अक्षर आकार:

गंगाष्टोत्तरशतनामावली

gangAShTottarashatanAmAvaliH

गंगाष्टोत्तरशतनामावली

ॐ गंगायै नमः । ॐ विष्णुपादसंभूतायै नमः । ॐ हरवल्लभायै नमः । ॐ हिमाचलेन्द्रतनयायै नमः । ॐ गिरिमण्डलगामिन्यै नमः । ॐ तारकारातिजनन्यै नमः । ॐ सगरात्मजतारकायै नमः । ॐ सरस्वतीसमयुक्तायै नमः । ॐ सुघोषायै नमः । ॐ सिन्धुगामिन्यै नमः । १० ॐ भागीरत्यै नमः । ॐ भाग्यवत्यै नमः । ॐ भगीरतरथानुगायै नमः । ॐ त्रिविक्रमपदोद्भूतायै नमः । ॐ त्रिलोकपथगामिन्यै नमः । ॐ क्षीरशुभ्रायै नमः । ॐ बहुक्षीरायै नमः । ॐ क्षीरवृक्षसमाकुलायै नमः । ॐ त्रिलोचनजटावासायै नमः । ॐ ऋणत्रयविमोचिन्यै नमः । २० ॐ त्रिपुरारिशिरःचूडायै नमः । ॐ जाह्नव्यै नमः । ॐ नरकभीतिहृते नमः । ॐ अव्ययायै नमः । ॐ नयनानन्ददायिन्यै नमः । ॐ नगपुत्रिकायै नमः । ॐ निरञ्जनायै नमः । ॐ नित्यशुद्धायै नमः । ॐ नीरजालिपरिष्कृतायै नमः । ॐ सावित्र्यै नमः । ३० ॐ सलिलावासायै नमः । ॐ सागरांबुसमेधिन्यै नमः । ॐ रम्यायै नमः । ॐ बिन्दुसरसे नमः । ॐ अव्यक्तायै नमः । ॐ अव्यक्तरूपधृते नमः । ॐ उमासपत्न्यै नमः । ॐ शुभ्राङ्गायै नमः । ॐ श्रीमत्यै नमः । ॐ धवलांबरायै नमः । ४० ॐ आखण्डलवनवासायै नमः । ॐ कंठेन्दुकृतशेखरायै नमः । ॐ अमृताकारसलिलायै नमः । ॐ लीलालिंगितपर्वतायै नमः । ॐ विरिञ्चिकलशावासायै नमः । ॐ त्रिवेण्यै नमः । ॐ त्रिगुणात्मकायै नमः । ॐ संगत अघौघशमन्यै नमः । ॐ भीतिहर्त्रे नमः । ॐ शंखदुंदुभिनिस्वनायै नमः । ५० ॐ भाग्यदायिन्यै नमः । भाग्यजनन्यै ॐ नन्दिन्यै नमः । ॐ शीघ्रगायै नमः । ॐ सिद्धायै नमः । ॐ शरण्यै नमः । ॐ शशिशेखरायै नमः । ॐ शाङ्कर्यै नमः । ॐ शफरीपूर्णायै नमः । ॐ भर्गमूर्धकृतालयायै नमः । ॐ भवप्रियायै नमः । ६० ॐ सत्यसन्धप्रियायै नमः । ॐ हंसस्वरूपिण्यै नमः । ॐ भगीरतभृतायै नमः । ॐ अनन्तायै नमः । ॐ शरच्चन्द्रनिभाननायै नमः । ॐ ओंकाररूपिण्यै नमः । ॐ अनलायै नमः । ॐ क्रीडाकल्लोलकारिण्यै नमः । ॐ स्वर्गसोपानशरण्यै नमः । ॐ सर्वदेवस्वरूपिण्यै नमः । ७० ॐ अंबःप्रदायै नमः । ॐ दुःखहन्त्र्यैनमः । ॐ शान्तिसन्तानकारिण्यै नमः । ॐ दारिद्र्यहन्त्र्यै नमः । ॐ शिवदायै नमः । ॐ संसारविषनाशिन्यै नमः । ॐ प्रयागनिलयायै नमः । ॐ श्रीदायै नमः । ॐ तापत्रयविमोचिन्यै नमः । ॐ शरणागतदीनार्तपरित्राणायै नमः । ८० ॐ सुमुक्तिदायै नमः । ॐ पापहन्त्र्यै नमः । ॐ पावनाङ्गायै नमः । ॐ परब्रह्मस्वरूपिण्यै नमः । ॐ पूर्णायै नमः । ॐ पुरातनायै नमः । ॐ पुण्यायै नमः । ॐ पुण्यदायै नमः । ॐ पुण्यवाहिन्यै नमः । ॐ पुलोमजार्चितायै नमः । ९० ॐ भूदायै नमः । ॐ पूतत्रिभुवनायै नमः । ॐ जयायै नमः । ॐ जंगमायै नमः । ॐ जंगमाधारायै नमः । ॐ जलरूपायै नमः । ॐ जगद्धात्र्यै नमः । ॐ जगद्भूतायै नमः । ॐ जनार्चितायै नमः । ॐ जह्नुपुत्र्यै नमः । १०० ॐ जगन्मात्रे नमः । ॐ जंबूद्वीपविहारिण्यै नमः । ॐ भवपत्न्यै नमः । ॐ भीष्ममात्रे नमः । ॐ सिक्तायै नमः । ॐ रम्यरूपधृते नमः । ॐ उमासहोदर्यै नमः । ॐ अज्ञानतिमिरापहृते नमः । १०८ ॥ॐ तत्सत्॥ ॥श्री गंगाष्टोत्तरशतनामावलिः संपूर्णा॥