अक्षर आकार:

श्रीगङ्गास्तुतिः

Shri Ganga Stutih

श्रीगङ्गास्तुतिः

श्रीराम उवाच - अस्याः प्रभावाद्धरयो योऽसौ मम पिता प्रभुः । सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ १॥ इयं जनित्री सकलस्य जन्तोर्भुक्तिप्रदा मुक्तिमथापि दद्यात् । पापानि हन्यादपि दारुणानि काऽन्याऽनयाऽस्त्यत्र नदी समाना ॥ २॥ हतानि शश्वद्दुरितानि चैव अस्याः प्रभावादरयः सखायः । विभीषणो मैत्रमुपैति नित्यं सीता च लब्धा हनुमांश्च बन्धुः ॥ ३॥ लङ्का च भग्ना सगणं हि रक्षो हतं हि यस्याः परिसेवनेन । यां गौतमो देववरं प्रपूज्य शिवं शरण्यं सजटामवाप ॥ ४॥ सेयं जनित्री सकलेप्सितानाममङ्गलानामपि सन्निहन्त्री । जगत्पवित्रीकरणैकदक्षा दृष्टाऽद्य साक्षात्सरितां सवित्री ॥ ५॥ कायेन वाचा मनसा सदैनां व्रजामि गङ्गां शरणं शरण्याम् ॥ ६॥ इति श्रीब्राह्मे महापुराणे तीर्थमाहात्म्ये गौतमीमाहात्म्ये श्रीरामकृता श्रीगङ्गास्तुतिः समाप्ता ॥ BrahmapurAna Chapter 157, verses 9-14