अक्षर आकार:

गङ्गास्तोत्रम् ४

Gangastotram 4

गङ्गास्तोत्रम् ४

श्रीगणेशाय नमः । पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् । हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत ॥ १॥ इयं चिद्रूपाऽपि प्रकटजडरूपा भगवती यदीयाम्भोविन्दुर्वितरति च शम्भोरपि पदम् । पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत्कृस्नं पायादनुदिनमपायात्सुरधुनी ॥ २॥ वाते वाऽपि यदङ्गसङ्गमवशाच्छ्रीशम्भुरूपप्रदे गौरी रुष्यति तुष्यति त्वहिपतिर्विन्ध्याटवी शोचति । चन्द्रस्त्रस्यति कुप्यते हरिरपि ब्रह्मा परं शङ्कते सा गङ्गा निखिलं कलङ्कनिचयं भङ्गं तुरङ्गैनर्येत् ॥ ३॥ मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा वह्नौ लाजनिभा दृशौ मणिनिभा भोगोत्करे भोगिनाम् । नृत्यावर्तविवर्तनेरितपयःसम्मूर्च्छनोच्छालिताः खेलन्ती हरमुर्धनि पान्तु भवतो गङ्गापयोबिन्दवः ॥ ४॥ एषा धर्मपताकिनी तटसुधासेवावसनाकिनी शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी । प्रेमारूढपिनाकिनी गिरिसुतासाकेकरालोकिनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥ ५॥ इति गङ्गास्तोत्रं सम्पूर्णम् ।