अक्षर आकार:

गङ्गास्तोत्रम् ५

Gangastotram 5

गङ्गास्तोत्रम् ५

श्रीगणेशाय नमः । लोके प्रतिष्ठा भवतो यदेष्टा नेक्ष्या तदा जह्वनरेन्द्रकन्या । नग्नं वृषस्थं पुरुषं विधाय कपालिनं भैक्षचरं करोति ॥ १॥ रजोऽभिभूता रजसा विशुद्धास्तैरेजते जहुर्रेन्द्रकन्ये? कस्यै न शुद्ध्यै तव पङ्कलेपः कलेवरे कर्मवशात्स्थितानाम् ॥ २॥ मातर्जलस्य प्रकृतिः प्रसिद्धा शीतेति लोके तव तोयसङ्गात् । पापं हि जन्तोर्भवति क्षणेन यद्भस्मसात्तन्मम चित्रमास्ते ॥ ३॥ यो विष्णुपादाब्जपरागसङ्गो यश्चापि निर्वाणदपूर्विहारः । अघघ्नता या च कलिन्दजाया एतत्वयं त्वत्सखितानिदानम् ॥ ४॥ विधाय सम्भेदमभेदहेतुं सूर्यस्य पुत्र्या सह तीर्थराजे । यमाधिकारं नयसि प्रशान्तिं ततोऽपि नीतिज्ञतया नितान्तम् ॥ ५॥ स्तुवन्ति गङ्गे यमकिङ्करास्त्वां निन्दन्ति वा स्वाधिकृतेरपायात् । जाने न तत्त्वं जननि ! त्वदीयं विधेहि मुक्तं किमु संशयेन ॥ ६॥ अधर्मभीरुः श्रितधर्मभीतिः कुर्वन्यथाशक्तिमति स्वधर्मम् । तत्त्वावबोधेन विनाऽपि वाञ्छन्मुक्तिं हि सम्भेदमहं स्मरामि ॥ ७॥ सम्भेद एवं मिलिता सरस्वती रक्ता मदीया मम शुद्धिहेतवे । जाता त्रिवेणी ग्रथनादितः पृथक् स्तोतुं कथं याति परं हि मानुषम् ॥ ८॥ गिरेः सकाशादुदयं प्रयातां शितिच्छविच्छादितदिग्विभागाम् । यमप्रसक्तोऽपि यमातिभीरुर्नमामि गङ्गां यमुनां स्वमुक्त्यै ॥ ९॥ गौर्याः सपत्नीकविवर्णितां हि लक्ष्म्याः सपत्नीमपि सुप्रसिद्धाम् । समुद्रयोगेन मिथः सपत्नीं नमामि गङ्गां यमुना स्वमुक्त्यै ॥ १०॥ निपीय नीरं तव देवि ! तीरे- स्थितः कुटीरे सुलभान्नभोक्ता । त्यक्तस्पृहः केवलमोक्षकाङ्क्षी ध्वाङ्क्षीव लक्ष्मीनृपतेर्हि तस्य ॥ ११॥ स्मृतिशतपरिगीतांस्त्वद्गुणान्देवि ! श‍ृण्वन् विगतशमनभीतिः स्वैरितामभ्युपेतः । यदि निरयमवेक्षे क्षीरमासेव्य मातः ! तव सुरधुनि ! तथ्यं ब्रूहि कस्यापराधः ! ॥ १२॥ इति श्रीशिवराम त्रिपाठी कृतं गङ्गास्तोत्रं सम्पूर्णम् ।