत्तद्भाग्वर्षं त्रिषवणं जपन् ॥ १९०॥ वेदपारायणात्पुण्यं यदत्र परिपठ्यते । तत्षण्मासेन लभते त्रिसन्ध्यं परिकीर्तनात् ॥ १९१॥ गङ्गायाः स्तवराजस्य प्रत्यहं परिशीलनात् । शिवभक्तिमवाप्नोति विष्णुभक्तोऽथवा भवेत् ॥ १९२॥ यः कीर्तयेदनुदिनं गङ्गानामसहस्रकम् । तत्समीपे सहचरी गङ्गादेवी सदा भवेत् ॥ १९३॥ सर्वत्र पूज्यो भवति सर्वत्र विजयी भवेत् । सर्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः ॥ १९४॥ सदाचारी स विज्ञेयः स शुचिस्तु सदैव हि । कृतसर्वसुरार्चः स कीर्तयेद्य इमां स्तुतिम् ॥ १९५॥ तस्मिंस्तृप्ते भवेत् तृप्ता जाह्नवी नात्र संशयः । तस्मात्सर्वप्रयत्नेन गङ्गाभक्तं समर्चयेत् ॥ १९६॥ स्तवराजमिमं गाङ्गं श‍ृणुयाद्यश्च वै पठेत् । श्रावयेदथ तद्भक्तान् दम्भलोभविवर्जितः ॥ १९७॥ मुच्यते त्रिविधैः पापैर्मनोवाक्कायसम्भवैः । क्षणान्निष्पापतामेति पितॄणां च प्रियो भवेत् ॥ १९८॥ सर्वदेवप्रियश्चापि सर्वर्षिगणसम्मतः । अन्ते विमानमारुह्यं दिव्यस्त्रीशतसंवृतः ॥ १९९॥ दिव्याभरणसम्पन्नो दिव्यभोगसमन्वितः । नन्दनादिवने स्वैरं देववत्स प्रमोदते ॥ २००॥ भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः । जपन्निदं महास्तोत्रं पितॄणां तृप्तिकारकम् ॥ २०१॥ यावन्ति तत्र सिक्थानि यावन्तोऽम्बुकणाः स्थिताः । तावन्त्येव हि वर्षाणि मोदन्ते स्वपितामहाः ॥ २०२॥ यथा प्रीणन्ति पितरो प्रीणन्ति गङ्गायां पिण्डदानतः । तथैव तृप्नुयुः श्राद्धे स्तवस्यास्यानुसंश्रवात् ॥ २०३॥ एतत्स्तोत्रं गृहे यस्य लिखितं परिपूज्यते । तत्र पापभयं नास्ति शुचि तद्भवनं सदा ॥ २०४॥ अगस्ते किं बहूक्तेन श‍ृणु मे निश्चितं वचः । संशयो नात्र कर्तव्यः सन्देग्धरि फलं नहि ॥ २०५॥ यावन्ति मर्त्ये स्तोत्राणि मन्त्रजालान्यनेकशः । तावन्ति स्तवराजस्य गाङ्गेयस्य समानि न ॥ २०६॥ यावज्जन्म जपेद्यस्तु नाम्नामेतत्सहस्रकम् । स कीकटेष्वपि मृतो न पुनर्गर्भमाविशेत् ॥ २०७॥ नित्यं नियमवानेतद्यो जपेत्स्तोत्रमुत्तमम् । अन्यत्रापि विपन्नः स गङ्गातीरे मृतो भवेत् ॥ २०८॥ एतत्स्तोत्रवरं रम्यं पुरा प्रोक्तं पिनाकिना । विष्णवे निजभक्ताय मुक्तिबीजाक्षरास्पदम् ॥ २०९॥ गङ्गास्नानप्रतिनिधिः स्तोत्रमेतन्मयेरितम् । सिस्नासुर्जाह्नवीं तस्मादेतत्स्तोत्रं जपेत्सुधीः ॥ २१०॥ ॥ इति श्रीस्कन्दपुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थैकाशीखण्डेपूर्वार्धे गङ्गासहस्रनामकथनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोपलाभीत्यभीष्टाम् । विधिहरिरूपां सेन्दुकोटीरजूटां कलितसितदुकूलां जाह्नवी तां नमामि ॥