अक्षर आकार:

गङ्गास्तोत्रम्

Gangastotram

गङ्गास्तोत्रम्

विप्रा ऊचुः- स्तोत्रे श‍ृणु यथाप्रोक्ते खण्डे प्रकृतिसंज्ञके । शिवागमे च गङ्गायाः महापापप्रणाशने ॥ १॥ श्रीनारायण उवाच- शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् । राधाङ्ग इव संयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ २॥ यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले । सत्रिधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ ३॥ गोपैर्गोम्पिभिराकीर्णे शुभे राधामहोत्सवे । कार्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥ ४॥ कोटियोजनविस्तीर्णां दैयैर्लक्षगुणा ततः । समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥ ५॥ षष्टिलक्षयोजना या ततो दैध्ये चतुर्गुणा । समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥ ६॥ त्रिंशल्लक्षयोजना या दैध्यें पञ्चगुणा ततः । प्रावृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ७॥ लक्षयोजनविस्तीर्णा दैध्यें सप्तगुणा ततः । आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ८॥ लक्षयोजनविस्तीर्णा दैध्यें दशगुणा ततः । आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ९॥ षष्टिसहस्रयोजना या दैध्यें दशगुणा ततः । आवृता सूर्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १०॥ लक्षयोजनविस्तीर्णा दैध्यें पञ्चगुणा ततः । आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ११॥ दशलक्षयोजना या दैध्यें पञ्चगुणा ततः । आवृता तपोलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२॥ सहस्रयोजना या दैध्यें दशगुणा ततः । आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १३॥ सहस्रयोजनायामा दैध्यें सप्तगुणा ततः । आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥ १४॥ शतयोजनविस्तीर्णा दैध्यें दशगुणा ततः । मन्दाकिनी येन्द्रलोकं तां गङ्गां प्रणमाम्यहम् ॥ १५॥ पाताले या भोगवती विस्तीर्णा दशयोजना । ततो दशगुणा दीघीं तां गङ्गां प्रणमाम्यहम् ॥ १६॥ क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् । क्षितौ याऽलकनान्दाख्या तां गङ्गां प्रणमाम्यहम् ॥ १७॥ सत्ये या क्षीरवर्णा च त्रेतायां क्षीरसत्रिभा । द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् । जलप्रभा कलौ या च नान्यत्र पृथिवीतले ॥ १८॥ स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् । यस्या प्रभावमतुलं पुराणे च श्रुतौ श्रुतम् ॥ १९॥ या पुण्यदा पापहन्त्री तां गङ्गां प्रणमाम्यहम् । यत्तोयकणिकास्पर्श पापिनां च पितामह । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ २०॥ इत्येवं कथितं ब्रह्मन् गङ्गापद्यैकविंशतिः । स्तोत्ररूपं च परमं या पुण्यं पुण्यबीजकम् ॥ २१॥ नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् । सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥ २२॥ अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् । रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद्धवम् ॥ २३॥ अस्पष्टकीर्तिः सुयशा मूखों भवति पण्डितः । यः पठेत्प्रातरुत्थाय नित्यं स्तोत्रमिदं शुभम् ॥ २४॥ शुभं भवेच्च दुःस्वप्नो गङ्गास्नानफलं लभेत् । इति श्रीनानापुराणसारोद्धारे गङ्गाभक्तिप्रकाशे ब्रह्मवैवोक्त गङ्गास्तोत्रं सम्पूर्णम् ।