अक्षर आकार:

गङ्गास्तुतिः गङ्गाविज्ञप्तिः

Gangastutih Gangavijnaptih

गङ्गास्तुतिः गङ्गाविज्ञप्तिः

॥ श्रीगणेशाय नमः ॥ ॥ अथ मयूरपन्त-विरचितार्यानिबद्धश्रीगङ्गास्तुतिप्रारम्भः ॥ जय जय भगवति गङ्गे त्वं गेयगुणा प्रतीपकुलदयिते । अयि तेऽस्तु दया त्वत्तोये येन्ये दीने मतिक्षमामयि ते ॥ १॥ बलिना कलिना मलिनानुद्धर्तुमसि त्वमेव सत्यमलम् । गायन्ति यशः कवयस्तव यत्पीयूषतोपि सत्यमलम् ॥ २॥ भविता त्वयि मज्जनतः शुचिराशु तथा जपन्न गङ्गेऽहम् । रुचिरमपि वपुः पापं हेयमिह यथा सपन्नगङ्गेऽहम् ॥ ३॥ शरणागतो दयावति दीनस्त्याज्यस्त्वया न गङ्गेऽयम् । कः स्मरतु त्वां हि त्वां सन्तानं विषयिणां न गङ्गेयम् ॥ ४॥ भागीरथि तव दृष्टिः प्रभवसि पुरुषार्थसम्पदे विनते । ईषन्मात्रमपि श्रुतमौदासीन्यं जनेषु देवि न ते ॥ ५॥ मूर्तिमती त्वमसि दया देवस्य हरेर्जगद् भयादवतः । त्रातं हि लीलयेदं विश्वं संसारतस्त्वयादवतः ॥ ६॥ जय देवि जह्नुकन्ये भजदघसंहारसद्व्रते धन्ये । सन्तु बहवः किमन्ये त्वामेव जगद्धितावहां मन्ये ॥ ७॥ वससि विशङ्कं शम्भोः कृतशिञ्जितविहितमर्मरा शिरसि । दुर्गाया अपि तेन त्वं भगवत्यतुलशर्मराशिरसि ॥ ८॥ शरणागतजीवानां प्रक्षालितसर्वपापजम्बालाम । वन्दे हरेर्हरन्तीं त्रासं त्वां त्रिविधतापजम्बालाम् ॥ ९॥ पतितः काकोऽपि भवति पयसि भवत्याः सुरापगे हंसः । भजति यशः सुकृतौघस्त्वयि कृतमज्जनसुरापगेऽहंसः ॥ १०॥ हरितां ददासि जाह्नवि जन्तुभ्यस्त्वं तथा मुदा हरताम् । किं मे न दर्शनं वाक् सत्यास्तु यशःकथामुदाहरताम् ॥ ११॥ उत्तम ईशितुरङ्गे नटसि नदीश्वरि नटी यथा रङ्गे । कृतजगदनगभङ्गे सन्मतसङ्गे नमोस्तु ते गङ्गे ॥ १२॥ स्वस्तुत्यनभिज्ञेऽपि त्वत्करुणामयि कृतानतावस्तु । वस्तु प्राप्नोत्वयमयि जलजन्तुभिरपि तवाप्यते वस्तु ॥ १३॥ दयमानमानसे त्वं पुष्णास्यपि दुर्दुरं वकं मीनम् । पीनं कुरुषे मकरं धनहीनं त्यजसि किन्द्विजं दीनम् ॥ १४॥ भक्तमयूरघनघटे कुधियामस्माकमुचितमत्यागः । स्वयशो मा त्यज मातर्महतां महितो न शुचितमत्यागः ॥ १५॥ विष्णुपदि प्रतिकूलं व्यावर्तयितुं क्षमासि नतदिष्टम् । सति सति सामर्थ्येऽपि प्रणमदनवनं यदम्ब नतदिष्टम् ॥ १६॥ कास्ते त्रिविक्रमाङ्घ्रेर्ध्यायिस्वर्द्रोरिहाप्तजनमान्या । सर्वासु देवतासु स्वर्धुनि मातस्त्वमेव सन्मान्या ॥ १७॥ नमनादमनाक् करुणे देवि ! भवत्या भवव्यथाः शमिताः । अमिताः प्रजाः कृतार्थाः प्राप्ता भव्यं वरं परं शमिताः ॥ १८॥ स्पृष्ट्वा त्वां मां वातः स्पृशतु सुखं स्वमिव बालकं तातः । मास्तु मम विपदि पातः संसारात्तारयाऽऽशु भो मातः ॥ १९॥ भवतीं विना प्रमुदितं कर्तारो दीनमातुरङ्के ते । मलिनोपि शिशुरशङ्कं सुखमयमपि लुठतु मातुरङ्के ते ॥ २०॥ शरणागतस्य मम खलु तव चापि यशस्करीमिमामुक्तिम् । मानय मानय निकटं परिपालय देहि वत्सले मुक्तिम् ॥ २१॥ सन्तापमपाकर्तुं कादम्बिन्या यथा मयूरेण । गङ्गाया विज्ञप्तिः प्रेम्णैव कृता तथा मयूरेण ॥ २२॥ श्रीः इति श्रीरामवन्दनमयूरविरचितार्यारूपा श्रीमद्गङ्गाविज्ञप्तिः । श्रीः शुभं भवतु ।