अक्षर आकार:

गङ्गास्तोत्रम् ३

Gangastotram 3

गङ्गास्तोत्रम् ३

श्रीगणेशाय नमः । अथानन्तरतो देवि समयास्तोत्रमुत्तमम् । येन स्तुता सिद्धमूली भक्षिता फलदा भवेत् ॥ १॥ संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे । भैरवानन्ददीप्त्यर्थं पवित्रा भव सर्वदा ॥ २॥ नमामि यामिनीनाथलेखालङ्कृतमस्तकाम् । भवानी भवसन्तापनिर्वापण-सुधानिधिम् ॥ ३॥ सिद्धिमूलीं श्रये देवी हीनबोधप्रबोधिनीम् । राजप्रजावशकरी कालकण्ठे त्रिशूलिनि ॥ ४॥ अज्ञानेन्धनदीप्ताग्रे ज्ञानविज्ञानरूपिणि । आनन्दाद्याहुतिप्रीते सम्यग्ज्ञानं प्रयच्छ मे ॥ ५॥ दण्डाधिरूढपरिपूरितभोगमोक्षां मुण्डाक्रमेण मदनां जनकामिनीनाम् । आराधयामि बहुशत्रुपराजयन्ती विश्वेश्वरी त्रिभुवनां विजयेति देवीम् ॥ ६॥ आनन्दनन्दिनीनन्दे सदावन्द्यपदद्वये । उल्लासकदलीकन्दे स्वच्छन्दे बोधरूपिणि ॥ ७॥ कवयः कवितालहरी कुरुते तत्त्वार्थदर्शनं पुंसाम् । अपहरति दुरितनिलयं किं किं न करोति संविदुल्लासः ॥ ८॥ संविदासवयोर्मध्ये संविदेव गरीयसी । संविदाश्रयणादेव तदात्मा पुरुषः स्मृतः ॥ ९॥ श्यामैव रामा कविरेव विद्वान् विद्यैव बन्धुर्धनुरेव शस्त्रम् । गङ्गैव तीर्थ स्मर एव धन्वी मार्गेषु माहेश्वर एव मार्गः ॥ १०॥ कथञ्चिदेषा करुणाकटाक्षैर्निरीक्षते मां परदेवता चेत् । वृथा कथाकल्पमहीरुहाणामलं च चिन्तामणिचिन्तनेन ॥ ११॥ अलिपिशितपुरन्ध्रीभोगपुञ्जारतोऽहं बहुविधकुलमार्गारम्भसम्भावितोऽहम् । पशुजनविमुखोऽहं भैरवीं संश्रितोऽहं गुरुचरणरतोऽहं भैरवोऽहं शिवोऽहम् ॥ १२॥ वामोरुस्ते रमणकुशला दक्षिणे चालिपात्रं तप्ता मुद्राश्चणकवटकाः सौकरं सुष्ठु मांसम् । तन्त्री वीणा सरसकवयः सत्कथा सद्गुरूणां कौलो धर्मः परमगहनो योगिनामप्यगम्यः ॥ १३॥ कौलरहस्ये गलार्णवे । श्रीरस्तु । इति समयाचारतन्त्रे गङ्गास्तोत्रं सम्पूर्णम् ।