अक्षर आकार:

गङ्गास्तोत्रं ६

Gangastotram 6

गङ्गास्तोत्रं ६

श्रीगणेशाय नमः । विचलकलविहङ्गे विष्णुपादाम्बुसङ्गे तटतरुरतभृङ्गे तीरचञ्चत्कुरङ्गे । विमलतरतरङ्गे विश्वनाथाञ्चिताङ्गे सकलकलुषभङ्गे पाहि मां देवि गङ्गे ॥ १॥ जनेर्दूरे धीरे जननि तव तीरे स्थिरतरं नरं धन्यं मन्ये हिमशिखरिकन्ये सुनिपुणम् । असौ वारं वारं जननमृतिभारं परिजहत् स्वसंसारं सारं भवजलधिपारं हि भजति ॥ २॥ त्वदुत्सङ्गे गङ्गे विहरणविहङ्गे मयि मिलत् कृपापाङ्गे सङ्गे तव वरतङ्गेण सति मे । कुतः पापं तापं जनयतु समीपं परिजहत् परं द्वीपं दीपं तम इव दुरापं व्रजति हि ॥ ३॥ गङ्गे भृङ्गाङ्गनालीविरचितकलसङ्गीतभङ्गीविलग्न स्वान्तानन्दानुरूपप्रविततपुलकभ्रान्तिदाल्पाल्पभङ्गे । अङ्गीकुर्वद्य मां त्वत्सकरुणरुचिरापाङ्गलावण्यगङ्गा तुङ्गोर्मिस्नापिताङ्गस्वकपरिजनसङ्घातमध्येऽन्तरङ्गम् ॥ ४॥ अम्ब त्वामनुसन्दधेऽहमनिशं चित्तेन वाचापि ते स्वर्भूलोकरसातलेषु विततां कीर्तिं स्तुवे पावनि । गङ्गे तुङ्गतरङ्गसङ्गिहिमवत्पादे पदाब्जं च ते साष्टाङ्गं प्रणमामि तारय परं मां देवि दुःखार्णवात् ॥ ५॥ गङ्गे मङ्गलदायिभव्यचरिते रिङ्गत्तरङ्गोज्ज्वले सांङ्गो मेऽस्तु मनोरथस्त्वयि सदा स्नानेन पानेन च । एतावत्तु वृतं मया तव पुनस्तीरे सदा सात्त्विकै वेदान्तार्थविचारतत्परतरो नेष्ये चिरं वासरान् ॥ ६॥ गङ्गे तावकतीर एव सततं वस्तुं मनो मेऽस्ति चेद अस्त्वेवं ननु दिव्यमङ्गलगुणे किं तावता साधितम् । मातुः स्तन्यमपेक्ष्य भूरिकरुणालापैः परं बालको रोदिष्यत्यसकृद् ददाति यदि सा सार्थस्तदा तच्छ्रमः ॥ ७॥ अम्बाद्याभिमुखीकृतासि सुचिरं जन्मान्तरेष्वर्जितैः पुण्यैरन्यसुदुर्लभैस्तव मया प्राप्तं कटाक्षेक्षणम् । यत्प्राप्यैव शिवः शिवोऽभवदसौ विष्णुच विष्णुत्ववान् ब्रह्मा ब्रह्मपदं जगाम महिमा गङ्गे तवात्यद्भुतः ॥ ८॥ इति जह्वसुतां जगद्विभूषामभिनन्द्याथ समस्तदेवतास्ताः । जनुषः फलमद्य जातमित्यालपनं चक्रुरतीव हष्टभावाः ॥ ९॥ नदनन्तरमत्य तत्प्रतीरं तुलसीं सन्ददृशुसित्रलोक वन्ध्याम् । स्तुतिभिः सह तत्प्रदक्षिणामुचितं प्रभुक्रमणं वितेनिरे ते ॥ १०॥ पठन् गङ्गाष्टकमिदं लक्ष्मणाध्वरिनिर्मितम् । आयुरारोग्यपुत्रार्थ विद्यासिद्धिमवाप्नुयात् ॥ ११॥ इति श्रीलक्ष्मणसोमयाजि विरचितं गङ्गास्तोत्रं सम्पूर्णम् ।