अक्षर आकार:

गङ्गास्तुती गङ्गादशहरास्तोत्रम् च

Gangastuti or Gangadashahara Stotram

गङ्गास्तुती गङ्गादशहरास्तोत्रम् च

श्रीगणेशायनमः । ईश्वर उवाच । चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् । रत्नकुम्भसिताम्भोजवरदाभयसत्कराम् ॥ १॥ श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् । एवं ध्यायेत्सुसौम्यां च चन्द्रायुतसमप्रभाम् ॥ २॥ चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम् । सुप्रसन्नां च वरदां करुणार्द्रनिरन्तराम् ॥ ३॥ सुधाप्लावितभूपृष्ठां दिव्यगन्धानुलेपनाम् । त्रैलोक्यनमितां गङ्गां सर्वदेवैरभिष्टुताम् ॥ ४॥ दिव्यरत्नविभूषां च दिव्यमाल्यैर्विभूषिताम् । ध्यात्वा जले यथाप्रोक्तं तथाचार्यां च पूजयेत् ॥ ५॥ ॐ नमो भगवत्यै ऐं श्रीं ह्रीं हिलि हिलि मिलि मिलि गङ्गे मां पावय पावय स्वाहा । अनेन मन्त्रेण आगमोक्तेन पञ्चपुष्पाञ्जलिं श्रीगङ्गायै निवेदयेत् । मया हतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् । दशांगं गुग्गुलं धूपं सुगन्धं च मनोहरम् ॥ ६॥ गृहाण मङ्गलं दीपं घृतवर्तिसमन्वितम् । चतुर्विधं च नैवेद्यं रसैः षड्भिः समन्वितम् । रुद्ररूपे! नमस्तेऽस्तु गृहाण वरदा भव ॥ ७॥ परदारपरद्रव्यपरद्रोहपराङ्मुखः गङ्गा ब्रूते कदाऽऽगत्य मामयं पावयिष्यति ॥ इति वैश्वानरनारदसम्वादे दशपापहरायाः श्रीगङ्गाध्यानार्चनविधिः । एवं ध्यानार्चनं विधाय पश्चाज्जलान्तरे स्थित्वा, ज्येष्ठे मासि सिते पक्षे प्रतिपदादिदशमीपर्यन्तं दशविधपापप्रणाशाय प्रतिदिनमुत्तरोत्तरदिनवृद्धया दशहरास्तोत्रपाठमहं करिष्ये । अथ दशहरास्तोत्रप्रारम्भः । ब्रह्मोवाच -- नमः शिवायै गङ्गायै शिवदायै नमो नमः । नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः ॥ १॥ नमस्ते विष्णुरूपिण्यै ब्रह्मामूर्त्यै नमो नमः । सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये ॥ २॥ सर्वस्य सर्वव्याधीनां भिषक्ष्रेष्ठ्यै नमोऽस्तु ते । स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः ॥ ३॥ संसारविषनाहिन्यै जीवनायै नमो नमः । शान्तिसन्तानकारिण्यै नमस्ते शुद्धमूर्तये ॥ ४॥ सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये । भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमो नमः ॥ ५॥ भोगोपभोगदायिन्यै भोगवत्यै नमो नमः । मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः ॥ ६॥ नमस्त्रैलोक्यभूषायै त्रिपथायै नमो नमः । नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमो नमः ॥ ७॥ त्रिहूताशनसंस्थायै तेजोवत्यै नमो नमः । नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः ॥ ८॥ नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः । बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः ॥ ९॥ नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः । पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः ॥ १०॥ परापरशताढ्यायै वरदायै नमो नमः । पाशजालनिक्ऱ्^न्तिन्यै अभिन्नायै नमो नमः ॥ ११॥ शान्तायै च वरिष्ठायै वरदायै नमो नमः । उस्रायै सुखदोग्ध्र्यै च सञ्जीविन्यै नमो नमः ॥ १२॥ ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमो नमः । प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोऽस्तु ते ॥ १३॥ सर्वापत्प्रतिपक्षायै मङ्गलायै नमो नमः । शरणागतदीनार्तपरित्राणपरायणे ॥ १४॥ सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते । निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः ॥ १५॥ परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा । गङ्गे ममाग्रतो भूया गङ्गे मे देवि पृष्ठतः ॥ १६॥ गङ्गे मे पार्श्वयोरेहि त्वयि गङ्गेऽस्तु मे स्थितिः । आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे ॥ १७॥ त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः । गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे ॥ १८॥ य इदं पठति स्तोत्रं भक्त्या नित्यं नरोऽपि यः । श‍ृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसम्भवैः ॥ १९॥ दशधासंस्थितैर्दोषैः सर्वैरेव प्रमुच्यते । सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लियते ॥ २०॥ इमं स्तवं गृहे यस्तु लेखयित्वा विनिक्षिपेत् । नाग्निचोरभयं तत्र पापेभ्य्ऽपि भयं न हि ॥ २१॥ ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । संहरेत्त्रिविधं पापं बुधवारेण संयुता ॥ २२॥ तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ २३॥ सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः । पूर्वोक्तेन विधानेन यत्फलं संप्रकीर्तितम् ॥ २४॥ यथा गौरी तथा गङ्गा तस्माद्गौर्यास्तु पूजने । विधिर्यो विहितः सम्यक् सोऽपि गङ्गाप्रपूजने ॥२५॥ यथा शिवस्तथा विष्णुर्यथा विष्णुरुमा तथा । उमा यथा तथा गङ्गा चतूरूपन्न भिद्यते ॥२६॥ विष्णुरुद्रान्तरं यच्च श्रीगौर्योरन्तरं यथा । गङ्गागौर्यन्तरं चापि यो ब्रूते मूढधीस्तु सः ॥२७॥ रौरवादिषु घोरेषु नरकेषु पतत्यधः । अदत्तानामुपादानं हिंसा चैवाविधानतः ॥ २८॥ परदारोपसेवा च कायिकं त्रिविधं स्मृतम् । पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ॥ २९॥ असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ॥ ३०॥ वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् । एतानि दश पापानि हर त्वं मम जाह्नवि ॥ ३१॥ दशपापहरा यस्मात्तस्माद्दशहरा स्मृता । एतैदर्शविधैः पापैः कोटिजन्मसमुद्भवैः ॥ ३२॥ मुंच्यते नात्र सन्देहो ब्रह्मणो वचनं यथा । दशत्रिंशच्छ्र्तान्सर्वान् पितॄनथ पितामहान् ॥ ३३॥ उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता । ॐ नमो भगवत्यै दशपापहरायै गङ्गायै नारायण्यै रेवत्यै । शिवायै दक्षायै अमृतायै विश्वरूपिण्यै (विश्वमुख्यायै) नन्दिन्यै ते नमो नमः ॥ ३४॥ ज्येष्ठे मासि सिते पक्षे दशम्य़ां बुधहस्तयोः । गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ । दशयोगे च यः स्नात्वा सर्वपापैः प्रमुच्यते ॥ ३५॥ सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् । विधिहरिहररूपां सेन्दुकोटीरजुष्टां कलितसितदुकूलां जाह्नवीं तां नमामि ॥ ३६॥ आदावादिपितामहस्य निगमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ३७॥ विष्णुपादाब्जसम्भूते गङ्गे त्रिपथगामिनि । ब्रह्मद्रवेति विख्याते पापं मे हर जाह्नवि ॥ ३८॥ जाह्नवी सर्वतः पुण्या ब्रह्महत्यापहारिणी । वाराणस्यां विशेषेण गङ्गा चोत्तरवाहिनी ॥ ३९॥ गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ४०॥ इति स्कन्दे महापुराणे एकाशीति साहस्र्यां संहितायां तृतीये काशीखण्डे धर्माब्धिस्था गङ्गास्तुतिः अथवा श्रीगञ्गादशहरास्तोत्रं सम्पूर्णम् । अथागमोक्तं स्तोत्रं एवम् ।